सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/तृतीयादशतिः/यशः

विकिस्रोतः तः
यशः
यशः

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।

[सम्पाद्यताम्]

टिप्पणी

परीतो षिंचता सुतम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्त्यो ह्य् एतद् अहः। सोमो य उत्तमं हविर् इत्य् उत्तमं ह्य् एतद् धविः क्रियते यच् छन्दोमाः। दधन्वां यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः॥ नूनं पुनानो ऽविभिः परि स्रवादब्धस् सुरभिन्तरः। सुते चित् त्वाप्सु मदामो अन्धसा। इत्य् अन्ध्स्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। श्रीणन्तो गोभिर् उत्तरम् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। - जैब्रा ३.२५२

अथ यशः। यशसा वै देवा यशो ऽभवन्। यशो ऽसामेति सत्रम् आसते। यश एव भवन्ति। तच् छ्रीर् वै यशः। अश्नुते श्रियं य एवं वेद। तद् उ सप्तत्रिंशदक्षरणिधनं भवति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकः। असाव् आदित्यस् सप्तत्रिंशः। एतस्मिन्न् एव तत् स्वर्गे लोके ऽन्ततः प्रतितिष्ठन्ति। तस्यो एतां कल्याणीम् आशिषम् अन्तत आशासत आयुर् विश्वायुर् विश्वं विश्वम् आयुर् अशीमहीति। तयैवैतत् समृध्योदृचम् अश्नुवते। - जैब्रा ३.२५८