सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/धर्म

विकिस्रोतः तः
धर्म.
धर्म.

पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥ १२४१ ॥ ऋ. ९.१०९.४
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥ १२४२ ॥
दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥ १२४३ ॥

 

९. धर्म ॥ प्रजापतिः । अक्षरपङ्क्तिः । पवमानस्सोमः ॥
औहोऽ३वा(द्विः)। औहोऽ२वा२३४औहोऽ६वा। पवस्वसोममहान्त्समुद्राऽ१ः ॥ पितादेऽ२वानाऽ२म्विश्वाभिधामाऽ२३४५ ॥ श्रीः॥ शुक्रᳲपवस्वदेवेभ्यस्सोमाऽ२३४५ ॥ दिवेपृथिव्यैशञ्चप्रजाभ्याऽ२३४५ः ॥ श्रीः ॥ दिवोधर्तासिशुक्रᳲपीयूषाऽ२३४५: ॥ सत्येविधर्मन्वाजीपवस्वा ऽ२३४५ ॥ श्रीः।। पवस्वसोमाऽ२३४५।। महान्त्समुद्राऽ१ः।। पितादेऽ२वानाऽ२३४५म् ॥ विश्वाभिधामाऽ२३४५ ॥श्रीः॥ शुक्रᳲपवस्वाऽ२३४५॥ देवेभ्यस्सोमाऽ२३४५॥ दिवेपृथिव्याऽ१इ॥ शञ्चप्रजाभ्याऽ२३४५ः॥श्रीः॥ दिवोधर्त्तासीऽ२३४५ ॥ शुक्रᳲपीयूषाऽ२३४५ः ॥ सत्येविधर्माऽ१न् ॥ वाजीपवस्वाऽ२३४५ ॥ औहोऽ३वा (द्विः) । औहोऽ२वाऽ२३४औहोऽ६वा ।। एऽ३ । धर्माऽ२३४५ ॥
दी. ४५. उत् . १६. मा. ११. प. ॥१६९।।


[सम्पाद्यताम्]

टिप्पणी

धर्मधाम (ग्रामगेयः)

विधर्म

विधर्मसामनी (ग्रामगेयः)

द्वादशाहे अष्टममहः -- ता एता भवन्ति - पवस्व सोम महान् समुद्र इति। महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। पिता देवानां विश्वाभि धामेत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः॥3.230॥ तासु धर्म। धर्मणा वै देवा धर्मम् आदायासुराणां विधर्मणैनान् विधर्मणः कृत्वा पराभावयन्। धर्मणैव धर्मम् आदाय द्विषतो भ्रातृव्यस्य विधर्मणैनं विधर्माणं कृत्वा पराभावयति य एवं वेद। तच् छ्रीर् वै धर्मो, राज्यं वै धर्मो, धर्मेण वै राजा धर्मो, धर्म स्वानां भवत्य्, ऐनं स्वा यन्ति, धर्मणो धारयति। तद् आहुर् नवमे ऽहनि कार्यम्। अदो वै क्षत्रं यद् बार्हतम्। अथेदं विड् राथन्तरम् इति। तद् उ वा आहुर् विधर्माणो वै राजानो न वै ते ऽन्यैर् मनुष्यै स्वधर्माणः। इदम् उ वाव क्षत्रं यच् चतुश्चत्वारिंशं त्रैष्टुभम्। तस्मान् नवम एवाहन् विधर्म स्याद् इहैतद् इति। - जैब्रा ३.२३१

पवस्व सोम महान् समुद्र इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिरथो एतद्ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात् - तां.ब्रा. १४.११.५

धर्म उपरि टिप्पणी