ऋग्वेदः सूक्तं ९.१२
← सूक्तं ९.११ | ऋग्वेदः - मण्डल ९ सूक्तं ९.१२ कश्यपोऽसितो देवलो वा। |
सूक्तं ९.१३ → |
दे. पवमानः सोमः। गायत्री। |
सोमा असृग्रमिन्दवः सुता ऋतस्य सादने ।
इन्द्राय मधुमत्तमाः ॥१॥
अभि विप्रा अनूषत गावो वत्सं न मातरः ।
इन्द्रं सोमस्य पीतये ॥२॥
मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् ।
सोमो गौरी अधि श्रितः ॥३॥
दिवो नाभा विचक्षणोऽव्यो वारे महीयते ।
सोमो यः सुक्रतुः कविः ॥४॥
यः सोमः कलशेष्वाँ अन्तः पवित्र आहितः ।
तमिन्दुः परि षस्वजे ॥५॥
प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।
जिन्वन्कोशं मधुश्चुतम् ॥६॥
नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः ।
हिन्वानो मानुषा युगा ॥७॥
अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति ।
विप्रस्य धारया कविः ॥८॥
आ पवमान धारय रयिं सहस्रवर्चसम् ।
अस्मे इन्दो स्वाभुवम् ॥९॥
सायणभाष्यम्
‘सोमा असृग्रम्' इति नवर्चं द्वादशं सूक्तम् । ऋष्यायाः पूर्ववत् । ‘सोमा असृग्रम्' इत्यनुक्रान्तम् । उक्तो विनियोगः ।।
सोमा॑ असृग्र॒मिंद॑वः सु॒ता ऋ॒तस्य॒ साद॑ने ।
इंद्रा॑य॒ मधु॑मत्तमाः ॥१
सोमाः॑ । अ॒सृ॒ग्र॒म् । इन्द॑वः । सु॒ताः । ऋ॒तस्य॑ । सद॑ने ।
इन्द्रा॑य । मधु॑मत्ऽतमाः ॥१
सोमाः । असृग्रम् । इन्दवः । सुताः । ऋतस्य । सदने ।
इन्द्राय । मधुमत्ऽतमाः ॥१
“सुताः अभिषुताः “मधुमत्तमाः अतिशयेन मधुमन्तः “इन्दवः “सोमाः “ऋतस्य यज्ञस्य “सादने गृहे "इन्द्राय इन्द्रार्थम् “असृग्रं सृज्यन्ते ।।
अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तरः॑ ।
इंद्रं॒ सोम॑स्य पी॒तये॑ ॥२
अ॒भि । विप्राः॑ । अ॒नू॒ष॒त॒ । गावः॑ । व॒त्सम् । न । मा॒तरः॑ ।
इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥२
अभि । विप्राः । अनूषत । गावः । वत्सम् । न । मातरः ।
इन्द्रम् । सोमस्य । पीतये ॥२
“विप्राः मेधाविनः “सोमस्य “पीतये पानाय “इन्द्रं “मातरः जनयित्र्यः “गावः “वत्सं “न यथा वत्सं प्रति तद्वत् "अभि “अनूषत अभिशब्दयन्ति ।।
म॒द॒च्युत्क्षे॑ति॒ साद॑ने॒ सिंधो॑रू॒र्मा वि॑प॒श्चित् ।
सोमो॑ गौ॒री अधि॑ श्रि॒तः ॥३
म॒द॒ऽच्युत् । क्षे॒ति॒ । सद॑ने । सिन्धोः॑ । ऊ॒र्मा । वि॒पः॒ऽचित् ।
सोमः॑ । गौ॒री इति॑ । अधि॑ । श्रि॒तः ॥३
मदऽच्युत् । क्षेति । सदने । सिन्धोः । ऊर्मा । विपःऽचित् ।
सोमः । गौरी इति । अधि । श्रितः ॥३
“मदच्युत् मदकरस्य रसस्य च्यावयिता सोमः “सादने । संहितायां दीर्घश्छान्दसः । स्थाने “क्षेति निवसति । एतदेव विवृणोति । “सिन्धाः नद्याः “ऊर्मा ऊर्मौ तरङ्गे। वसतीवरीष्वित्यर्थः । “विपश्चित् विद्वान् “सोमः “गौरी “अधि गौर्यामधि । अधीति सप्तम्यर्थानुवादः। माध्यमिकायां वाचि । ‘गौरी गान्धर्वी ' इति वाङ्नामसु पाठात् । “श्रितः निवसति ॥
दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते ।
सोमो॒ यः सु॒क्रतुः॑ क॒विः ॥४
दि॒वः । नाभा॑ । वि॒ऽच॒क्ष॒णः । अव्यः॑ । वारे॑ । म॒ही॒य॒ते॒ ।
सोमः॑ । यः । सु॒ऽक्रतुः॑ । क॒विः ॥४
दिवः । नाभा । विऽचक्षणः । अव्यः । वारे । महीयते ।
सोमः । यः । सुऽक्रतुः । कविः ॥४
"यः “सुक्रतुः सुप्रज्ञः “कविः क्रान्तकर्मा “विचक्षणः विद्रष्टा सः “सोमः “दिवः अन्तरिक्षस्य “नाभा नाभौ नाभिभूते “अव्यः अवेः “वारे वाले “महीयते पूज्यते । पूयमानः स्तूयत इत्यर्थः ॥
यः सोमः॑ क॒लशे॒ष्वाँ अं॒तः प॒वित्र॒ आहि॑तः ।
तमिंदुः॒ परि॑ षस्वजे ॥५
यः । सोमः॑ । क॒लशे॑षु । आ । अ॒न्तरिति॑ । प॒वित्रे॑ । आऽहि॑तः ।
तम् । इन्दुः॑ । परि॑ । स॒स्व॒जे॒ ॥५
यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आऽहितः ।
तम् । इन्दुः । परि । सस्वजे ॥५
“यः “सोमः “कलशेषु कुम्भेषु “आ आस्ते यश्च “पवित्र पवित्रस्य “अन्तः मध्ये “आहितः निहितः “तं स्वांशभूतं सोमम् “इन्दुः सोमो देवः “परि “षस्वजे प्रविशति ॥ ॥ ३८ ॥
प्र वाच॒मिंदु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
जिन्व॒न्कोशं॑ मधु॒श्चुतं॑ ॥६
प्र । वाच॑म् । इन्दुः॑ । इ॒ष्य॒ति॒ । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ ।
जिन्व॑न् । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥६
प्र । वाचम् । इन्दुः । इष्यति । समुद्रस्य । अधि । विष्टपि ।
जिन्वन् । कोशम् । मधुऽश्चुतम् ॥६
“इन्दुः सोमः “मधुश्चुतं मधुनश्च्यावकं “कोशं मेघम् । असुरः कोशः' इति मेघनामसु पाठात् । “जिन्वन् प्रीणयन् “समुद्रस्य अन्तरिक्षस्य “अधि “विष्टपि विष्टब्धे स्थाने “वाचं “प्र “इष्यति प्रेरयति । पवित्रे पूयमानः शब्दं करोतीत्यर्थः ॥
नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नामं॒तः स॑ब॒र्दुघः॑ ।
हि॒न्वा॒नो मानु॑षा यु॒गा ॥७
नित्य॑ऽस्तोत्रः । वन॒स्पतिः॑ । धी॒नाम् । अ॒न्तरिति॑ । स॒बः॒ऽदुघः॑ ।
हि॒न्वा॒नः । मानु॑षा । यु॒गा ॥७
नित्यऽस्तोत्रः । वनस्पतिः । धीनाम् । अन्तरिति । सबःऽदुघः ।
हिन्वानः । मानुषा । युगा ॥७
“नित्यस्तोत्रः संततस्तोत्रः "सबर्दुघः अमृतस्य दोग्धा “वनस्पतिः वनानां पालयिता सोमः “मानुषा मानुषाणि "युगा युगानि अहीनैकाहात्मकानि “हिन्वानः प्रीणयन् “धीनां कर्मणाम् “अन्तः मध्ये निवसतीत्यर्थः ॥
अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति ।
विप्र॑स्य॒ धार॑या क॒विः ॥८
अ॒भि । प्रि॒या । दि॒वः । प॒दा । सोमः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।
विप्र॑स्य । धार॑या । क॒विः ॥८
अभि । प्रिया । दिवः । पदा । सोमः । हिन्वानः । अर्षति ।
विप्रस्य । धारया । कविः ॥८
“कविः क्रान्तकर्मा “सोमः “दिवः अन्तरिक्षात् “हिन्वानः प्रेर्यमाणः “विप्रस्य मेधाविनः स्वस्य “धारया “प्रिया प्रियाणि "पदा पदानि स्थानानि “अभि “अर्षति अभिगच्छति ॥
आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसं ।
अ॒स्मे इं॑दो स्वा॒भुवं॑ ॥९
आ । प॒व॒मा॒न॒ । धा॒र॒य॒ । र॒यिम् । स॒हस्र॑ऽवर्चसम् ।
अ॒स्मे इति॑ । इ॒न्दो॒ इति॑ । सु॒ऽआ॒भुव॑म् ॥९
आ । पवमान । धारय । रयिम् । सहस्रऽवर्चसम् ।
अस्मे इति । इन्दो इति । सुऽआभुवम् ॥९
हे "पवमान “इन्दो सोम त्वं सहस्रवर्चसं बहुदीप्तिं "स्वाभुवं शोभनभवनं “रयिं धनम् “अस्मे अस्मासु “धारय । प्रक्षिपेत्यर्थः ॥ ॥ ३९ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये षष्ठाष्टके सप्तमोऽध्यायः ॥
मण्डल ९ | |||
---|---|---|---|