सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/प्रतीचीनेडं काशीतम्

विकिस्रोतः तः
प्रतीचीनेडं काशीतम्.
प्रतीचीनेडं काशीतम्

त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ।। १३२३ ।। ऋ. ९.६७.१
त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
इन्दुः सत्राजिदस्तृतः ।। १३२४ ।।
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्मा भर ।। १३२५ ।।

[सम्पाद्यताम्]

टिप्पणी

प्रतीचीनेडं काशीतं भवति। पराचीभिर्वा अन्याभिरिडाभी रेतो दधदथैतत् प्रतीचीनेडं काशीतं प्रजात्यै तस्मात् पराञ्चो गर्भाः सम्भवन्ति प्रत्यञ्चः प्रजायन्ते तस्मादुतेऽवाचीनबिलेभ्यो नावपद्यन्त एतेन ह्येव ते धृताः - पञ्चब्रा १५.५.१५

अथ काशीतम्। कशीतिं वै सौभरं सत्रे यक्ष्माविन्दत्। सो ऽकामयताप यक्ष्म हनीयेति। स एतत् सामापश्यत्। तेनास्तुत। वात आ वातु भेषजं शंभु मयोभु नो हृदे। प्र न आयूंषि तारिषत्॥ (ग्रामगेयः १८४ ) यद् अदो वात ते गृहे ऽमृतस्य निधिर् हितः। ततो नो देहि जीवसे॥ उत वात पितासि न उत भ्रातोत नस् सखा। स नो जीवातवे कृधि॥ इति वात एवास्मै भेषजम् अकरोत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तस्यो प्रतीचीम् इळाम् उपयन्ति, छन्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ कशीतिस् सौभरो ऽपश्यत् तस्मात् काशीतम् इत्य् आख्यायते। - जैब्रा ३.२६६

दशरात्रे नवमस्याह्नः -- .त्वं सोमासि धारयुरिति....प्रतीचीनेडं काशीतं .....इत्यार्भवपवमानः- आर्षेयकल्पः उपोद्घातः पृ. ८२