लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५०५

विकिस्रोतः तः
← अध्यायः ५०४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५०५
[[लेखकः :|]]
अध्यायः ५०६ →

श्रीलक्ष्मीरुवाच-
नारायण परब्रह्म भगवन् करुणानिधे ।
ध्यात्वा रूपं तव भक्ता भुक्तिं मुक्तिं प्रयान्ति च ।। १ ।।
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
सनत्सुजातः पञ्चैते त्वत्समा भुक्तिमुक्तिदाः ।। २ ।।
वैष्णवानामग्रणीश्च शंकरो लोमशस्तथा ।
मार्कण्डेयो याज्ञवल्क्यो धर्मः शेषो वृषस्तथा ।। ३ ।।
वेदाश्च वैष्णवा नित्या बलिर्बाणो विभीषणः ।
हनुमान् जाम्बवानश्वत्थामा प्रह्लाद आसुरिः ।। ४ ।।
वोढुः पञ्चशिखो दिवोदासस्तथाऽम्बरीषकः ।
उद्धवश्च शशी सूर्योऽनिलश्चापि हुताशनः ।। ५ ।।
एते भक्तास्तव नित्यं त्वाज्ञावहाः सुतास्तव ।
तव ध्यानं सदा कृत्वा चिरं तिष्ठन्ति जीविनः ।। ६ ।।
शंकरश्च तव पुत्रः कथं पञ्चशिरा ह्यसौ ।
त्वत्स्वरूपाद्विभिन्नश्च किमत्र कारणं वद ।। ७ ।।
एकमस्तकदेवस्य पञ्चमस्तकपुत्रकः ।
तदिदं महदाश्चर्यं संशयं मे निरासय ।। ८ ।।
श्रीनारायण उवाच-
पूर्वं भगवताऽजेन कृत्वा सृष्टिं तु विस्तृताम् ।
चतुर्विधां बहुकालं नरनारीमयीं शुभाम् ।। ९ ।।
ततः स चिन्तयामास नारीरूपाणि सर्वशः ।
मोहस्थानानि रम्याणि कृतान्यपि ततोऽपि च ।। 1.505.१ ०।।
नारीणामपि यत्र स्यान्मोहस्तादृशपुत्तलीम् ।
रचयामीति संकल्प्य रूपसञ्चयसंयुताम् ।। ११ ।।
एकामप्सरसं दिव्यां देवीभ्योऽपि च तैजसीम् ।
सर्वेषां द्युसदां तेजः समादाय तिलं तिलम् ।। १ २।।
रूपरूपातिरूपाढ्यां चमत्कृतिं स निर्ममे ।
यां दृष्ट्वा क्षोभमापन्नः स्वयमेव पितामहः ।। १ ३।।
ततस्तां प्रेषयामास योगिनः शंकरस्य वै ।
धैर्यस्य सम्परीक्षार्थं साऽपि कैलासमाययौ ।। १४।।
अपश्यच्छंकरं कृष्णध्यानमग्नं च निर्जने ।
नित्यं तत्र स्थिता भक्ता यथा ध्यानकरी सती ।। १५।।
समीपस्था कृष्णनारायणजापं चकार सा ।
तस्या देहात् कोटिचन्द्रतुल्यं मिष्टं च शीतलम् ।। १६।।
कानकं प्रससारोग्रं तेजोमण्डलमद्भुतम् ।
तत्तेजो वर्तुलाकारं गत्वा शंकरपक्ष्मणोः ।। १७।।
लग्नं प्रकाशरूपं च नेत्रान्तः प्रविवेश ह ।
रश्मिद्वारागतं चान्तर्हृदयं यत्र योगिराट् ।। १८।।
तिष्ठत्यात्मनि चात्मानं संयुज्य तेजसां खनौ ।
तत्र शंभुश्च तत्तेजो ददर्श कमनीयकम् ।। १ ९।।
द्वेधा वृत्तिः समाधौ च जाता सत्या मृषा समा ।
मृषां लोकयितुं चेहा बभूव शंकरस्य वै ।।1.505.२०।।
सत्यां विसृज्य चायातो बहिः किमिति कौतुकात् ।
नेत्रमुद्धाट्य च यावत् पुरः पश्यति सुन्दरीम् ।।२१।।
विसस्मार सतीं मूर्तिं विस्मयं परमं गतः ।
वृत्त्या तल्लीनया ज्ञात्वा मुग्धं दर्शनलालसम् ।।२२।।
सापि तृतीयनेत्रस्योद्घाटने भस्मताभयात् ।
मुग्धं विलोकयन्तं तं हित्वा पूर्वस्थलीं ततः ।।२३ ।।
प्रदक्षिणाया व्याजेन सा प्रणम्य कृतांजलिः ।
दक्षिणं सा गता पार्श्वं शंभुनिश्चलमस्तकः ।।२४।।
द्रष्टुकामश्च तां हृदा समीयेषाऽतिरागतः ।
तावद्वै दक्षिणं वक्त्रं निर्गतं तत्क्षणं शुभम् ।।२५।।
अथ सा भयसम्पन्ना ययौ पश्चिमतोदिशम् ।
शंभुस्तस्याः स्वरूपाकृष्टान्तर्भावोऽपि पश्चिमम् ।।२६ ।।
वदनं तृतीयं चक्रे दर्शनार्थं नवं शुभम् ।
अथ सा भयमापन्नोत्तरभागं गता ततः ।।२७।।
तां द्रष्टुं चोत्तरं वक्त्रं निर्माय सा ददर्श ताम् ।
अथाऽऽकाशे गता सा च तां द्रष्टुं पञ्चमं शिरः ।।२८।।
व्योमगं शंकरस्तत्र चकार च ददर्श ताम् ।
जहास च मुधा प्रेम्णा रूपलीनो बभूव ह ।। २१।।
ग्रीवां न चालयामास योगाभ्यासबलान्वितः ।
एतस्मिन्नन्तरे देवो नारदः पार्वतीं प्रति ।।1.505.३ ०।।
सर्वं निवेदयामास प्राह शंकरचेष्टितम् ।
दृष्ट्वा रूपवतीं नारीं कृतवान् स नवं नवम् ।।३ १ ।
मुखं तेनाऽभवद् वक्त्रपञ्चक शंकरस्य वै ।
अहं जानामि नास्त्यन्या नारी त्वत्सदृशी क्वचित्। ।।३ २ ।।
पतिस्ते च कथं मुग्धो हास्यास्पदो भविष्यति ।
हास्यस्य पदवीं त्वं च गमिष्यस्यद्य पार्वति ।। ३३ ।।
येन कामो भस्मरूपः कृतो योगीश्वरः स्वयम् ।
स चाद्य मायया विष्णोर्मोहं यातो दिवः स्त्रियाम् ।।३४।।
सर्वासां देवपत्नीनां पूज्या त्वं त्वत्पतिश्च सः ।
तच्चित्तं स्निग्धतां यातं देवदास्यां विलोकय ।। ३५।।
द्रागेव तां समादाय निजांके स्थापयिष्यति ।
तव मूल्यात्परं मूल्यमप्सरसः करिष्यति ।।३६ ।।
कुरु शीघ्रं निरोधं वै यावदंके करोति न ।
इति श्रुत्वा नारदस्य दृष्ट्वा पञ्चमुखं पतिम् ।।३७।।
विकृतं तं समालोक्य नेत्रेषु प्रविवेश सा ।
सर्वनेत्राणि वै शंभोः रोधयामास योगिनी ।।३८।।
एतस्मिन्नन्तरे सर्वतेजांस्यपि हतानि च ।
अन्धकारमयं सर्वं पुष्पवन्तौ वितेजसौ ।।३९ ।।
प्रलयस्य समुत्थानं कालरात्रेः समागमः ।
भूकम्पाश्च तदा जाता भयभीताश्च देहिनः ।।1.505.४०।।
एवं जाते सर्वसृष्टिक्षोभे नन्द्यादयो गणाः ।
सर्वे सतीं नमस्कृत्य स्तुत्वा चापि पुनः पुनः ।।४१ ।।
मुञ्च मुञ्च सुरश्रेष्ठे शंभोर्नेत्राणि मुञ्च वै ।
पश्यन्तु हरनेत्राणि जगदान्ध्यं प्रसर्पतु ।।४२।।
एवमुक्तापि सा देवी न नेत्राणि मुमोच सा।
तावद्धरेण भालस्थं विसृष्टं लोचनं परम् ।।४३ ।।
कृपाविष्टेन लोकानां येन रक्षा प्रजायते ।
वारयितुं न शक्तोऽस्मि देवीं प्राणगरीयसीम् ।।४४।।
अथ देवी ततो नेत्रयोगं विहाय सुस्थिरा ।
हरस्य सन्निधौ तिलोत्तमामुवाच वै रुषा ।।४५।।
यस्मान्मे दयितः पापे त्वया रूपाद्विडम्बितः ।
तस्मात्त्वं रूपहीना च शीर्णकेशा महोदरी ।।४६।।
चिपिटाक्षी बृहद्दन्ती भव वै भग्ननासिका ।
अथ जाता तत्क्षणेन तिलोत्तमा कुरूपिणी ।।४७।।
तुष्टाव पार्वतीं कृताञ्जलिः क्षमां यस्म याचते ।
नास्ति मेऽत्राऽपराधो वै दास्या दर्शनयोषितः ।।४८।।
देवस्य तव किंकर्याः प्रसादं कर्तुमर्हसि ।
पार्वती च तदा प्राह समागच्छ मया सह ।।४९।।
शंकरात् त्वं गृहाणात्र मन्त्रं पापहरं शुभम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।।1.505.५० ।।
ततो याहि मया सार्धं तीर्थं श्रीहाटकेश्वरम् ।
नागनद्यां रूपतीर्थे स्नाहि शापनिवृत्तये ।।५१ ।।
एवं मन्त्रं गृहीत्वा च गृहीत्वा तुलसीस्रजम् ।
नागमत्यां ययौ सस्नौ सुरूपा सा बभूव ह ।।५२।।
पूर्वमासीद् यथारूपा तथारूपा विशेषतः ।
बभूव पार्वती नत्वा ययौ सत्ये पितामहम् ।।५३ ।।
सर्वं निवेदयामास पञ्चवक्त्रादिरोहणम् ।
ब्रह्मा प्राह प्रतिसृष्टिं तथा भवति पुत्रिके ।।५४।।
त्वां निमित्तं समासाद्य हरः पञ्चमुखो मुहुः ।
जायते च तव कीर्तिः सदा लोके भविष्यति ।।५५।।
इत्युक्त्वा तां ददावाशीर्वादान् सृष्टौ स्थिरा भव ।
देवकार्यकरी सत्यलोके वासकरी भव ।।५६।।
इति श्रीलक्ष्मीनाराणीयसहितायां प्रथमे कृतयुगसन्ताने तिलोत्तमानिमित्तेन शंकरस्य पञ्चमुखवत्ता, तिलोत्तमायाः पार्वतीशापः, नागवत्या स्नानेन शापनिवृत्तिरित्यादिनिरूपणनामा पञ्चाधिकपञ्चशततमोऽध्यायः ।।५ ०५।।