सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/वरुणसाम

विकिस्रोतः तः
वरुणसाम
वरुणसाम.

१२
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि |
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि || १०७९ || ऋ. ९.१०७.२१
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने |
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि || १०८० |



५. वरुणसाम ।। वरुणः। बृहती। पवमानस्सोमः ।

मृज्यमानस्सुहस्त्यौवा । औवा ॥ सामुद्रेवा । चमाइन्वाऽ१ सीऽ२ । राऽ२३यीम् । पाऽ२३इशा । गंबहुलम् । पुरूऽ२३हाइ । स्पृहाऽ३मा ॥ पवमानाभियर्षसि। पाऽ२३वा।। मानाभियौऽ३। होऽ३१२३४।वा। षाऽ५सोऽ६"हाइ ॥ श्रीः ॥ पवमानाभियर्षसोवा। ओवा ॥ पावमाना । भियार्षाऽ१साऽ२इ । पूऽ२३ना । नोऽ२३वा । रेपवमा । नोआऽ२३हाइ । व्ययाऽ३आ ॥ वृषोअचिक्रदद्वने। वाऽ२३र्षो ॥ आचिक्रदौऽ३ । होऽ३१२३४ । वा । वाऽ५नोऽ६"हाइ ।।श्रीः।। वृषोअचिक्रदद्वनोवा । ओवा ॥ वार्षोअचि । क्रदाद्वाऽ१ नाऽ२इ । दाऽ२३इवा । नाऽ२३५ꣳसो। मपवमा । ननाऽ२३हाइ । कृताऽ३मा ॥ गोभिरञ्जानोअर्षसि । गोऽ२३भाइः ॥ आञ्जानऔऽ३ । होऽ३१२३४ । वा। षाऽ५सोऽ६"हाइ ॥

दी. २२. उत् . ६. मा. २२. चा. ॥१०५॥



[सम्पाद्यताम्]

टिप्पणी

अथ वरुणसाम। वरुणो वै राजा सधमादम् अवान्याभिर् देवताभिर् आसीत्। सो ऽकामयत सर्वेषां देवानां राज्याय सूयेयेति। स प्रजापतौ शतं वर्षाणि ब्रह्मचर्यम् अवसत्। तस्मा एतत् सामाब्रवीद् - एतद् वै मे राज्यं रूपम्। गच्छ। राजानं त्वा देवाः करिष्यन्त इति। स देवान् अभ्यैत्। तम् आयन्तं दृष्ट्वा देवाः प्रत्यवारोहन्। तान् अब्रवीन् - मा मा प्रत्यवरुक्षत। भ्रातरो वै मम यूयं स्थ। यादृशा वै यूयं स्थ, तादृङ् अहम् अस्मीति। नेत्य् अब्रुवन्। यद् वै नः पितुः प्रजापते रूपं तद् इदं त्वयि पश्याम इति। तं प्रत्य् एवावारोहन्। तस्मा एतां राजासन्दीं त्यदधुः(न्यदधुः?)। तस्याम् एनम् अभ्यषिञ्चन्त - वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वेदेवास् साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। तद् एतच् छ्रीसवस्साम। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ वरुणो राजापश्यत्, तस्माद् वरुणसामेत्य् आख्यायते॥जैब्रा. ३.१५२

वरुणसाम भवति। एतेन वै वरुणो राज्यमाधिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो भवति वरुणसाम्ना तुष्टुवानः- तांब्रा १३.९.२३

दशरात्रस्य षष्ठे अहनि माध्यन्दिनपवमाने अस्य विनियोगः - आर्षेयकल्पः उपोद्घातः पृ. ७५