सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः २/शङ्कु

विकिस्रोतः तः
Text of a melody of Samaveda.

पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
महि द्युक्षतमो मदः ॥ ६९२ ॥ ऋ. ९.१०८.१
यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः ।
स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥ ६९३ ॥

८. शङ्कु ।। प्रजापतिः। ककुप् । पवमानस्सोमः॥ ।

पवस्वमा । एऽ२ । धुमा॥ तमाः । इन्द्रायसोमक्रतुवित्तमोमाऽ२३दाः ॥ माहीऽ२द्यू क्षाऽ२३ ॥ तमोऽ२३४वा । माऽ५दोऽ६"हाइ ॥ श्रीः ॥ महिद्युक्षा । एऽ२ । तमाः ॥ मदो। यस्यतेपीत्वावृषभोवृषायाऽ२३ताइ ॥ आस्याऽ२पाइत्वाऽ२३ ॥ सुवोऽ२३४वा । वाऽ५इदोऽ६"हाइ ॥ श्रीः ॥ अस्यपीत्वा । एऽ२ । सुवाः ॥ विदाः। ससुप्रकेतोअभियक्रमीदाऽ२३इषाः ॥ आच्छाऽ२वाजाऽ२३म् ॥ नओऽ२३४वा । ताऽ५शोऽ६"हाइ ॥

दी. १५. उत् . ४. मा. १६. भू. ॥२५०।।

[सम्पाद्यताम्]

टिप्पणी

तु. शङ्कुसाम (दशरात्रपर्व)