सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/आन्धीगवम्

विकिस्रोतः तः
आन्धीगवम्
आन्धीगवम्

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
द्विषस्तरध्या ऋणया न ईरसे ॥ १३६४ ॥ ऋ. ९.११०.१
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
गोजीरया रंहमानः पुरन्ध्या ॥ १३६५ ॥
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
वाजां अभि पवमान प्र गाहसे ॥ १३६६ ॥

[सम्पाद्यताम्]

टिप्पणी