सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/आनूपं वाध्र्यश्वम्

विकिस्रोतः तः
आनूपं वाध्र्यश्वम्.
आनूपं वाध्र्यश्वम्।।.

६. आनूपं वाध्र्यश्वम् ॥ आनूपः । बृहती। पवमानस्सोमः ।
सो꣡꣯मा꣢स्सो꣡꣯मा꣢: ॥ उष्वा꣯णऽ३स्सो꣡तॄ꣢ऽ१भीऽ᳒२᳒ः । आ꣡धिष्णु꣢भिः । आ꣡वा꣢ऽ१इनाऽ᳒२᳒म् । आ꣡श्वाऽ२ये꣡वाऽ᳒२᳒ । ह꣡रिता꣯या꣯ति꣢धा꣡꣯राऽ२३या꣢ ॥ म꣡न्द्राया꣢ऽ३या꣢ऽ३ ॥ ता꣡ऽ२३इधा꣤ऽ३ । रा꣢ऽ३४५योऽ६"हा꣥इ ॥श्रीः।। म꣡न्द्रा꣢म꣡न्द्रा꣢ । या꣯या꣯तिऽ३धा꣡रा꣢ऽ१याऽ᳒२᳒। मा꣡न्द्रया꣢꣯या꣯। तिधा꣡रा꣢ऽ१याऽ᳒२᳒ । आ꣡नूऽ᳒२᳒पे꣡गोऽ᳒२᳒ । मा꣡꣯न्गो꣯भि꣢रा꣡ऽ२३क्षा꣢: ॥ सो꣡꣯मोदू꣢ऽ३ग्धा꣢ऽ३ । भा꣡ऽ२३इरा꣤ऽ३ । आ꣢ऽ३४५क्षोऽ६”हा꣥इ ।। श्रीः ॥ सो꣡꣯मा꣢स्सो꣡꣯मा꣢: ॥ दुग्धा꣯ऽ३भा꣡इरा꣢ऽ१क्षाऽ᳒२᳒ः । सो꣡मो꣯दु꣢ग्धा꣯ । भा꣡इरा꣢ऽ१क्षाऽ᳒२᳒ः । सा꣡मूऽ᳒२᳒द्रा꣡न्नाऽ᳒२᳒ । सं꣡वरणा꣯नि꣢या꣡ऽ२३ग्मा꣢न् ।। म꣡न्दाइमा꣢ऽ३दा꣢ऽ३ ॥ या꣡ऽ२३तो꣤ऽ३ । शा꣢ऽ३४५तोऽ६"हा꣥इ ॥
दी. १९. उत्. १. मा. १८. तै. ॥८६॥

सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।

अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ ९९७॥ ऋ. ९.१०७.८

अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।

समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥ ९९८॥


६. आनूपं वाध्र्यश्वम् ॥ आनूपः । बृहती। पवमानस्सोमः ।

सोमास्सोमाः ॥ उष्वाणऽ३स्सोतृऽ१भीऽ२ः । आधिष्णुभिः । आवाऽ१इनाऽ२म् । आश्वाऽ२येवाऽ२ । हरितायातिधाराऽ२३या ॥ मन्द्रायाऽ३याऽ३ ॥ ताऽ२३इधाऽ३ । राऽ३४५योऽ६"हाइ ॥श्रीः।। मन्द्रामन्द्रा । यायातिऽ३धाराऽ१याऽ२। मान्द्रयाया। तिधाराऽ१याऽ२ । आनूऽ२पेगोऽ२ । मान्गोभिराऽ२३क्षाः ॥ सोमोदूऽ३ग्धाऽ३ । भाऽ२३इराऽ३ । आऽ३४५क्षोऽ६”हाइ ।। श्रीः ॥ सोमास्सोमाः ॥ दुग्धाऽ३भाइराऽ१क्षाऽ२ः । सोमोदुग्धा । भाइराऽ१क्षाऽ२ः । सामूऽ२द्रान्नाऽ२ । संवरणानियाऽ२३ग्मान् ।। मन्दाइमाऽ३दाऽ३ ॥ याऽ२३तोऽ३ । शाऽ३४५तोऽ६"हाइ ॥

दी. १९. उत्. १. मा. १८. तै. ॥८६॥


[सम्पाद्यताम्]

टिप्पणी

सोम उ ष्वाणस् सोतृभिर् इति सिमानां रूपम्। अधि ष्णुभिर् अवीनाम् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। समुद्रं न (संवरणान्य् अग्मन् मन्दी मदाय) तोशत इति समुद्रवतीर् भवन्ति। आपो ह्य् एतद् अहः। ता न्यूनाक्षरा भवन्ति। सप्ताक्षराण्य् एकानि पदानि भवन्ति, नवाक्षराण्य् एकान्य्, एकादशाक्षराण्य् एकानि, द्वादशाक्षराण्य् एकानि। तद् एतद् अभिपूर्वम् एव शक्वरीणां रूपम् उपगच्छन्ति। तास्व् आनूपम् अनुतोदवत् सिमानां रूपम्। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। प्र प्रजया पशुभिर् जायते य एवं वेद। अनूपो वै धीतोनिर् अकामयतोभयं ब्रह्म च क्षत्रं चावरुन्धीय, राजा सन्न् ऋषि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयं ब्रह्म च क्षत्रं चावारुन्द्ध, राजा सन्न् ऋषिर् अभवत्। उभयम् एव ब्रह्म च क्षत्रं चावरुन्द्धे, राजा सन्न् ऋषिर् भवति य एवं वेद। यद् व् अनूपो धीतोनिर् अपश्यत् तस्माद् आनूपम् इत्य् आख्यायते॥जैब्रा ३.९७

सोम उष्वाणस्सोतृभिर्"इति सिमानां रूपं स्वेनैवैतास्तद्रूपेण समर्धयति.......आनूपं भवति। एतेन वै वध्र्यश्व आनूपः पशूनां भूमानमाश्नुत पशूनां भूमानमश्नुत आनूपेन तुष्टुवानः - पञ्च.ब्रा. १३.३.१६

सोमसामानि षट् (ग्रामगेयः)

मानवोत्तरम्

वाम्रम्

अग्नेस्त्रिणिधनम्

आनूपम्(अभि सोमास आयवः) (संवत्सरपर्व)