सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५०६

विकिस्रोतः तः
← अध्यायः ५०५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५०६
[[लेखकः :|]]
अध्यायः ५०७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! सरस्वत्या रक्तसलिलवाहिता ।
यथा जाता पुरा तां ते प्रवक्ष्यामि च पावनीम् ।। १ ।।
विश्वामित्रस्य च वशिष्ठस्याऽऽसीद् विमनस्कता ।
ब्रह्मणा ब्राह्मणैश्चोक्तो विश्वामित्रः पुनः पुनः ।। २ ।।
ब्राह्मणोऽयं ब्राह्मणोऽयं ब्रह्मर्षिः क्षत्रियोऽपि वै ।
वशिष्ठेन तु नैवोक्तः शृणु तत्कारणं प्रिये ।। ३ ।।
आसीत् पुरा ऋचीकाख्यो भृगुपुत्रो महामुनिः ।
व्रताध्ययनसम्पन्नस्तपस्वी चैकदा तु सः ।। ४ ।।
तीर्थयात्राप्रसंगेन ययौ भोजकटं पुरम् ।
कौशिकी च नदी यत्र यत्र गाधिर्महीपतिः ।। ५ ।।
तस्यां स्नात्वा प्रसन्तर्प्य पितृदेवान् जजाप सः ।
तावत् तीरे तत्र चैका स्नानार्थं राजकन्यका ।। ६ ।।
युवती रूपसम्पन्ना सर्वावयवशोभना ।
समायाता च तां दृष्ट्वा मुनिर्मुमोह कामतः ।। ७ ।।
कस्येयं कन्यका चेति लोकान् पप्रच्छ, ते जनाः ।
प्राहुः गाधिसुता चास्ति गौरीपूजनलालसा ।। ८ ।।
ईहमाना सुभर्तारं व्रतं करोति कान्तदम् ।
अत्र ब्रह्म जपित्वा च पूजयित्वा यथाक्रमम् ।। ९ ।।
नैवेद्यं विविधं गौर्यै दत्वा करोति गायनम् ।
नृत्यं च वादनं चापि नित्यं गौरीप्रतुष्टये ।। 1.506.१ ०।।
श्रुत्वा स मुनिराट् गाधिं प्रतिययौ सुलालसः ।
ऋचीकं त्वागतं वीक्ष्य राजा सत्कारमाचरत् ।। ११ ।।
कृत्वाऽर्हणां ऋषिं कृताञ्जलिः पप्रच्छ भावतः ।
निस्पृहस्यापि ते विप्र किमागमनकारणम् ।। १ २।।
यथेष्टं मे समाचक्ष्व प्रयच्छामि च तेऽखिलम् ।
ऋचीको मोहभावेन ययाचे तां सुकन्यकाम् ।। १ ३।।
ब्राह्मणेन विवाहेन तां मे देहीति चाब्रवीत् ।
सा मया वी क्षिता गौरीपूजायामिति चाऽब्रवीत् ।। १४।।
तच्छ्रुत्वा भयसन्त्रस्तो गाधिर्बुद्धिमतां वरः ।
दरिद्रं जरठं मत्वा प्रोवाच नीतिसंभृतम् ।। १५।।
अस्माकं कन्यकादाने शुल्कमस्ति द्विजोत्तम ।
तच्चेद् यच्छसि कन्यां तां तुभ्यं दास्याम्यसंशयम् ।। १६।।
ऋचीकः प्राह राजँस्त्वं कन्याशुल्कं वदात्र मे ।
द्रुतं यच्छामि ते सर्वं दुर्लभं चापि गोलके ।।१७।।
गाधिः प्राहैकतः श्यामकर्णानां वाजिनां द्विज ।
शतानि सप्त मे देहि श्वेतानां चैव सर्वतः ।। १८।।
स तथेति प्रतिज्ञाय ऋचीकस्तपसोज्ज्वलः ।
गंगातीरं ययौ चापोवोह्लेति च जजाप वै ।। १ ९।।
चतुःषष्टिऋचासूक्तं वारुणं नियुयोज ह ।
तावत् पूर्णे जपे देवो वरुणस्तत्र चाययौ ।।1.506.२० ।।
तेन सार्धं वाजिनश्च निष्क्रान्ताः सलिलात् तदा ।
सर्वे श्वेताः सुवेगाश्च श्यामैकश्रवणाः शुभाः ।।२१ ।।
शतानि सप्तसंख्यानि तावत्संख्यैर्नरैर्युताः ।
ऋचीकोऽपि समादाय नत्वा तं वरुणं तदा ।।।२२।।
अश्वान् गृहीत्वा पुरुषैर्गाधिं जगाम वै द्रुतम् ।
तस्मै निवेदयामास कन्यार्थे तान् हयोत्तमान् ।।२३।।
गाधिस्तु तान् समागृह्य सर्वान् वाजिमखस्य च ।
कन्यां तस्मै ददौ विप्रवह्निसाक्ष्ये विधानतः ।। २४।।
ऋचीको धर्मपत्न्या च निष्कामः समपद्यत ।
कालान्तरे सतीं प्राह सेवमानां पतिव्रताम् ।।२५।।
अहं तपसे यास्यामि वरं वृणु ददामि ते ।
सापि स्वार्थविहीनस्य श्रुत्वा वाक्यमृषेस्ततः ।।२६।।
स्वस्या जननीं प्रोवाच वृत्तान्तं शोकधर्षिता ।
जननी तां सुतां प्राह पुत्रार्थं वृणु पुत्रिके ।।२७।।
ब्राह्मण्येन युतं पुत्रं त्वदर्थं वृणु पुत्रिके ।
क्षात्रेण तेजसा युक्तं मदर्थं च सुतं वृणु ।।२८।।
सा पतिं सम्प्रणम्याऽऽह जनन्युक्तं सविस्तरम् ।
ऋचीको यज्ञदेवार्थं प्रचकार चरुद्वयम् ।।२९।।
पुत्रेष्टिं विधिवत् कृत्वा चरुं द्वेधा विभज्य च ।
एकस्मिन् योजयामास ब्राह्म्यतेजोऽखिलं यशः ।।1.506.३ ० ।।
अन्यस्मिन् योजयामास क्षात्रं तेजोऽखिलं ततः ।
भार्यायै प्रददौ ब्राह्म्यतेजोयुक्तं चरुं हि सः ।। ३१ ।।
अब्रवीत् प्राशय त्वेनमश्वत्थाऽऽलिङ्गनं कुरु ।
ततः प्राप्स्यसि सत्पुत्रं ब्रह्मतेजःसमन्वितम् ।।३२।।
द्वितीयं च चरुं पत्न्या मात्रे ददौ सुतार्थकम् ।
क्षात्रतेजोमयं दत्वा प्राह प्राश्य चरुं त्विमम् ।। ३३ ।।
न्यग्रोधालिङ्गनं कृत्वा प्राप्स्यसि क्षत्रियं सुतम् ।
अथ माता सुतां प्राह रहस्ये भाविनोदिता ।। ३४।।
सर्वलोकस्य वै स्वार्थे श्रैष्ठ्यं क्षौद्र्यं परार्थके ।
मच्चर्वपेक्षया पुत्रि त्वच्चरौ श्रेष्ठता भवेत् ।। ३५।।
श्रुत्वा पुत्री मातृवत्सा भ्रातृश्रैष्ठ्याभिलाषिणी ।
अकरोद् व्यत्ययं वृक्षे चरौ चापि हि पद्मजे ।। ३६।।
ततः पुंसवने स्नाने ते शुभे प्रेमविहले ।
दधाते गर्भमेका तु सुता क्षात्रेण तेजसा ।। ३७।।
भूत्वा गर्भवती नित्यं राज्यभोगे मनो दधे ।
युद्धवार्तास्तथा चक्रे हस्त्यश्वारोहणादिजाः ।।३८।।
रक्तवस्त्रोत्तमभूषाः कैसरं च विलेपनम् ।
पितुर्गृहात् समानीय शृंगारं च करोति सा ।। ३९।।
दृष्ट्वैवं चेष्टितं पत्न्याः ऋचीकः प्राह तां तदा ।
किं प्रिये व्यत्ययश्चर्वोः कृतो वा वृक्षयोस्तथा ।।1.506.४०।।
चेष्टया ते ज्ञायतेऽत्र भाविनं को विलंघयेत् ।
द्विजाचारविहीनस्ते ध्रुवं पुत्रो भविष्यति ।।४१ ।।
तव माता चेष्टया च क्षात्रं धर्मं विना सदा ।
दृश्यते नु शमस्था च जपहोमपरायणा ।।४२।।
तीर्थयात्रा कथाश्रावे सश्रद्धा तेन् तेऽनुजः ।
भविष्यति ब्राह्मणस्य तेजसा ब्रह्मणा समः ।। ४३।।
यादृशा दौर्हृदाः सन्ति सगर्भाणां तु योषिताम् ।
तादृशानि लक्षणानि पुत्रे वसन्ति योषिताम् ।।४४।।
पित्रोर्निषेकसमये सगर्भायां स्त्रियां तथा ।
यादृशी वर्तते चेष्टा सा गर्भे प्रतिबिम्बते ।।४५।।
अथ पत्नी ऋषिं प्राह क्षमस्व तां क्षतिं मम ।
व्यत्यासो यः कृतो नाथ पुनर्दयां कुरु प्रभो ।।४६ ।।
ब्राह्मणो मे भवेत् पुत्रो मन्मातुः क्षत्रियः सुतः ।
ऋचीकः प्राह नैवं स्याद् गतं जातं तथैव तत् ।।४७।।
किन्तु पुत्रगणाः क्षात्राः पौत्रे यास्यन्ति मद्वरात् ।
इत्येवं वै दयां कुर्वे पुत्रस्ते ब्राह्मणोऽस्तु वै ।।४८।।
इत्येवं वरदानेन जमदग्निः सुतोऽभवत् ।
जमदग्नेः सुतः पर्शुरामः क्षात्रक्रमोऽभवत् ।। ४९।।
एकविंशतिधा भूमौ चक्रे रणं तु राजभिः ।
अथ गाधेर्गृहपत्नी दधे गर्भं ततः परम् ।।।1.506.५०।।
ब्राह्मणीवत् समाचारा सुषुवे पुत्रमुत्तमम् ।
ब्राह्मणं कर्मणा योगसन्ध्याध्यानपरायणम् ।।५१ ।।
विश्वामित्रइतिख्यातं क्षात्रधर्मविरागिणम् ।
यदा राज्यक्षमो जातो गाधिना योजितश्च सः ।।५२।।
पितृपैतामहं राज्यं गृहाण वेदमार्गगः ।
पुत्रे दत्वा सोऽपि राज्यं विश्वामित्रो वने स्थितः ।।५३।।
सकलत्रो देवविप्रपूजापरायणः शुचिः ।
तापसश्च कृष्णनारायणध्यानपरः सदा ।।५४।।
एकदा वनमध्येऽयं मृगयार्थं भ्रमन् ययौ ।
वसिष्ठस्याऽऽश्रमं रम्यं मृगद्रुशिष्यशोभितम् ।।५५।।
वशिष्ठस्तं समायान्तं प्रत्युत्थायोन्मुखं ययौ ।
दत्वा तस्मै तदाऽर्घं च मधुपर्कं यथोचितम् ।।५६।।
अब्रवीद् राजयोग्यं च स्वागतं ते महीपते ।
वद कृत्यं करोम्यद्य सत्कारं ते यथोचितम् ।।५७।।
विश्वामित्रस्तदा प्राह सैन्यं मे निकटे स्थितम् ।
मृगयार्थं समायातो जलं पीत्वा प्रयामि च ।। ५८।।
बुभुक्षितेषु भृत्येषु यः स्वामी कुरुतेऽशनम् ।
स याति नरकं घोरं तस्माद् यास्यामि वै द्रुतम् ।।५९।।
वशिष्ठश्च तदा प्राह सर्वानानय तानिह।
अस्ति मे नन्दिनी धेनुर्वाञ्च्छितं या प्रयच्छति ।।1.506.६०।।
तस्या बलेन सर्वान् वै तृप्तिं दास्यामि चोत्तमाम् ।
भूत्वैवं त्वानयामास सैन्यं महीपतिस्ततः ।।६१ ।।
वशिष्ठः कामधेनुं तामुवाच स्वागताय वै ।
विश्वामित्रस्य राजर्षेर्यावद्भोजनलब्धये ।।६२।।
कुरुष्व तृप्तिपर्यन्तं खाद्यपेयादिकं शुभम् ।
अश्वानां च गजादीनां यवसादिकमित्यपि ।।६३।।
ततो विश्रामलब्ध्यर्थं गृहोपकरणादिकम् ।
धेनुर्बाढं समुवाच ससृजे तत्क्षणं बहु ।।६४।।
भक्ष्यं भोज्यं लेह्यचोश्ये पेयं लेप्यं च भोग्यकम् ।
दासायुतं तथा दासीदशसाहस्रमित्यपि ।।६५।।
ते दासा दासिका विश्वामित्राय च बलाय च ।
ददुः शीघ्रं सुभोज्यानि शर्कराघृतवन्ति च ।।६६।।
दधि दुग्धं मधु मिष्टं पेयं सुशीतलं जलम् ।
एवं गवा नृपः सैन्ययुतस्तृप्तिं विधापितः ।।६७।।
विश्वामित्रः कौतुकं च दृष्ट्वाऽऽश्चर्यं जगाम ह ।
अहो चित्रं गवा तृप्तिं नीता वयं सहस्रशः ।।६८।।
तस्मात्सन्नीयतामेषा स्वगृहं धेनुरुत्तमा ।
ततः प्राह वशिष्ठाय तव दास्यामि चेप्सितम् ।।६९।।
वरान् रथांश्च हस्त्यश्वान् गा अन्याश्च सहस्रशः ।
देहि मे नन्दिनीं राज्ये योग्यां वशिष्ठ सर्वथा ।। 1.506.७०।।
वशिष्ठस्तु तदा प्राह होमधेनुरियं नृप ।
अस्मत्कामप्रदा दैवी ह्यदेया गौद्विजन्मनाम् ।।७१ ।।
सर्वकामप्रदा चेयं तापसानां कृते स्थिता ।
अदेया सर्वथा गौश्च विक्रये मातृविक्रयः ।। ७२।।
न साम्नां नैव भेदेन न दानेन प्रसह्य न ।
न विक्रीय न वा चान्यैरुपायैस्त्वां समर्पये ।।७३ ।।
तस्माद् गच्छ महाराज स्वस्थानं च सुखी भव ।
विश्वामित्रस्ततः प्राह राज्यस्य सत्तया मुनिम् ।।७४।।
यत्किञ्चिद् विद्यते रत्नं पार्थिवस्य क्षितौ हि तत् ।
सर्वं स्याद् राजकीयं वै नीतिश्चेयं मुने सदा ।।७५।।
तस्मान्नयामि धेनुं वै नृपतेर्धनमेव तत् ।
इत्युक्त्वाऽऽज्ञापयामास भृत्यवर्गं ततश्च ते ।।७६।।
भृत्या धेनुं निगृह्यैव रश्मिना निन्युरुल्बणाः ।
अथ गच्छति सा नैव त्वश्रुपूर्णा बभूव ह ।।७७।।
दण्डप्रहारैस्ते निन्युः प्रसह्याऽऽकृष्य भृत्यकाः ।
लोकयन्तं वशिष्ठं सा पप्रच्छ दुःखकर्षिता ।।७८।।
किं दत्ताऽस्मि मुनिश्रेष्ठ त्वयाऽहं चाऽस्य भूपतेः ।
वशिष्ठः प्राह धेनो त्वं न दत्ताऽसि मया शुभे ।।७९।।
प्राणा यान्तु मम मातर्मा याहि त्वं मयि स्थिते ।
तद्रक्षस्व स्वयं धेनो ह्यात्मानं मत्प्रभावतः ।।1.506.८०।।
इत्युक्ता कोपमापन्ना चक्रे हुंकारगर्जनाः ।
हुँकारेभ्यश्च फेनेभ्यो रोमेभ्यः स्वेदमण्डलात् ।।८१ ।।
निष्क्रान्ताः सायुधा म्लेच्छाः पुलिन्दाः शबराः खसाः ।
योद्धारो व्योममार्गस्था अच्छेद्या अप्रधृष्यकाः ।।८२।।
असंख्याता अहनँस्ते विश्वामित्रस्य तान् महान् ।
ततः कोपपरीतात्मा विश्वामित्रः स्वयं धनुः ।।८३ ।।
सज्यं कृत्वा च मरणे निश्चितोऽतियुयोध ह ।
तथापि सैनिका अश्वा गजा भटाः पदातयः ।।८४।।
विश्वामित्रस्य वै सर्वे हता धेनूद्भवैर्भटैः ।
विश्वामित्रं परित्यज्य शेषं सर्वं निपातितम् ।।८५।।
कृपां कृत्वा वशिष्ठस्तु नन्दिनीमिदमब्रवीत् ।
रक्ष नन्दिनि भूपालं म्लेच्छैरेतैः समावृतम् ।।८६ ।।
राजा हि यत्नतो रक्ष्यो राजा नारायणांशजः ।
सन्मार्गे वर्तते सर्वो राजदण्डभयाद् यतः ।।८७।।
इति श्रुत्वा नन्दिनी सा म्लेच्छान् वारयितुं ययौ ।
तावद्राजा रुषा तां गां प्रहर्तुमुपचक्रमे ।।८८।।
वशिष्ठस्ते समालोक्य गोप्रहारं नृपकृतम् ।
तं बाहुं स्तम्भयामास सहेति तस्य भूपतेः ।।८९।।
जडीभूतो नृपो लज्जायुक्तो वशिष्ठमाह च ।
रक्ष वशिष्ठ मां म्लेच्छैर्वध्यमानं जडीकृतम् ।। 1.506.९० ।।
ममाऽपराधान्नष्टं मे सर्वं सैन्यमनन्तकम् ।
तस्माद् यास्याम्यहं हर्म्यं न युद्धेन प्रयोजनम् ।।९१ ।।
एवमुक्तो वशिष्ठश्च स्तम्भदोषविवर्जितम् ।
विश्वामित्रस्य तु करं चकाराऽऽह सुखावहम् ।।९२।।
गच्छ राजन् विमुक्तोऽसि मा विरोधय भूसुरैः ।
राजा ययौ स्वभवनं प्रलापमकरोन्मुहुः ।।९३ ।।
धिग्बलं क्षत्रियाणां तु धिग्वीर्यं धिक्प्रजीवितम् ।
श्लाघ्यं ब्रह्मबलं चैकं ब्राह्म्यं तेजो हि केवलम् ।। ९४।।
तच्च कर्म मया कार्यं यथा स्याद् ब्राह्मणं बलम् ।
तपसाऽऽराधनया च चरिष्यामि महातपः ।।९५।।
अथ विश्वसहं पुत्रं राज्ये संस्थाप्य भूपतिः ।
हिमवन्तं ययौ तत्र तपश्चक्रे सुदारुणम् ।।९६।।
शतवर्षत्रयं फलाहारो बभूव केवलम् ।
वर्षास्वाकाशसंस्थश्च ग्रीष्मे पञ्चाग्नितापनः ।।९७।।
शैत्ये शीतजलावासो बभूव च ततः परम् ।
शतवर्षत्रयं शुष्कपर्णाहारो बभूव सः ।।९८।।
शतवर्षत्रयं ततो जलाहारोऽभवन्नृपः ।
अथ वर्षशते वाय्वाहारो बभूव तत्परम् ।।९९।।
इन्द्रो भयेन संगम्योवाच तं तापसं नृपम् ।
तुष्टोऽस्मि तव राजेन्द्र वरं वृणु यथेप्सितम् ।। 1.506.१० ०।।
विश्वामित्रस्तदा प्राह देहि ब्राह्मण्यमेव मे ।
तदर्थं वै तपश्चर्यां करोमि नान्यकाम्यया ।। १०१ ।।
इन्द्रः प्राह क्षत्रियस्याऽनेन देहेन वै कुतः ।
संस्कारैर्जायते चाष्टाचत्वारिंशद्भिरेव यत्। ।। १ ०२।।
ब्राह्मण्यं तद् भवेद् राजन्नन्यं वरं ततो वृणु ।
राजा प्राह न ब्राह्मण्यादन्यत् सम्प्रार्थयाम्यहम् ।। १० ३।।
परित्यक्ष्याम्यहं देहं प्राप्स्ये वा विप्रतां व्रज ।
इन्द्रो दिवं ययौ श्रुत्वा राजा तेपेऽतिदुष्करम् ।। १ ०४।।
पुनर्वर्षसहस्रं वै व्यतिक्रान्तं ततः पुनः ।
आजगाम स्वयं ब्रह्मा पुण्यैर्देवर्षिभिः सह ।। १ ०५।।
ब्रह्मा प्राह प्रतुष्टोऽस्मि वरं वरय चेप्सितम् ।
राजा प्राह च विप्रत्वं देहि मे नान्यदीप्सितम् ।। १ ०६।।
ब्रह्मा प्राह धरापृष्ठे विप्रत्वं क्षत्रियस्य न ।
क्षत्रियेण प्रजातस्य विप्रत्वं जायते कथम् ।। १ ०७।।
राजा प्राहाऽसमर्थश्चेद् याहि स्वं भवनं पितः ।
देहं त्यक्ष्यामि वा प्राप्स्ये विप्रत्वं तपसा भुवि ।। १ ०८।।
अथाऽब्रवीदृचीकोऽत्र ब्राह्म्यैर्मन्त्रैर्मया पितः ।
योजितश्च चरुस्तत्राऽमितं ब्राह्मण्यमर्पितम् ।। १ ०९।।
क्षत्रियात् क्षात्रधर्माऽपि ब्राह्मणो भवितुं ह्ययम् ।
अर्हत्येव निषेके ब्राह्मणत्वं त्वस्य मिश्रितम् ।। 1.506.११० ।।
ततश्चैनं कीर्तयस्व ब्रह्मर्षिं त्वं पितामह ।
ब्राह्म्यधर्मसमाचारो वर्ततेऽयं सदा शुचिः ।। १११ ।।
श्रुत्वा ब्रह्मा क्षणं ध्यात्वा ज्ञात्वा यथार्थकारणम् ।
ब्रह्मर्षिस्त्वमिति प्राह सर्वे प्राहुस्तथैव तम् ।। ११ २।।
वसिष्ठस्तु रुषा प्राह नाऽहं वक्ष्यामि तं तथा ।
क्षत्रियस्य सुतं कस्माद् विप्रं वक्ष्यामि बोधवान् ।। ११ ३।।।
इत्युक्त्वा प्रययौ शीघ्रं वसिष्ठो हाटकेश्वरम् ।
क्षेत्रं तेपे तपस्तत्र विश्वामित्रोऽपि चाययौ ।। १ १४।।
वशिष्ठस्य वधार्थं वै चिन्तयामास संवसन् ।
विश्वामित्रो देववतीनद्याः स्थानेऽभिचारकम् ।। १ १५।।
चकार दारुणैर्मन्त्रैर्जुह्वानो जातवेदसम् ।
ततो वह्नेस्तु निष्क्रान्ता शक्तिर्वानरवाहना ।। १ १६।।
भयानकाऽऽयुधहस्ता विश्वामित्रेण सा तदा ।
योजिता तु वसिष्ठस्य वधार्थं सा ययौ द्रुतम् ।। १ १७।।
अथाऽऽश्रमे वशिष्ठस्य तत्कालं दुर्निमित्तकम् ।
अदृश्यत पपातोल्का निहत्य रविमण्डलम् ।। १ १८।।
रक्तवृष्टिरस्थिमिश्रा व्यजायत क्षणान्तरे ।
शिवा प्राचीं समुद्दिश्य रुरोद दीर्घनादतः ।। ११ ९।।
एवं जाते महाशक्तिर्वह्नेः पर्वतसदृशी ।
अदृश्यत समायान्ती कृत्यारूपा सचेतना ।। 1.506.१२० ।।
सामवेदोक्तमन्त्रैः सा वशिष्ठेन निरोधिता ।
महामन्त्रैः पुनस्तत्र स्तम्भिताऽऽथर्वणोद्भवैः ।। १२१ ।।
ततो नारीस्वरूपा सा प्रोवाच मुनिपुंगवम् ।
सामवेदः सुप्रमाणं तवापि जगतामपि ।। १२२
तेनाऽहं विधिना सृष्टा प्रेरिता मुनिना तथा ।
मा कुरुष्वाऽप्रमाणं तं प्रहारं सह मे ऋषे ।। १२३ ।।
रक्षयिष्यामि ते प्राणान् स्वल्पस्पर्शेन सार्थिका ।
वशिष्ठः प्राह यद्येवं कुरु स्पर्शं दयावति ।। १२४।।
मया त्वाथर्वणा मन्त्राः संहृता मर्म मा स्पृश ।
इत्युक्ता सा वशिष्ठं वै स्पृष्ट्वा पपात भूतले ।। १ २५।
सा च शक्तिर्देवधारा नाम्ना तत्रैव तिष्ठति ।
पूजनाच्छ्रवणात्त्वस्या भक्तिं मुक्तिं च संलभेत् ।। १२६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विश्वामित्रवसिष्ठयोः कामधेनुनिमित्तकक्लेशः, ऋचीकस्य गाधिसुतया श्यामकर्णाश्वविनिमयेन विवाहः, मातृपुत्र्योर्व्यत्यासेन पुत्रार्थचरुप्राशनम्, पौत्रयोर्व्यत्यासगुणाः, गाधेर्विश्वामित्रः, ऋचीकस्य जमदग्निः, विश्वामित्रस्य तपो ब्राह्मण्यं च, विश्वंसहः सुतः, विश्वामित्रप्रेरितशक्तिसहविश्वामित्रस्तंभनमित्यादिनिरूपणनामा षडधिकपञ्चशततमोऽध्यायः ।। ५०६ ।।