ऋग्वेदः सूक्तं ९.११२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.११२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.१११ ऋग्वेदः - मण्डल ९
सूक्तं ९.११२
शिशुराङ्गिरसः।
सूक्तं ९.११३ →
दे. पवमानः सोमः। पङ्क्तिः।

नानानं वा उ नो धियो वि व्रतानि जनानाम् ।
तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥१॥
जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् ।
कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥२॥
कारुरहं ततो भिषगुपलप्रक्षिणी नना ।
नानाधियो वसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥३॥
अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः ।
शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥४॥


सायणभाष्यम्

‘नानानम्' इति चतुर्ऋचं नवमं सूक्तमाङ्गिरसस्य शिशुनाम्न आर्षम् । पञ्चपदा पङ्क्तिश्छन्दः । पवमानः सोमो देवता । तथा चानुक्रान्तं -- नानानं चतुष्कं शिशुः पाङ्क्तं हि' इति । गतो विनियोगः ॥


ना॒ना॒नं वा उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना॑नाम् ।

तक्षा॑ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥१

ना॒ना॒नम् । वै । ऊं॒ इति॑ । नः॒ । धियः॑ । वि । व्र॒तानि॑ । जना॑नाम् ।

तक्षा॑ । रि॒ष्टम् । रु॒तम् । भि॒षक् । ब्र॒ह्मा । सु॒न्वन्त॑म् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥१

नानानम् । वै । ऊँ इति । नः । धियः । वि । व्रतानि । जनानाम् ।

तक्षा । रिष्टम् । रुतम्। भिषक् । ब्रह्मा । सुन्वन्तम् । इच्छति । इन्द्राय । इन्दो इति। परि । स्रव ।।१

ऋषिरेतदादिभिस्त्रिभिः सूक्तैः अपरिस्रवतः सोमस्याजामित्वाय मनसो विनोदनं कुर्वन्नाह । हे सोम “नः अस्माकं “धियः कर्माणि नानानं नानाजातीयकानि बहूनि भवन्ति । वैशब्दः प्रसिद्ध्यर्थं द्योतनार्थः। “उ इति पूरणः । तथान्येषामपि “जनानां “व्रतानि कर्माणि विविधानि भवन्ति । “तक्षा त्वष्टा “रिष्टं दारुतक्षणम् “इच्छति । तथा “भिषक् वैद्यश्चिकित्सकः “रुतं रोगमिच्छति । “ब्रह्मा ब्राह्मणः “सुन्वन्तं सोमाभिषवं कुर्वन्तं यजमानमिच्छति । तथाहं त्वत्परिस्रवणमिच्छामि । तस्माद्धे “इन्दो सोम “इन्द्राय इन्द्रार्थं परि स्रव परितः क्षर ॥


जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नाना॑म् ।

का॒र्मा॒रो अश्म॑भि॒र्द्युभि॒र्हिर॑ण्यवन्तमिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥२

जर॑तीभिः । ओष॑धीभिः । प॒र्णेभिः॑ । श॒कु॒नाना॑म् ।

का॒र्मा॒रः । अश्म॑ऽभिः । द्युऽभिः॑ । हिर॑ण्यऽवन्तम् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥२

जरतीभिः । ओषधीभिः । पर्णेभिः । शकुनानाम् । ।

कार्मारः। अश्मऽभिः। द्युऽभिः । हिरण्यऽवन्तम् । इच्छति । इन्द्राय । इन्दो इति । परिस्रव ॥२

"जरतीभिः जीर्णभिः ”ओषधीभिः “इषवः क्रियन्ते । तथा “शकुनानां “पर्णेभिः इषूणां पक्षभूतैः पर्णैश्च क्रियन्ते । तथा “द्युभिः दीप्ताभिरिषूणां तेजनार्थाभि: “अश्मभिः शिलाभिश्च क्रियन्ते । एतैः “कार्मारः अयस्कारः हिरण्यवन्तम् आढ्यं पुरुषम् “इच्छति । तथाहं त्वत्परिस्रवणमिच्छामि । तस्मात् “इन्दो “इन्द्राय “परि “स्रव ॥


का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी॑ न॒ना ।

नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेन्द्रा॑येन्दो॒ परि॑ स्रव ॥३

का॒रुः । अ॒हम् । त॒तः । भि॒षक् । उ॒प॒ल॒ऽप्र॒क्षिणी॑ । न॒ना ।

नाना॑ऽधियः । व॒सु॒ऽयवः॑ । अनु॑ । गाःऽइ॑व । त॒स्थि॒म॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥३

कारुः । अहम् । ततः । भिषक् । उपलऽप्रक्षिणी । नना।

नानाऽधियः । वसुऽयवः । अनु । गाः इव । तस्थिम । इन्द्राय । इन्दो इति । परि । स्रव ॥३

ऋषिः प्रवृत्तसोमयागः सन् दशापवित्रात् सोमे क्षरति प्रतिबन्धकपापापनुत्तये पुरश्चरितानुकीर्तनपुरःसरमध्येषणां चकार । तावत् “अहं “कारुः स्तोमानां कर्तास्मि । “ततः इति संताननाम । तन्यतेऽस्मादिति ततः पिता । तन्यतेऽसाविति वा ततः पुत्रः । भिषक् भेषजकृत् । यज्ञस्य ब्रह्मेत्यर्थः। ‘सर्वं त्रय्या विद्यया भिषज्यति' इति श्रुतेः । तथा “उपलप्रक्षिणी । उपलेषु वालुकासु प्रक्षिणोति यवान् हिनस्ति भृज्जतीति । यद्वा । दृषदादिषूपलेषु भृष्टान् यवान् हिनस्ति चूर्णयतीति । अथवा धानासक्तुकरम्भादीनां कारिका वा । असौ “नना माता दुहिता वा । नमनक्रियायोग्यत्वात्। माता खल्वपत्यं प्रति स्तनपानादिना नमनशीला भवति । दुहिता वा शुश्रूषार्थम् । एवं सर्वेषां परिचरणेन “नानाधियः नानाकर्माणः “वसूयवः धनकामा वयम् “अनु “तस्थिम लोकमन्वास्थिताः स्मः । तत्र दृष्टान्तः । “गाइव । छान्दसो जसः शसादेशः। गावो यथा गोष्ठमनुतिष्ठन्ति स्वपयःप्रदानेन परिचरन्ति वा एवं वयमपि परिचरामः । एतज्ज्ञात्वा हे “इन्दो सोम “इन्द्राय “परि “स्रव दशापवित्रात् क्षर । एवमेषाध्येषणा सत्कारपूर्विका व्यापारणा । अत्र निरुक्तम्-’उपलप्रक्षिणीत्युपलेषु प्रक्षिणात्युपलप्रक्षेपिणी वा । कारुरहमस्मि कर्ता स्तोमानां ततो भिषक् । तत इति संताननाम पितुर्वा पुत्रस्य वा । उपलप्रक्षिणी सक्तुकारिका नना नमतेर्माता वा दुहिता वा। नानाधियो नानाकर्माणो वसूयवो वसुकामा अन्वास्थिताः स्मो गाव इव लोकम् ' (निरु. ६. ५-६ ) इति ॥


अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पम॒न्त्रिणः॑ ।

शेपो॒ रोम॑ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥४

अश्वः॑ । वोळ्हा॑ । सु॒ऽखम् । रथ॑म् । ह॒स॒नाम् । उ॒प॒ऽम॒न्त्रिणः॑ ।

शेपः॑ । रोम॑ण्ऽवन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः॑ । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥४

अश्वः । वोळ्हा। सुऽखम् । रथम् । हसनाम् । उपऽमन्त्रिणः ।

शेपः । रोमण्ऽवन्तौ । भेदौ । वाः। इत् । मण्डूकः। इच्छति । इन्द्राय । इन्दो इति । परि । स्रव।।४

“वोळ्हा लक्ष्यं देशं प्रापयन् “अश्वः “सुखं कल्याणं “रथम् “इच्छति । “उपमन्त्रिणः । उपमन्त्रवन्तो नर्मसचिवाः “हसनाम् उपहसनां वाचमिच्छन्ति । तथा “शेपः । ‘शेपो वैतस इति पुंस्प्रजननस्य' (निरु. ३.२१ ) इति यास्कः । यथा शेपः “रोमण्वन्तौ “भेदौ इच्छति । मण्डूकः “वारित् । इदवधारणे । उदकमेवेच्छति । तथाहं त्वत्परिस्रवणमिच्छामि। तस्मात् इन्द्रायेन्दो “परि “स्रव इति ॥ ॥ २५ ॥


[सम्पाद्यताम्]

टिप्पणी

सूक्तस्य ऋषिः शिशुराङ्गिरसः अस्ति।

अयं वाव शिशुर्योऽयं मध्यमः प्राणः तस्येदमेवाधानमिदं प्रत्याधानं प्राण स्थूणान्नं दाम तमेताः सप्ताक्षितय उपतिष्ठन्ते - माश १४.५.२.[२]

अयं प्रतीयते यत् शिशोः पूर्वावस्था शिक्षुः, शिष्यः अस्ति। यदा शिक्षुः कस्मिंश्चिद् विषये अध्ययनं आरभति, तदा तस्य नाना धियः सन्ति। पुराणेषु शिशोः द्वयौ स्थितयौ आस्ताम् - शिशुपालः एवं शिशुमारः। शिशुपालः राजसूये कृष्णोपरि आक्षेपः करोति। कृष्णस्य भगवत्तायाः दर्शनं कर्तुं सः न शक्नोति। अयं आक्षेपः अस्य सूक्तस्य शेपः (शेपो रोमण्वन्तौ भेदौ) प्रतीयते। शेपस्य धीः बृहती धी नास्ति।

शतपथ ब्राह्मणे शिशोः विशेषणं मध्यमः प्राणः अस्ति। ब्रह्माण्डपुराणे परशुरामः मध्यपुष्करे मृगमृग्योः वार्तालापं श्रवणे सक्षमः भवति। मध्यमप्रकारस्य भक्तस्य विषये भागवतपुराणस्य ११.२.४६ कथनमस्ति - ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः।। किमेते चत्वारः स्थितयः अस्मिन् सूक्ते प्रकटितानि सन्ति, अयं अन्वेषणीयः। अयं प्रतीयते यत् अश्वस्य स्थितिः प्रेमपूर्णा स्थितिः अस्ति।

इतः परं एवं परतरं सूक्तं मारीचेः कश्यपस्यार्षं भवति। कश्यपः अर्थात् समाधितः व्युत्थानस्य स्थितिः। प्रस्तुतसूक्तस्य परवर्तीसूक्तद्वयाभ्यां सह किं सम्बन्धमस्ति। शतपथब्राह्मणस्य शिशुब्राह्मणस्य अवसानं अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम्। तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति अस्ति। ऋग्वेदे ९.११४.३ सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः इति उल्लेखमस्ति। सोमयागे सप्तहोतारः भवन्ति (ताण्ड्य ब्रा. २५.४.२ )। महाभारते आश्वमेधिकपर्वे २२ सामान्यावस्थायां घ्राण, चक्षु, वागादि सप्तहोतॄणां किं न्यूनत्वं अस्ति, अस्य निदर्शनं अस्ति। कथनमस्ति यत् घ्राणः येषां भूतानां ग्रहणं करोति, तान् चक्षुरादीनि अन्यानि होतारः न जानन्ति। तेषां सप्तानां मध्ये कोपि सम्बन्धः नास्ति। यदा एते होतारः सप्तऋषयः भविष्यन्ति, तदैव तेषां मध्ये सम्बन्धः भवितुं शक्यते। आदर्शस्थितिः सा भवति यत्र सर्वेषां होतॄणां विलयनं एकहोतरि भवति।

वर्तमानसूक्तस्य ऋषिः शिशुराङ्गिरसः अस्ति। अयं संभवमस्ति यत् अयं समाधिं प्रति प्रस्थानस्य स्थितिरस्ति।

शिशुरुपरि प्राथमिकटिप्पणी

इन्दु उपरि प्राथमिकटिप्पणी

इन्दुरुपरि डा. सुकर्मपालसिंहतोमरस्य प्रबन्धः

९.११२.३ कारुरहं ततो भिषक् इति

उपलोपरि टिप्पणी एवं संदर्भाः

९.११२.४ अश्वो वोळ्हा सुखं रथं इति

शेपो रोमण्वन्तौ -- शीङ् धातोर्नाम्नीति फस् प्रत्ययः इति शब्दकल्पद्रुमकोशे। शेपस्य लौकिकमर्थं शिश्नः अस्ति। काशकृत्स्न-धातुव्याख्याने कथनमस्ति -- शीङ् स्वप्ने - निद्रायाम्। सर्वेषां जीवानां देहरूपायां गुहायां शेते शिवः - प्राणलिङ्गः। शुनःशेपः साधनायाः एकान्तिका, कठोरतपसः स्थितिः भवति। तत्र माधुर्यजननस्य आवश्यकता भवति।

मण्डूकः केषां प्रकाराणां वारीणां इच्छति। अत्र वारि शब्दस्य साम्यं वाल, वाल्मीकिरामायणस्य वालि वानरतः प्रतीयते। वालि वानरः यस्य दर्शनं करोति, तस्य बलं आहरति। अयं स्थितिः अरिष्टनेमिः सदृशं अस्ति, यत्र महापुरुषाणां परितः एकः मण्डलस्य सर्जनं भवति यस्मिन् कोपि हिंसा संभवं नास्ति। किं मण्डूकः मण्डलस्य उपयोगं शीतकाले विश्रमणार्थं करोति, अन्वेषणीयः अस्ति।

मण्डूकोपरि टिप्पणी

आयुर्वेदानुसारेण मण्डूकोपरि टिप्पणी


अश्वो वोळ्हा -- द्र. स्कन्दपुराणे ६.१६५.३४ एवं लक्ष्मीनारायणसंहितायां ( १.५०६.१७ ) ऋचीकेन सूक्तस्य जपेन अश्वानां प्राप्तिः।

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.११२&oldid=400710" इत्यस्माद् प्रतिप्राप्तम्