लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५०३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५०४
[[लेखकः :|]]
अध्यायः ५०५ →

श्रीनारायण उवाच-
आदित्या वसवो रुद्रा अश्विनौ देवतेश्वराः ।
पूजनीयाः सदा लक्ष्मि! योगक्षेमकरा हि ते ।। १ ।।
वरुणश्च तथा सूर्यो भानुः पूषा च तापनः ।
इन्द्रश्चैवाऽर्यमा चैव धाता चैव भगस्तथा ।। २ ।।
गभस्तिर्धर्मराजश्च त आदित्या दश द्वयम् ।
धरो ध्रुवश्च सोमश्च मखश्चाप्यनिलो नलः ।। ३ ।।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ हि नामतः ।
मृगव्याधश्च शर्वश्च मृगीव्याधस्तृतीयकः ।। ४ ।।
अजैकपादहिर्बुध्न्यः पिनाकी षष्ठ इत्यपि ।
दहनश्च कपाली च रैवतो नवमस्तथा ।। ५ ।।
वृषाकपिस्त्र्यम्बकश्च रुद्रा एकादशैव ते ।
नासत्यश्चापि दस्रश्च द्वावेतावश्विनीसुतौ ।। ६ ।।
त्रयस्त्रिंशत्समाख्याता एते तु सुरनायकाः ।
दानवानां च देवानां मानवानां च देहिनाम् ।। ७ ।।
पूजनीयाः सदा तेन नापमृत्युः प्रजायते ।
अष्टम्यां च चतुर्दश्यां रुद्राः पूज्याः सदा प्रिये ।। ८ ।।
दशम्यां वसवः पूज्यास्तत्र शुक्ले विशेषतः ।
सप्तम्यामथ षष्ट्यां च आदित्यान्पूजयेत् तथा ।। ९ ।।
अश्विपुत्रौ तथा पूज्यौ द्वादश्यां षोडशादिभिः ।
रुद्रास्तुष्टा रक्षणं च ददत्यपि परं पदम् ।।1.504.१ ० ।।
विलासादीन् ददत्येव स्वर्गं तु वसवोऽर्चिताः ।
आदित्याः पूजितास्तुष्टा ऐश्वर्यं त्वर्पयन्ति वै ।। ११ ।।
देववैद्यौ पूजितावश्विनौ नाशयतो रुजः ।
सर्वेषां च सुरादीनां गुणगानादिलेखकः ।। १ २।।
व्यासस्तु सर्वदा पूज्यो ज्ञानमोक्षप्रदो गुरुः ।
यत्पुत्रः शुकनामाऽपि शुक्यां ब्रह्म बभूव ह ।। १ ३।।
वेदव्यासस्य वै चासीत् कलत्रार्थं मतिः क्वचित् ।
ततो विचित्रवीर्यस्य क्षेत्रे पुत्रान् धुरन्धरान् ।। १४।।
सत्यवत्याः समादेशाज्जनयामास स प्रभुः ।
पाण्डुं च धृतराष्ट्रं च विदुरं चेति कौरवान् ।। १५।।
वानप्रस्थेऽपि सन्तिष्ठन् चकार वंशविस्तरम् ।
ततः स चिन्तयामास भार्यामद्य करोम्यहम् ।। १६।।
ततः स प्रार्थयामास जाबालिं मुनिपुंगवम् ।
तस्य कन्यां द्वितीयां तु चेटिकाख्यां शुकीं शुभाम् ।। १७।।
जाबालिस्तु ददौ तस्मै चेटिकां स्वसुतां शुभाम् ।
सापि गर्भवती जाता गर्भो याति बहिर्नहि ।। १८।।
द्वादशाब्दा अतिक्रान्ता न निर्याति बहिः खलु ।
यत्किंचिच्छृणुते सर्वं गर्भे गर्भगतः सुतः ।। १९।।
शुकी सा गर्भतेजोभिः शुशुभे वेदसूरिव ।
गर्भोऽपि हृदये सर्वं दधार ज्ञानचिन्तनम् ।।1.504.२०।।
वेदाः सांगाः श्रुतास्तेन गर्भेऽधिता यथाश्रुताः ।
स्मृतयः संहिता मोक्षशास्त्राणि नीतयस्तथा ।।२१ ।।
ब्रह्माऽध्ययनमेवाऽपि त्याख्यानान्यात्मवन्ति च ।
सर्वं गर्भे श्रुतं यद्यदधीतं यावदेव तत् ।।२२।।
यथा यथा सुतो वृद्धिं याति जठरमाश्रितः ।
माता तथा तथा गुर्वी पीडां याति ततः पिता ।।२३।।
व्यासः पप्रच्छ कस्त्वं वै प्रविष्टो गर्भरूपधृक् ।
कथं बहिर्न चाऽऽयासि वद सर्वं यथातथम् ।।२४।।
गर्भः प्राह पिशाचोऽहं राक्षसोऽहं च मानुषः ।
सुरोऽहं तुरगश्चाहं गजोऽहं कुक्कुटोऽस्मि च ।।२५।।
छागोऽहं च कुमारोऽहं वृक्षोऽहं बालकोऽस्म्यहम् ।
चतुरशीतिलक्षासुयोनिषु वै भ्रमन् मुहुः ।।२६।।
आगतोऽस्मि कथं वेद्मि कोऽहं ते वच्मि कं च माम् ।
मानुषे जठरे चात्र प्रविष्टोऽस्मि निरञ्जनः ।।२७।।
अत्र योगं साधयामि प्राप्य ज्ञानं तु वेदजम् ।
निर्विण्णोऽस्मि मोक्षमार्गं प्रतीक्षामि च शाश्वतम् ।।२८।।
न वै घोरेऽत्र संसारे भ्रमणं मे प्ररोचते ।
न यास्यामि बहिर्गर्भादत्रैव ब्रह्मचिन्तनम् ।।२९।।
करिष्येऽथ गमिष्यामि मोक्षं तव कृपावशात् ।
व्यासः प्राह शृणु चात्मन् निरञ्जनस्य ते सुत ।।1.504.३० ।।
योनिकुण्डेऽतिदुर्गन्धे वस्तुं प्रीतिः कथं वद ।
निष्क्रामस्व ततो विद्वन् गर्हितात् मूत्रकुण्डकात् ।।३ १ ।।
बहिरागत्य योगं वा ज्ञानं चार्जय शोभनम् ।
गर्भः प्राह नवं ज्ञानं नवो योगश्च नेष्यते ।।३२।।
तावज्ज्ञानं च वैराग्यं पूर्वजातिस्मृतिस्तथा ।
यावद्गर्भस्थितिर्मेऽस्ति मोक्षेच्छा तावदेव ह ।। ३३ ।।
जन्तुश्चेद् गर्भनिष्क्रान्तः स्पृश्यते बाह्यवायुना ।
सर्वं गर्भगतं ज्ञानं योगो भानं विनश्यति ।।३४।।
तस्मान्नाहं कृतहानेर्निष्क्रमिष्ये कथञ्चन ।
गर्भादेव प्रयास्यामि मोक्षमित्यस्ति निश्चयः ।।३५।।
व्यासः प्राह न ते चात्मन् वायुपाशो भविष्यति ।
ज्ञानं योगश्च ते सर्वं यथार्थं स्थास्यति ध्रुवम् ।।३६।।
माया ते बाधते नैव गर्भे वा बहिरेव वा ।
तस्माद् दर्शय मे वक्त्रं चानृण्यं संवृजाम्यहम् ।।३७।।
पितरश्च सुतृप्ताः स्युस्तव जन्मश्रवाद् द्रुतम् ।
गर्भः प्राह यदि त्वं मे विष्णुं साक्षिणं रक्षय ।।३८।।
तदा बहिर्निःसरामि तत्र योग्यं कुरु द्रुतम् ।
व्यासः सस्मर तच्छ्रुत्वा कृष्णनारायणं प्रभुम् ।।३९।।
 कृष्णनारायणो देवस्तत्र क्षिप्रं समाययौ ।
साक्षी तत्राऽभवत् प्राह शृणु गर्भ हितावहम् ।।1.504.४०।।
प्रतिभूस्ते भवाम्यद्य सर्वं ज्ञानादिकं तव ।
स्थास्यत्येव बहिर्याहि गच्छ योगार्थमेव च ।।४१ ।।
माया मे वायुसंस्पर्शकृता व्याप्ता न ते भवेत् ।
अथ गर्भो विनिष्क्रान्तः कृष्णनारायणेच्छया ।।४२।।
द्वादशाब्दप्रमाणस्तु यौवनस्य समीपगः ।
जातमात्रो जातिस्मरो योगिराडिव चेतनः ।।४३ ।।
कृष्णं जननीं जनकं प्रणम्यैव च तत्क्षणात् ।
वनं स प्रस्थितो बालो व्यासस्तिष्ठेत्युवाच तम् ।।४४।।
संस्कारान् जातकर्मादीन् ते करोमि स्थिरो भव ।
चेटिकायाः सुतः प्राह संस्काराः प्रतिजन्मनि ।।।४५।।
सहस्रशः कोटिशश्च जाता मे भवसागरे ।
यैरहं बन्धनरूपैः परिक्षिप्तोऽस्मि योनिषु ।।४६ ।।
अथ व्यासः शुकं नाम दधार भगवान् स्वयम् ।
शुको गन्तुं पदन्यासाँश्चक्रे व्यास उवाच तम् ।।४७।।
पितरं तं परित्यज्य योगार्थं यो वनं व्रजेत् ।
स याति नरकं पुत्र मा व्रज त्वं गृहे वस ।।४८।।
शुकः प्राह यथाऽहं ते सुतस्तथा गते भवे ।
त्वं चासीर्मे सुतश्चाहं पिता ते तत्र शासनम् ।।४९।।
त्वया पाल्यं मम व्यास यद्येषा धर्मसंस्थितिः ।
नाहं निषेधनीयस्तु व्रजमानस्तपोवनम् ।।1.504.५०।।
व्यासः प्राह जनिं लब्ध्वा पुण्यप्राप्यां द्विजगृहे ।
संस्कारान् यश्च गृह्णाति वेदोक्तान् स विशिष्यते ।।५ १ ।।
शुकः प्राह च संस्कारादात्ममुक्ति्र्न निश्चिता ।
संस्काराच्चेद्भवेन्मुक्तिस्तादृग्धूर्तस्य सा भवेत् ।।५२।।
व्यासः प्राह भवेत्पूर्वं ब्रह्मचारी ततो गृही ।
अथ त्यागं पुरस्कृत्य ततो मुक्तिर्भवेत् सुत ।।।५३।।
शुकः प्राह ब्रह्मचर्यान्मोक्षश्चेत् षण्ढ आप्नुयात् ।
गार्हस्थ्येन च मोक्षश्चेज्जगत्सर्वं तमाप्नुयात् ।।५४।।
वने वासाद् यदि मोक्षो मृगादीनां स वै भवेत् ।
त्यागाच्चेन्मुक्तिरुत्कृष्टा दरिद्राणां च सा भवेत् ।।।५५।।
व्यासः प्राह गृहस्थादिक्रमेण सत्पथाश्रयः ।
इहाऽमुत्रानन्ददाता तेन मोक्षः फलात्मकः ।।५६ ।।
शुकः प्राह गृहैः सक्तो मोहरागवशंगतः ।
वासनाबन्धबद्धश्च यममार्गं फलं लभेत् ।।५७।।
व्यासः प्राह विना रागं पैत्र्यं दैवं प्रसाधयेत् ।
शुकः प्राह विना भक्तिं पैत्र्यं दैवं प्रतारयेत् ।।५८।।
व्यासः प्राह गृहे भक्तिं पैत्र्यं दैवं सदा कुरु ।
शुकः प्राह निजात्मा मे गृहं तत्र करोम्यहम् ।।१९।।
व्यासः प्राह विना पुत्रं पुंनामनरको ध्रुवः ।
पुत्रेण तस्य तरणं तस्मात्पुत्रः प्रशस्यते ।।1.504.६०।।
शुकः प्राह तथैव चेत् खरवानरसूकराः ।
पुत्रवन्तस्तरिष्यन्ति को विशेषोऽत्र मानुषे ।।६ १ ।।
व्यासः प्राह यदि ज्ञानं तेषामपि च मोक्षणम् ।
शुकः प्राह पितस्तद्वै गर्भादेवाऽर्जितं मया ।।६ २।।
गमिष्यामि समायातं मोक्षं भक्त्या च केशवम् ।
प्राप्तं चिन्तामणिं त्यक्त्वा कंकरं कथमावहेत्। ।।६३।।
प्राग्ग्रासेऽमृतमुत्सृज्य मक्षिकां वै कथं ग्रसेत् ।
प्राप्ते स्वर्णरसे चाग्रे कर्दमं मर्दयेत् कथम् ।।६४।।
सूर्यस्य दर्शनं त्यक्त्वा राहुं कथं विलोकयेत् ।
दिव्यदीपं परित्यज्य धूम्रोल्कां कथमर्जयेत् ।।६५।।
एककारागारमुक्तौ द्वितीये वै कथं पतेत् ।
ब्रह्ममार्गे चावगते क्षुद्रसृत्या कथं सरेत् ।।६६।।
श्रेष्ठं चोपस्थितं त्यक्त्वा कनिष्ठं नावलम्बयेत् ।
सत्यं प्राप्तं परित्यज्य कृत्रिमं चाश्लिषेत् कथम् ।।६७।।
अक्के चेन्मधुविन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्याऽर्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत्। ।।६८।।
इत्युक्त्वा पितरं कृष्णद्वैपायनं हृदि स्थितम् ।
मातरं चेटिकां कृष्णशक्तिं प्रणम्य सादरम् ।।६९।।
ययौ वनं सदाऽवनं यत्रात्मना भवत्यपि ।
व्यासः शोकं चेटिका च दुःखं जगाम वै क्षणम् ।।1.504.७० ।।
शुकी व्यासं ततः प्राह चरिष्यामि तपः पुनः ।
पुत्रार्थं येन वंशस्य वर्धको मे भवेत् सुतः ।।७१ ।।
व्यासाज्ञां सा समासाद्य तपस्तेपे पतिव्रता ।
ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।।७२।।
इति मन्त्रं ददौ व्यासो जजाप सा दिवानिशम् ।
कृष्णनारायणस्तत्र त्वाययौ हृष्टमानसः ।।७३।।
वरदोऽस्मीति तां प्राह वरं वरय सुव्रते ।
शुकी प्राह सुतं देहि मम वंशविवर्धनम् ।।७४।।
तथाऽस्त्विति हरिः प्राह ययावदर्शनं ततः ।
चेटिका सुसुतं लेभे कपिञ्जलमिति श्रुतम् ।।७५।।
कपिञ्जलो महायोगी पित्रोश्चैव समाज्ञया ।
गार्हस्थ्यं स्वीचकाराऽसौ भरद्वाजीं सुकन्यकाम् ।।७६ ।।
परिणेमे ततो भारद्वाजः पुत्रो बभूव ह ।
भरद्वाजस्य तैत्तिरः कामरूपधरः सुतः ।।७७।।
सच प्राग्ज्योतिषदेशे ययौ पर्वतभूस्तरे ।
ततः पुनः समागत्य नवलक्षाभिधेऽचले ।।७८।।
निवासं स्वीचकाराऽसौ कामाक्षीं चाऽभजत् सतीम् ।
कामरूपो महायोगी पर्वतीयो महेश्वरः ।।७९।।
पर्वतीयप्रजानां वै गुरुः राजा तपोबलात् ।
अभवत् तेन गिरयः कामरूपाभिधास्ततः ।।1.504.८०।।
अभवँश्च नराः स्वल्पा नार्यो बह्व्यः सतीच्छया ।
भजन्ति स्मैकपुरुषं शतं शतं हि योषिताम् ।।८१ ।।
अथ बालवयोगीन्द्रो ब्रह्मपुत्रातटे वसन् ।
तपश्चचार कठिनं बालवन्मोहवर्जितः ।।८२।।
ते ताः सम्प्रार्थयामासुर्नराणां वृद्धये ततः ।
सर्वाः पुत्रप्रसवाभिमुख्यो भवन्तु मद्वरात् ।।८३।।
यादृक्संख्याः कन्यकानां नराणां सन्तु ताः समाः ।
साम्योत्तरं साम्यभावे कन्याकुमारमातरः ।।८४।।
भविष्यथ यथायोग्या इति ताश्च तथाऽभवन् ।
एवं ते कथितं लक्ष्मि पुरावृत्तं युगे युगे ।।८५।।
नवं नवं पुनः सञ्जायते निर्माणवद् भवे ।
कामरूपं तथा तीर्थं बालवाकुण्डकं तथा ।।८६।।
भुक्तिमुक्तिप्रदं श्रेष्ठं पठनाच्छ्रवणादपि ।
यथेष्टदायकं मन्त्रसिद्धिप्रदं हि विद्यते ।।८७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
कृष्णद्वैपायनव्यासस्य शुक्यां शुककपिञ्जलौ सुतौ, कपिञ्जलस्य भरद्वाजस्तस्य तैत्तिरः सुतः, बालवयोगिवरदानात् कामरूपदेशे नराणां नारीसमसंख्याकोत्पत्तिरित्यादिनिरूपणनामा चतुरधिकपञ्चशततमोऽध्यायः ।।५०४।।