सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः १/यौधाजयम्

विकिस्रोतः तः
यौधाजयम्
यौधाजयम्.


प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत ।[१]
इन्द्रमभि जायमानं समस्वरन् ॥१४९४ ॥
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
दिवो न वारं सविता व्यूर्णुते ॥ १४९५ ॥
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
यूथे न निष्ठा वृषभो वि राजसि ॥ १४९६

तु
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
वारं न देवः सविता व्यूर्णुते ॥६॥
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः ।
स त्वं नो वीर वीर्याय चोदय ॥७॥
दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत ।
इन्द्रमभि जायमानं समस्वरन् ॥८॥
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
यूथे न निष्ठा वृषभो वि तिष्ठसे ॥ ऋ. ९.११०.९


६. यौधाजयम् ॥ युधाजित् । सतोबृहती । पवमानस्सोमः ॥
प्रत्नाऽ३१म् । पीऽ३यू । षम् । पूर्वाऽ२३४याम् ।। यादूऽ३ । क्थियाऽ२म् । महोऽ३४५ । गाऽ२३४ हात् । दिवाअनाइः । अ । धुक्षताऽ२ । इन्द्राऽ३४५म् ।
आऽ२३४भी ॥ जायाऽ२ ॥ मानाऽ२म् । समाऽ३४५ ॥ स्वाऽ२३४रान् ॥ श्रीः ॥ आदाऽ३१इम् । काऽ३इचित् । प । श्यामाऽ२३४ना ॥ साआऽ३ ।पियाऽ२म् । वसूऽ३४५ । रूऽ२३४चाः । दिव्याअभाइ । अ । नूषताऽ२ । दिवोऽ३४५ । नाऽ२३४वा ॥ रँ साऽ२ ॥ विताऽ२ । वियूऽ३४५णूऽ२३४ते ॥ श्रीः ॥ अधाऽ३१ । याऽ३दि । मे । पावाऽ२३४मा ॥ नारोऽ३ । दसीऽ२ । इमाऽ३४५ । चाऽ२३४वाइ । श्वाभूवना । भि । मज्मनाऽ२ । यूथेऽ३४५ । नाऽ२३४नीः । स्थावाऽ२ ॥ षभोऽ२ । विराऽ३४५ ॥ जाऽ२३४सी ॥
दी. ८. उत्. ६. मा. २२. टा. ॥ ३८० ॥


[सम्पाद्यताम्]

टिप्पणी