सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/वैयश्वम्(वैश्वमनसम्)

विकिस्रोतः तः
वैयश्वम्(वैश्वमनसम्
वैयश्वम्(वैश्वमनसम्) .

पवस्व देववीतय इन्दो धाराभिरोजसा ।
आ कलशं मधुमान्त्सोम नः सदः ।। १३२६ ।। ऋ. ९.१०६.७
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
त्वां देवासो अमृताय कं पपुः ।। १३२७ ।।
आ नः सुतास इन्दवः पुनाना धावता रयिं ।
वृष्टिद्यावो रीत्यापः स्वर्विदः ।। १३२८ ।।

[सम्पाद्यताम्]

टिप्पणी

वैश्वमनसं भवति। विश्वमनसं वा ऋषिमध्यायमुद्व्रजितं रक्षोऽगृह्णात् तमिन्द्रोऽचायदृषिं वै रक्षोऽग्रहीदिति तमभ्यवददृषे कस्त्वैष इति, स्थाणुरिति ब्रूहीति रक्षोऽब्रवीत्, स स्थाणुरित्यब्रवीत् तस्मै वा एतेन प्रहरेत्यस्मा इषीकां वज्रं प्रयच्छन्नब्रवीत् तेनास्य सीमानमभिनत् सैषेन्द्रेणतेषीका पाप्मा वाव स तमगृह्णात् तं वैश्वमनसेनापाहतापपाप्मानं हते वैश्वमनसेन तुष्टुवानः - पञ्च.ब्रा १५.५.१९

पवस्व देववीतय इति सर्वदेवत्यं भवति। वैश्वदेवं ह्य् एतद् अहर् जागतम्। तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुर् इति वृद्धं ह्य् एतद् अहः। आ नस् सुतास इन्दव इत्य् आवतीर् भवन्त्य् अनतिपादायैव॥जैब्रा ३.२६६

तासु वैश्वमनसम्। विश्वमनसं वै समिद्धारं परेतम् अरण्य ऋक्षो ऽविन्दत्। सो ऽकामयतापर्क्षं हनीयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। तम् इन्द्रो ऽपश्यद् - विश्वमनसम् ऋक्षो ऽविदद् इति। तम् अभ्याद्रवत्। तस्याद्रवत श्वसथात् प्राव्लीयत। तम् अपृच्छद् - विश्वमनः कस् त्वैष परेणेति। सूर्मी मघवन्न् इति ब्रूहीत्य् अब्रवीत्। सूर्मी मघवन्न् इत्य् अब्रवीत्। अङ्गैनां दण्डेनाभिजहीति सो ऽब्रवीत्। तृणकम् आछिद्य शनैर् अध्यस्येति। तं तृणकम् आछिद्य शनैर् अध्यास्यत्। तद् एवेन्द्रो वज्रम् असिञ्चत्। तस्यो तद् एव प्राघ्नन्। तद् उ भ्रातृव्यहा रक्षोहा साम। हन्ति द्विषन्तं भ्रातृव्यं, अप रक्षः पाप्मानं हते, य एवं वेद। यद उ विश्वमना अपश्यत् तस्माद् वैश्वमनसम् इत्य् आख्यायते॥जैब्रा ३.२६७