सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/श्यावाश्वम्

विकिस्रोतः तः
श्यावाश्वम्
श्यावाश्वम्

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
द्विषस्तरध्या ऋणया न ईरसे ॥ १३६४ ॥ ऋ. ९.११०.१
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
गोजीरया रंहमाणः पुरन्ध्या ॥ १३६५ ॥
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
वाजाँ अभि पवमान प्र गाहसे ॥ १३६६ ॥


१८. श्यावाश्वम् ॥ श्यावाश्वः । त्रिपदानुष्टुप्पिपीलिकामध्या। पवमानस्सोमः ।।
पराऽ३१३। ऊऽ३षु । प्रध । न्वाऽ३वा। एहिया।। जा। सातयेपा। रि। वृत्राऽ२ । एहियाऽ२ । णिसक्षणाइर्द्वाऽ३इषाऽ३: ॥ ताऽ२३४२रा ॥ ऐहाऽ२इ । ऐहियाऽ२ । धियाऋणयानाऽ३ईऽ३ । राऽ३४५सोऽ६"हाइ ।।श्रीः।। अजाऽ३१इ । जाऽ३नो। हिप । वाऽ३मा । एहिया ॥ ना। सूरियंवाइ । धा । रेशाऽ२ । एहियाऽ२ । क्मनापयोगोऽ३जीऽ३ ।। राऽ२३४या ॥ ऐहाऽ२ह। ऐहियाऽ२। रꣳहमाणांपूऽ३राऽ३म् । धाऽ३४५योऽ६ हाइ ॥श्रीः।। अनू३१ । हाऽ३इत्वा । सुतम् । सोऽ३म । एहिया ॥ मा । दामसिमा । हे। समाऽ२ । ऐहियाऽ२ । र्यराजियेवाऽ३जꣳऽ३ ॥ आऽ२३४भी ॥ ऐहाऽ२इ । ऐहियाऽ२ । पवमानाप्राऽ३गाऽ३ । हाऽ३४५सोऽ६"हाइ ॥
दी. २३. उत् . ९. मा. १७. ढे. ॥२१८॥

[सम्पाद्यताम्]

टिप्पणी

बाकानि त्रीणि (ग्रामगेयः)

अथैता भवन्ति - पर्य् ऊ षु प्र धन्व वाजसातय इति पिपीलिकामध्यानुष्टुभः परिवतीर् अन्तस्य रूपम्। अन्तो वा अनुष्टुप् छन्दसाम्। आनुष्टुभम् एतद् अहः॥3.296॥ इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतम् अगच्छत्। तद् अनुष्टुब् वै परा। परावत् स ताम् एव प्राविशत्। तस्यै द्वादशाक्षराणि प्राञ्च्य् उदौहद् द्वादशोर्ध्वानि। अथ याष्टाक्षरा मध्ये गायत्री तां प्राविशत्। स ताम् एव प्राविशत्। तत् तस्यै द्वादशाक्षराणि। ब्रह्मा गायत्री। ब्रह्मैव तन् मध्यतः प्राविशत्। स एतम् एव संवत्सरम् उभयतः पर्यौहत। इन्द्रग्रहो वा एता ऋचः। इन्द्रग्रहम् एवैतत् प्रपद्योत्तिष्ठन्ति। तस्माद् उ हैना अभिचरन् वा भ्रातृव्यवान् वा कुर्वीत। इन्द्रग्रहो वा एता ऋचः। इन्द्रग्रहम् एवैतत् प्रपद्य द्विषन्तं भ्रातृव्यम् अभिभवति॥3.297॥ अभये ह खलु वा एष दीक्षते, ऽभये यजते, ऽभय उत्तिष्ठति य एवं विद्वान् एताभि ऋग्भि स्तुते। ताम् एतां परोक्षम् अनुष्टुभं कुर्वन्ति। यत् प्रत्यक्षम् अनुष्टुभं कुर्युः परां परावतं यजमाना गच्छेयुर्, न प्रतितिष्ठेयुः। तद् यत् परोक्षम् अनुष्टुभं कुर्वन्ति प्रतिष्ठित्यै। तासु श्यावाश्वम् उक्तब्राह्मणम्। - जैब्रा ३.२९८