ऋग्वेदः सूक्तं ९.११०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.११० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ९.१०९ ऋग्वेदः - मण्डल ९
सूक्तं ९.११०
त्र्यरुणस्त्रैवृष्ण्यः त्रसदस्युः पौरुकुत्स्यः
सूक्तं ९.१११ →
दे. पवमानः सोमः। १-३ पिपीलिकामध्या अनुष्टुप्, ४-९ ऊर्ध्वबृहती, १०-१२ विराट् ।


पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
द्विषस्तरध्या ऋणया न ईयसे ॥१॥
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
वाजाँ अभि पवमान प्र गाहसे ॥२॥
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
गोजीरया रंहमाणः पुरंध्या ॥३॥
अजीजनो अमृत मर्त्येष्वाँ ऋतस्य धर्मन्नमृतस्य चारुणः ।
सदासरो वाजमच्छा सनिष्यदत् ॥४॥
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् ।
शर्याभिर्न भरमाणो गभस्त्योः ॥५॥
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
वारं न देवः सविता व्यूर्णुते ॥६॥
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः ।
स त्वं नो वीर वीर्याय चोदय ॥७॥
दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत ।
इन्द्रमभि जायमानं समस्वरन् ॥८॥
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
यूथे न निष्ठा वृषभो वि तिष्ठसे ॥९॥
सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः ।
सहस्रधारः शतवाज इन्दुः ॥१०॥
एष पुनानो मधुमाँ ऋतावेन्द्रायेन्दुः पवते स्वादुरूर्मिः ।
वाजसनिर्वरिवोविद्वयोधाः ॥११॥
स पवस्व सहमानः पृतन्यून्सेधन्रक्षांस्यप दुर्गहाणि ।
स्वायुधः सासह्वान्सोम शत्रून् ॥१२॥


सायणभाष्यम्

“पर्यु षु' इति द्वादशर्चं सप्तमं सूक्तम् । त्र्यरुणत्रसदस्यू राजर्षी अस्य सूक्तस्य द्रष्टारौ । आदितस्तिस्रः पिपीलिकमध्या अनुष्टुभो द्वादशकाष्टकद्वादशकवत्यः । ततः षडूर्ध्वबृहत्यो द्वादशकत्रयवत्यः । अथ दशम्याद्यास्तिस्रो विराजः । पवमानः सोमो देवता । तथा चानुक्रान्तं- पर्यू षु द्वादश त्र्यरुणत्रसदस्यू तिस्रोऽनुष्टुभः पिपीलिकमध्याः षडूर्ध्वबृहत्यस्तिस्रश्च विराजः' इति । गतो विनियोगः ।।


पर्यू॒ षु प्र ध॑न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ ।

द्वि॒षस्त॒रध्या॑ ऋण॒या न॑ ईयसे ॥१

परि॑ । ऊं॒ इति॑ । सु । प्र । ध॒न्व॒ । वाज॑ऽसातये । परि॑ । वृ॒त्राणि॑ । स॒क्षणिः॑ ।

द्वि॒षः । त॒रध्यै॑ । ऋ॒ण॒ऽयाः । नः॒ । ई॒य॒से॒ ॥

परि । ऊं इति । सु । प्र । धन्व । वाजऽसातये । परि । वृत्राणि । सक्षणिः ।

द्विषः । तरध्यै । ऋणऽयाः । नः । ईयसे ॥

हे सोम “सु सुष्ठु “वाजसातये अस्मभ्यमन्नदानायैव “परि “प्र “धन्व परितः प्रगच्छ । यद्वा । वाजसातयेऽन्नलाभाय संग्रामं प्रगच्छ । किंच “सक्षणिः सहनशीलस्त्वं “वृत्राणि शत्रून् “परि गच्छ। तदेवोच्यते । “नः अस्माकम् “ऋणयाः ऋणानां यापयिता विनाशयिता त्वं “द्विषः शत्रून् “तरध्यै तरीतुं हन्तुम् “ईयसे परिगच्छसि ।।


अनु॒ हि त्वा॑ सु॒तं सो॑म॒ मदा॑मसि म॒हे स॑मर्य॒राज्ये॑ ।

वाजाँ॑ अ॒भि प॑वमान॒ प्र गा॑हसे ॥२

अनु॑ । हि । त्वा॒ । सु॒तम् । सो॒म॒ । मदा॑मसि । म॒हे । स॒म॒र्य॒ऽराज्ये॑ ।

वाजा॑न् । अ॒भि । प॒व॒मा॒न॒ । प्र । गा॒ह॒से॒ ॥

अनु । हि । त्वा । सुतम् । सोम । मदामसि । महे । समर्यऽराज्ये ।

वाजान् । अभि । पवमान । प्र । गाहसे ॥

हे “सोम “सुतम् अभिषुतं “त्वा त्वां वयम् “अनु “मदामसि “हि अनुमदामः । अनुक्रमेणाभिष्टुमः खलु । हे “पवमान सोम स त्वं “महे महति “समर्यराज्ये महत् समनुष्यं त्वदीयं राज्यमनुपालयितुं “वाजान् शत्रुबलान्यभिलक्ष्य “प्र “गाहसे प्रगच्छसि ॥


अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पयः॑ ।

गोजी॑रया॒ रंह॑माणः॒ पुरं॑ध्या ॥३

अजी॑जनः । हि । प॒व॒मा॒न॒ । सूर्य॑म् । वि॒ऽधारे॑ । शक्म॑ना । पयः॑ ।

गोऽजी॑रया । रंह॑माणः । पुर॑म्ऽध्या ॥

अजीजनः । हि । पवमान । सूर्यम् । विऽधारे । शक्मना । पयः ।

गोऽजीरया । रंहमाणः । पुरम्ऽध्या ॥

हे “पवमान सोम त्वं “पयः पयसः उदकस्य “विधारे विधारकेऽन्तरिक्षे “शक्मना समर्थेन बलेन “सूर्यम् "अजीजनो “हि उत्पादितवान् भवसि खलु । कीदृशः । “गोजीरया स्तोतृभ्यो गवां प्रेरकेण । स्तोतॄणां प्रेरितपशुकेनेत्यर्थः। तादृशेन “पुरंध्या बहुविधप्रज्ञानेन युक्तः “रंहमाणः वेगं कुर्वाणस्त्वं सूर्येमजीजनः ।।


अजी॑जनो अमृत॒ मर्त्ये॒ष्वाँ ऋ॒तस्य॒ धर्म॑न्न॒मृत॑स्य॒ चारु॑णः ।

सदा॑सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ॥४

अजी॑जनः । अ॒मृ॒त॒ । मर्त्ये॑षु । आ । ऋ॒तस्य॑ । धर्म॑न् । अ॒मृत॑स्य । चारु॑णः ।

सदा॑ । अ॒स॒रः॒ । वाज॑म् । अच्छ॑ । सनि॑स्यदत् ॥

अजीजनः । अमृत । मर्त्येषु । आ । ऋतस्य । धर्मन् । अमृतस्य । चारुणः ।

सदा । असरः । वाजम् । अच्छ । सनिस्यदत् ॥

हे “अमृत मरणधर्मरहित सोम त्वम् “ऋतस्य सत्यभूतस्य “चारुणः कल्याणस्य “अमृतस्य उदकस्य “धर्मन् धारकेऽन्तरिक्षे सूर्यम् "अजीजनः । किमर्थम् । “मर्त्येष्वा मनुष्येष्वभिमुखीभवनाय। किंच “सनिष्यदत् संभजन स त्वं “वाजमच्छ संग्राममभिलक्ष्य “सदा “असरः सरसि गच्छसि ।।


अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तं ।

शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ॥५

अ॒भिऽअ॑भि । हि । श्रव॑सा । त॒तर्दि॑थ । उत्स॑म् । न । कम् । चि॒त् । ज॒न॒ऽपान॑म् । अक्षि॑तम् ।

शर्या॑भिः । न । भर॑माणः । गभ॑स्त्योः ॥

अभिऽअभि । हि । श्रवसा । ततर्दिथ । उत्सम् । न । कम् । चित् । जनऽपानम् । अक्षितम् ।

शर्याभिः । न । भरमाणः । गभस्त्योः ॥

हे सोम त्वं “श्रवसा अन्नेन हेतुना “अभ्यभि “ततर्दिथ “हि पवित्रमभितृण्णवानसि छिन्नवानसि । तत्र दृष्टान्तद्वयम्' । “उत्सं “न यथा कश्चित् “जनपानम् । अस्मिन् जना उदकं पिबन्ति । तम् “अक्षितम् अक्षीणं “कं “चित् कंचन उत्समुत्सरणशीलं वाप्यादिकमभितृणत्ति । अथवा कश्चित् “गभस्त्योः बाह्वोः "शर्याभिः अङ्गुलीभिः “भरमाणः उदकं संभरन् कंचिदभितृणत्ति तद्वत् ॥


आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं॑ वसु॒रुचो॑ दि॒व्या अ॒भ्य॑नूषत ।

वारं॒ न दे॒वः स॑वि॒ता व्यू॑र्णुते ॥६

आत् । ई॒म् । के । चि॒त् । पश्य॑मानासः । आप्य॑म् । व॒सु॒ऽरुचः॑ । दि॒व्याः । अ॒भि । अ॒नू॒ष॒त॒ ।

वार॑म् । न । दे॒वः । स॒वि॒ता । वि । ऊ॒र्णु॒ते॒ ॥

आत् । ईम् । के । चित् । पश्यमानासः । आप्यम् । वसुऽरुचः । दिव्याः । अभि । अनूषत ।

वारम् । न । देवः । सविता । वि । ऊर्णुते ॥

“आत् अनन्तरं “पश्यमानासः एनं पश्यन्तः “दिव्याः दिवि भवाः “वसुरुचः नाम “के “चित् “आप्यं बन्धुं साधुम् “ईम् एनं सोमम् “अभ्यनूषत अभ्यस्तुवन् । कस्मादनन्तरमिति उच्यते । “देवः द्योतमानः “सविता सर्वस्य प्रेरकः सूर्यः “वारम् आवरकमन्धकारं “न “व्यूर्णुते नापगमयति तदैनमस्तुवन् । सूर्योदयात् प्रागेव हि सोमं स्तुवन्ति खलु ॥ ॥ २२ ॥


त्वे सो॑म प्रथ॒मा वृ॒क्तब॑र्हिषो म॒हे वाजा॑य॒ श्रव॑से॒ धियं॑ दधुः ।

स त्वं नो॑ वीर वी॒र्या॑य चोदय ॥७

त्वे इति॑ । सो॒म॒ । प्र॒थ॒माः । वृ॒क्तऽब॑र्हिषः । म॒हे । वाजा॑य । श्रव॑से । धिय॑म् । द॒धुः॒ ।

सः । त्वम् । नः॒ । वी॒र॒ । वी॒र्या॑य । चो॒द॒य॒ ॥

त्वे इति । सोम । प्रथमाः । वृक्तऽबर्हिषः । महे । वाजाय । श्रवसे । धियम् । दधुः ।

सः । त्वम् । नः । वीर । वीर्याय । चोदय ॥

हे "सोम “प्रथमाः पुरातनाः । यद्वा । यष्टृवेन सर्वेषां जनानां मुख्याः । “वृक्तबर्हिषः। वृक्तं छिन्नं बर्हिर्यैर्यज्ञार्थमिति वृक्तबर्हिषो यजमानाः । “महे महते “वाजाय बलाय “श्रवसे अन्नाय च “धियं बुद्धिं “त्वे त्वयि “दधुः निहितवन्तः । तस्मात् हे “वीर समर्थ सोम “सः तादृशः “त्वं “नः अस्मानपि संग्रामे “वीर्याय सामर्थ्याय “चोदय प्रेरय । यद्वा । वीर्याय वीरे पुत्रे भवाय सुखायास्मान् प्रेरय ॥


दि॒वः पी॒यूषं॑ पू॒र्व्यं यदु॒क्थ्यं॑ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत ।

इंद्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ॥८

दि॒वः । पी॒यूष॑म् । पू॒र्व्यम् । यत् । उ॒क्थ्य॑म् । म॒हः । गा॒हात् । दि॒वः । आ । निः । अ॒धु॒क्ष॒त॒ ।

इन्द्र॑म् । अ॒भि । जाय॑मानम् । सम् । अ॒स्व॒र॒न् ॥

दिवः । पीयूषम् । पूर्व्यम् । यत् । उक्थ्यम् । महः । गाहात् । दिवः । आ । निः । अधुक्षत ।

इन्द्रम् । अभि । जायमानम् । सम् । अस्वरन् ॥

“दिवः द्युलोकात् तत्र स्थितैर्देवैः “पीयूषं पातव्यं “पूर्व्यं प्रत्नं “यत् सोमरूपमन्नम् “उक्थ्यं प्रशस्यमस्ति तं सोमं “महः महतः “गाहात् गहनात् "दिवः द्युलोकात् “निरधुक्षत आभिमुख्येन निर्दुहन्ति । ततो दुग्धम् “इन्द्रम् अभिलक्ष्य “जायमानं तं सोमं “समस्वरन् स्तोतारः संस्तुवन्ति ।


अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना॑ ।

यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ॥९

अध॑ । यत् । इ॒मे इति॑ । प॒व॒मा॒न॒ । रोद॑सी॒ इति॑ । इ॒मा । च॒ । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ ।

यू॒थे । न । निः॒ऽस्थाः । वृ॒ष॒भः । वि । ति॒ष्ठ॒से॒ ॥

अध । यत् । इमे इति । पवमान । रोदसी इति । इमा । च । विश्वा । भुवना । अभि । मज्मना ।

यूथे । न । निःऽस्थाः । वृषभः । वि । तिष्ठसे ॥

हे “पवमान सोम “अध अनन्तरं “यत् यथा “इमे “रोदसी द्यावापृथिव्यौ “इमा इमानि “विश्वा विश्वानि “भुवना भूतजातानि “च “मज्मना बलेन “अभि तिष्ठसि स त्वं तथा कुर्वन् भुवनेषु “वि “तिष्ठसे । तत्र दृष्टान्तः । “यूथे “न यथा कश्चित् “वृषभः गवां यूथे' वृन्दे “निःष्ठाः निःष्ठितो वर्तते तद्वद्यूथस्थानीयेषु भूतजातेषु निःष्ठितो भवसि ।।


सोमः॑ पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः ।

स॒हस्र॑धारः श॒तवा॑ज॒ इंदुः॑ ॥१०

सोमः॑ । पु॒ना॒नः । अ॒व्यये॑ । वारे॑ । शिशुः॑ । न । क्रीळ॑न् । पव॑मानः । अ॒क्षा॒रिति॑ ।

स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ ॥

सोमः । पुनानः । अव्यये । वारे । शिशुः । न । क्रीळन् । पवमानः । अक्षारिति ।

सहस्रऽधारः । शतऽवाजः । इन्दुः ॥

“पुनानः पूयमानः “पवमानः पूतः “सोमः “अव्यये अविमये “वारे वाले पवित्रे “शिशुर्न शिशुरिव “क्रीळन् इतस्ततः संक्रीडमानः सन् “अक्षाः क्षरति । कीदृशः । “सहस्रधारः बहुधारायुक्तः “शतवाजः बहुबलः “इन्दुः दीप्तः ॥


ए॒ष पु॑ना॒नो मधु॑माँ ऋ॒तावेंद्रा॒येंदुः॑ पवते स्वा॒दुरू॒र्मिः ।

वा॒ज॒सनि॑र्वरिवो॒विद्व॑यो॒धाः ॥११

ए॒षः । पु॒ना॒नः । मधु॑ऽमान् । ऋ॒तऽवा॑ । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । स्वा॒दुः । ऊ॒र्मिः ।

वा॒ज॒ऽसनिः॑ । व॒रि॒वः॒ऽवित् । व॒यः॒ऽधाः ॥

एषः । पुनानः । मधुऽमान् । ऋतऽवा । इन्द्राय । इन्दुः । पवते । स्वादुः । ऊर्मिः ।

वाजऽसनिः । वरिवःऽवित् । वयःऽधाः ॥

“पुनानः पूयमानः “मधुमान् माधुर्योपेतः “ऋतवा ऋतवान् यज्ञवान् “इन्दुः क्षरणशीलः “स्वादुः स्वादुकरः “ऊर्मिः “एषः रसधारासंघः “इन्द्राय इन्द्रार्थं "पवते क्षरति । कीदृशः । “वाजसनिः अन्नस्य दाता “वरिवोवित् धनस्य लम्भकः “वयोधाः आयुषो दाता ॥


स प॑वस्व॒ सह॑मानः पृत॒न्यून्त्सेध॒न्रक्षां॒स्यप॑ दु॒र्गहा॑णि ।

स्वा॒यु॒धः सा॑स॒ह्वान्त्सो॑म॒ शत्रू॑न् ॥१२

सः । प॒व॒स्व॒ । सह॑मानः । पृ॒त॒न्यून् । सेध॑न् । रक्षां॑सि । अप॑ । दुः॒ऽगहा॑नि ।

सु॒ऽआ॒यु॒धः । स॒स॒ह्वान् । सो॒म॒ । शत्रू॑न् ॥

सः । पवस्व । सहमानः । पृतन्यून् । सेधन् । रक्षांसि । अप । दुःऽगहानि ।

सुऽआयुधः । ससह्वान् । सोम । शत्रून् ॥

हे सोम "सः तादृशस्त्वं “पवस्व । किं कुर्वन् । "पृतन्यून् ॥ ‘कव्यध्वरपृतनस्यर्चि लोपः। इति क्यचि परतोऽकारलोपः ॥ संग्रामकामान् शत्रून् “सहमानः अभिभवन् तथा “दुर्गहाणि कैश्चिदपि दुर्गमाणि "रक्षांसि “अप “सेधन् अपगमयन् हिंसन् । किंच “स्वायुधः शोभनायुधः सन् “शत्रून् “सासह्वान् अभिभवन्नभितपन् पवस्व ॥ ॥ २३ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.११०&oldid=181110" इत्यस्माद् पुनः प्राप्तिः