सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/सन्तनि

विकिस्रोतः तः
सन्तनि
सन्तनि

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः।
श्येनो न योनिमासदत्॥ १००८ ऋ. ९.६२.४
शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम्।
स्वदन्ति गावः पयोभिः॥ १००९
आदीमश्वं न हेतारमशूशुभन्नमृताय।
मधो रसं सधमादे॥ १०१०

१०. सन्तनि ।। देवाः । गायत्री । पवमानस्सोमः ।
असाहाउ ।। वायꣳशुर्माऽ३१उवाऽ२३ । दाऽ२३४या । अप्सुदक्षोगिरिष्ठाऽ१: ।। श्येनोहाउ ।। नायोनिमाऽ३१उवाऽ२३ । साऽ२३४दात् ।। श्रीः ।। शुभ्रमन्धोदेववातमप्सुधौतन्नृभिस्सुताऽ१म् ।। स्वदाहाउ । ताइगावᳲपाऽ३१उवाऽ२३ ।। योऽ२३४भीः ।। श्रीः ।। आदीमश्वन्न हेतारमशूशुभन्नमृतायाऽ२३४५ ।। मधोर्हाउ ।। रासꣳसधाऽ३१उवाऽ२३ ।। माऽ२३४दे ।
दी. १४. उत्. २. मा. १३ थि. ।।९०।।

[सम्पाद्यताम्]

टिप्पणी

असाव्य् अंशुर् मदायेत्य् असावीति सिमानां रूपम्। अप्सु दक्षो गिरिष्ठाः। श्येनो न योनिम् आसदत्॥ शुभ्रम् अन्धो देववातम् अप्सु धौतं नृभिस् सुतम्। इत्य् अप्सुमतीर् भवन्ति। आपो ह्य् एतद् अहः। स्वदन्ति गावः पयोभिः॥ आदि ईम् अश्वं न हेतारम् अशूशुभन्न् अमृताय। इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। मधो रसं सधमाद इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधति। ऐवैनद् एतेन प्याययन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ सन्तनि। वाग् वा एषा प्रतता यद् द्वादशाहः। तां सन्तनिनैव संतन्वन्ति। प्राणा ह खलु वै सन्तनयः। प्राणैर् वाक् सन्तता। तद् यत् सन्तनि भवति प्राणानाम् एव सन्तत्यै, वाचं प्राणैस् सन्तनवामेति। इमे वै लोकास् सन्तनय, इम उ लोका महानाम्नयः। तद् यत् सन्तनि भवत्य् एषाम् एव लोकानां सन्तत्यै। सम् अस्मा इमे लोकास् तायन्ते य एवं वेद। - जैब्रा ३.११९

सन्तनि भवति पञ्चमस्याह्नस्सन्तत्यै। वाग्वा एषा प्रतता यद्द्वादशाहस्तस्या एष विषुवान् यत् पञ्चममहस्तामेवैतेन सन्तनोति - तांब्रा १३.५.९