सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/सफम्

विकिस्रोतः तः
सफ-पौष्कलम्
सफ

१६. गौरिवीतिः शाक्त्यः। ककुप्सतोबृहत्यौ (प्रगाथः) पवमानः सोमः।
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
महि द्युक्षतमो मदः ॥ ६९२ ॥ ऋ. ९.१०८.१
यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः ।
स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥ ६९३ ॥

धा. १०. उ. १. स्व. १. प. ॥१६॥

९. सफम् । देवाः। ककुप् । पवमानः सोमः।
पवस्वाऽ३मधु। मत्ताऽ२३४माः ॥ इन्द्रायसोमाऽ२ । क्रतुवाइत्ताऽ३मोऽ३ । माऽ३२३४दाः ॥ महाइ ॥ द्युक्षाताऽ३मोऽ३ । माऽ३४५दोऽ६"हाइ ॥ श्रीः ॥ महिद्यूऽ३क्षत । मोमाऽ२३४दाः ॥ यस्यतेपाइत्वाऽ२ । वृषभोवाऽ३र्षाऽ३ । याऽ३२३४ताइ ॥ अस्या । पीत्वासूऽ३वाऽ३: । वाऽ३४५इदोऽ६"हाइ ॥ श्रीः ॥ अस्यपीऽ३त्वासु । वर्वाऽ२३४इदाः ॥ ससुप्रकाइतोऽ२ । अभियाक्राऽ३मीऽ३त् । आऽ३२३४इषाः ॥ अच्छा ॥ वाजान्नाऽ३एऽ३ । ताऽ३४५शोऽ६"हाइ ॥
 
दी. ५. उत्. १२. मा. १९. फो. ॥९॥


[सम्पाद्यताम्]

टिप्पणी

सफम् (ग्रामगेयः)

सफेन वै देवा इमान् लोकान् समाप्नुव्वन् यत् समाप्नुवंस्तत् सफस्य सफत्वमिमानेवैतेन लोकान् समाप्य सत्त्रमासते - तांब्रा. ११.५

पवस्व मधुमत्तम इति पवन्त इव ह्येतेनाह्ना मधुमत्तम इत्यन्नं वै मध्वन्नाद्यमेव तद्यजमाने दधाति - तांब्रा. ११.१०

ता एता भवन्ति पवस्व मधुमत्तम, इन्द्रम् अच्छ सुता इम इति। ऋजीषं वा एतद् दुग्धं धीतं यातयाम यत् तृतीयसवनम्। तस्माद् इन्द्रो बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तस्मै वै देवाः पवस्वेत्य् एवापवयन्। मधुमत्तम इति मधुमद् अकुर्वन्। इन्द्राय सोम क्रतुवित्तमो मदः। महि द्युक्षतमो मदः॥ इत्य अभिपूर्वम् एवास्मै मद्वद् अकुर्वन्। ....... तस्माद् एता एवोष्णिक्ककुभः कार्याः। तासु सभम् उक्तब्राह्मणम्। - जैब्रा ३.२९६

सभ-पुष्कल उपरि टिप्पणी