सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/अन्तरिक्षम्

विकिस्रोतः तः
अन्तरिक्षम्

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥ ८५६ ॥ ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥८५७ ॥



६ अन्तरिक्षम् ॥ प्रजापतिः। बृहती। पवमानस्सोमः ॥
हावभिसोमा ॥ सआय । वा । ओहौहोवाऽ२ । इहा। पवन्तेमदियम्म। दाम् । ओहौहोवाऽ२ । इहा । समुद्रस्याधिविष्टपेमनीषि । णा। औहौहोवाऽ२। इहा। मत्सरा। सा। औहौहोवाऽ२। इहा। मद। च्यूऽताऽ२३४औहोवा ॥श्रीः।। हाउमत्सरासाः । मदच्यु । ता । औहौहोवाऽ२ । इहा। मत्सरासोमदच्यु। ता। औहौहोवाऽ२ । इहा । तरत्समुद्रंपवमानऊर्मि। णा। । औहौहोवाऽ२ । इहा || राजादे। वा। औहौहोवाऽ२ ॥ इहा । ऋतम् । बृऽ२हाऽ२३४औहोवा ॥श्रीः॥ हाउराजादेवाः ।। ऋतंबृ। हात् । औहौहोहोवाऽ२ । इहा । राजादेवऋतंबृ । हात् । औहौहोवाऽ२ । इहा । अर्षामित्रस्यवरुणस्यधर्म । णा । औहौहोवाऽ२ ॥ इहा । प्रहिन्वा । ना। औहौहोवाऽ२ ।। इहा । ऋतम् । बृऽ२हाऽ२३४औहोवा ॥ सुष्टुभस्तुभोश्वाशिशुमक्राऽ३न् । इट्स्थि इडाऽ२३४५ ॥
                                    दी. ७०. उत् . २१. मा. १७. पे. ॥६॥

[सम्पाद्यताम्]

टिप्पणी

पृष्ठ्यषडहे तृतीयमहः -- अथान्तरिक्षम्। देवान् वा अन्तरिक्षं परेतान् असुरा अविध्यन्। ते ऽकामयन्तान्तरिक्षाद् एवान्तरिक्षेण विजित्य स्वर्गं लोकम् आरोहेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽन्तरिक्षाद् एवान्तरिक्षेण विजित्य स्वर्गं लोकम् आरोहन्। तद् एवान्तरिक्षस्यान्तरिक्षत्वम्। तद् एतद् विजिति स्वर्ग्यं साम। विजयते गच्छति स्वर्गं य एवं वेद। अन्तरिक्षं वा एतद् अहः। लेलेव वा अन्तरिक्षम् तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तस्योभयतः पदं परिष्टोभत्य् अन्तरिक्षस्य रूपम्। उभयत इव हीदम् अन्तरिक्षं परिष्टुब्धम् आभ्यां लोकाभ्याम्। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। अन्तरिक्षं वा एतद् अहर्, अन्तरिक्षम् एतत् साम। अहर् एवैतेन रोहति तुष्टुवानः। यद् उ देवा एतेन साम्नान्तरिक्षाद् एवान्तरिक्षेण विजित्य स्वर्गं लोकम् आरोहंस् तस्माद् अन्तरिक्षम् इत्य् आख्यायते॥जैब्रा ३.४५

अन्तरिक्ष उपरि टिप्पणी