लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५०३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५०२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५०३
[[लेखकः :|]]
अध्यायः ५०४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां मुनेर्जाबालेर्मोक्षकारिणीम् ।
जबालायाः ऋषिदास्याः पुत्रो जाबालिसंज्ञकः ।। १ ।।
ब्राह्मणस्य तु बीजेन समुत्पन्नो बभूव ह ।
कौमारब्रह्मचर्येण येन चीर्णं तपः सदा ।। २ ।।
कृच्छ्रचान्द्रायणादीनि पाराकाणि शनैः शनैः ।
कुर्वताऽनेन वै देवा संनीता भयगोचरम् ।। ३ ।।
ततो देवा हि मिलिताश्चक्रुर्विघ्नस्य मन्त्रणाम् ।
रंभां सप्रेषयामासुर्ब्रह्मचर्यविघातिनीम् ।। ४ ।।
ब्रह्मचर्यं तपोमूलं सिद्धिसम्पादकं महत् ।
आबालाद् ब्रह्मचारी च जाबालिस्तेजसा महान् ।। ५ ।।
कामधर्मं न जानाति नारीसंगमवर्जितः ।
तस्य क्षोभाय च देवं वसन्त सायुधं तथा ।। ६ ।।
कामं रतिं तथा प्रीतिं प्रेषयामासुरीश्वराः ।
इन्द्राज्ञया गताः सर्वे हाटकेश्वरभूतलम् ।। ७ ।।
जाबालेः पर्णशालायाः सन्निधौ कुसुमाकरः ।
चक्रेऽकस्मादशोकस्य सुशोभां पुष्पसञ्चयैः ।। ८ ।।
तिलकानां च चूतानां शोभां मञ्जरिकादिभिः ।
सरोजानि समन्ताच्च विकासं प्रापुरुत्तमम् ।। ९ ।।
ववौ च सुरभिर्वायुर्दाक्षिणात्यः स्मरप्रदः ।
तत्रान्तरे तस्य मुनेः रंभा सामीप्यमागता ।। 1.503.१०।।
मुनिः पश्यति यावत् तां साऽपि वस्त्रं विहाय च ।
समीपवर्तिसलिले संस्नातुं प्रविवेश ह ।। ११ ।।
विवस्त्रां तां समालोक्य कामस्य वशगोऽभवत् ।
पुलकांचितसर्वांगः क्षुभितश्चाऽभवत् ततः ।।१ २।।
रम्भा जलाद् विनिर्गत्य वस्त्रमावृत्य चार्धकम् ।
आर्द्ररूपा मुनेः पार्श्वे गता ननाम सस्मिता ।। १ ३।।
प्रोवाच मधुरं ब्रह्मन्नाश्रमे कुशलं किमु ।
मुनिः प्राह सदा मेऽस्ति कुशलं च तवागमात् ।। १४।।
का त्वं देवी मानुषी वा मम मन्मथवर्धिनी ।
रम्भा प्राह कथं गात्रे स्वेदस्ते विकृतिस्तथा ।। १५।।
मुनिः प्राह तवाऽऽलोकात् स्वेदो मे मन्मथोद्भवः ।
ब्रह्मचर्यपरस्यापि महाव्रतेऽपि वर्तिनः ।। १६।।
रम्भा प्राह च यद्येव मां भजस्व यथासुखम् ।
नात्र कश्चिद् भवेद् दोषो भजमानाऽस्मि यत् स्वयम् ।। १७।।
अप्सरोऽहं स्वर्गपत्नी तव भक्तां भजस्व माम् ।
यो नारीं कामसन्तप्तां स्वयं प्राप्तां परित्यजेत् ।। १८।।
नारीनिःश्वासदग्धः स सर्वथा हीयते जनः ।
एवमुक्त्वा तया सोऽपि परिष्वक्तो महामुनिः ।। १ ९।।
एवं तया समं रेमे स्थितो यावद्दिनक्षयम् ।
ततो निष्कामतां प्राप्तो विससर्ज च तां ततः ।। 1.503.२०।।
सा च गत्वा सुरान्प्राह क्षोभितो वै महामुनिः ।
तपस्तस्य हतं सर्वमिन्द्र त्वं सुखभाग् भव ।। २१ ।।
अथ दध्रे मुनेर्गर्भं सुषुवे सा च बालिकाम् ।
मुनिर्यत्र पुनश्चक्रे तपस्तत्र ययौ च सा ।।२२।।
नीत्वा सरोजपत्राक्षीं कन्यां चन्द्रशुभाननाम्।
गत्वाऽऽश्रमे ऋषेरग्रे मुमोचेदं च साऽब्रवीत् ।।२३।।
तव वीर्यसमुत्पन्नां मम गर्भे प्ररोपिताम् ।
कन्यकां ते सुतां दिव्यां परिपालय ते नमः ।।२४।।
न स्वर्गे विद्यते वासो मानुषाणां कथंचन ।
एतस्मात् कारणात् तुभ्यं दत्वा यामि दिवं पुनः ।।२५।।
एवमुक्त्वा ययौ रंभा जाबालिः स्नेहपूरितः ।
कन्यां तां पालयामास रसैर्मिष्टफलोद्भवैः ।।२६।।
वर्धते स्म मृगैः सार्धं क्रीडति स्म च पक्षिभिः ।
तस्यर्षेः सर्वकार्येषु साहाय्यं स्म करोति च ।।२७।।
समित्कुशादि च वनादानयामास नित्यदा ।
एकदा स्वाश्रमाद् दूरं फलार्थं सा जगाम च ।।२८।।
तदा व्योम्ना विमानस्थश्चित्रांगदाभिधो दिवः ।
गान्धर्वो निर्ययौ दृष्ट्वाऽवतीर्य तां जगाद च ।।२९।।
का त्वं चैकाकिनी बाले वने भ्रमसि कन्यके ।
कन्या प्राह च जाबाले कन्या फलवती ह्यहम् ।।1.503.३०।।
फलपुष्पार्थमायाता समीपे मे पिताऽस्ति च ।
चित्रांगदस्तदोवाच पिता ते भार्यया विना ।।३ १ ।।
कुमारब्रह्मचारी त्वां जनयामास वै कथम् ।
कन्योवाच मम माता रम्भानाम्न्यप्सरोवरा ।।३२।।।
मुनिं संसेव्य तद्द्वारा पुत्रीं प्राप ततः पिता ।
जाबालिर्मे जनकोऽस्ति पोषिता तेन सद्रसैः ।।।३३।।
चित्रांगदस्ततः प्राह वरारोहे भजस्व माम् ।
अहं चित्रांगदो नाम गन्धर्वस्त्रिदिवौकसाम् ।।३४।।
कन्या प्राह कुमार्यस्मि तथा च वशगा पितुः ।
तस्मात्प्रार्थय मे तातं स मां तुभ्यं प्रदास्यति ।।३५।।
ममापि रोचते चित्ते भवान् युवा सुरूपवान् ।
चित्रांगदः प्राह शक्नोम्यर्थयितुं न वै तथा ।।३६।।
को जानाति हि तच्चित्तं कीदृग्रूपं भविष्यति ।
कन्या प्राह च यद्येवं विनाऽऽज्ञा किं करोम्यहम् ।।३७।।
जानीयाच्चेत् पिता मे त्वां मां चापि सम्प्रधक्ष्यति ।
इति प्रवदमानां तामधीरश्चित्रकांगदः ।।३८।।
जग्राह चांके प्रबलो रेमे तया वनद्रुमे ।
सापि कामेन संव्याप्ता रमयामास तं मुहुः ।। ३९ ।।
दिव्यभावं परित्यज्य कामभावमुपाश्रिता ।
दिवसो निर्गतः सायं गतं तद् बुबुधे न सा ।।1.503.४०।।
जाबालिरथ तच्चिन्तामग्नो दुःखसमन्वितः ।
अनायातां सुतां विपद्गतां ज्ञात्वा निशामुखे ।।४१ ।।
परिबभ्राम सर्वत्राऽन्वेषयितुं वने वने ।
अहो व्याघ्रैर्भक्षिता किं वृक्षात् सम्पतिता किमु ।।४२।।
अगाधजलमग्ना वा नीता वाऽन्येन वै बलात् ।
इत्येवं च परिवदन् बभ्राम शोककर्षितः ।।४३ ।।
कंचिच्छब्दं समाकर्ण्य मत्वा बालां प्रयाति तम् ।
अथ वृक्षतले शब्दं शुश्राव कन्यकाकृतम् ।।४४।।
शीघ्रं तत्र समायातो ददर्श सनरां सुताम् ।
क्रोधाविष्टो गृहीत्वा च काष्ठं दुद्राव तं नरम् ।।४५।।
धिक्धिक् पाप वने पुत्र्याः कौमार्यं दूषितं त्वया ।
त्वया पुत्रि लाञ्च्छनं च दत्तं लोके ममोपरि ।।४६।।
तस्मादेनं तथा त्वां च नाशयामीति संवदन् ।
प्रहारं यावत् क्षिपति तावत् चित्रांगदोऽम्बरे ।।४७।।
अदृश्योऽभूच्च सा कन्या विवस्त्रा शक्तिवर्जिता ।
पितुर्भयाच्च तत्रैव निषसाद प्रकम्पिता ।।४८।।
मुनिः काष्ठप्रहारेण सन्ताड्य पतितां क्षितौ ।
मृतां मत्वा च विसृज्य यावत् पश्यति चाम्बरे ।।४९।।
तावच्चित्रांगदो दृष्टो विमानेन दिवं व्रजन् ।
शप्तो मुनिना द्राक् सः कुष्ठी भव पतात्र च ।।1.503.५०।।
गान्धर्वस्तु पपातोर्व्यां कुष्ठी जातः क्षणात्तदा ।
प्राह कुरु क्षमां मह्यं पुत्र्यै दयायुतो भव ।।५१ ।।
भूतं तद् भूतमेवाऽत्र स्वल्पः कोपो हि साधुषु ।
जाबालिस्तं तदा प्राह दण्डपात्रं विचार्य वै ।।५२।।
यथा पुत्री तथा त्वं च वस्त्रहीनः सदा भव ।
उभौ त्वत्र सदा नग्नौ तिष्ठत वै वनद्रुमे ।।५३।।
यद्यन्यत्राऽगमिष्यतं शिरःस्फोटो हि वां भवेत् ।
एवं शापं तु तौ प्राप्तौ क्षेत्रे श्रीहाटकेश्वरे ।।५४।।
तत्रैव तौ तथा रुद्ध्वा मुनिर्निजाश्रमं ययौ ।
चैत्रमासे शुक्लपक्षे निशार्धे भगवान् हरः ।।५५।।
योगिनीभिस्तत्र रन्तुं दैवात् समाययौ वने ।
तत्र तदा ह्युभाभ्यां च नग्नाभ्यां गायनं तथा ।।५६।।
नर्तनं च कृतं शंभोः प्रसादार्थं मुहुर्मुदा ।
शंभुस्तुष्टश्चकारैनं गन्धर्वं निरुजं तदा ।।५७।।
व्योमगामित्वसामर्थ्यं गणत्वं च ददौ हरः ।
कन्यां तां योगिनीत्वं च व्योमगामित्वमाददौ ।।५८।।
 'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।
इति मन्त्रं ददौ ताभ्यां ददौ तुलसीमालिकाम् ।।५९।।
भक्तौ तौ वैष्णवौ जातौ हाटकेश्वरतीर्थके ।
चित्रांगदेन संशप्तो जाबालिश्च निरम्बरः ।।1.503.६०।।
जनहास्यास्पदो नित्यं यथाऽहं त्वं तथा भव ।
इतिशापेन संदग्धो गर्हयामास योषितम् ।।६१ ।।
अहो पापात्मनां पुंसां योषित्संगो हि जायते ।
सकृद् योषित्प्रसंगेन मम दुःखं हि कीदृशम् ।।६२।।
आजन्ममरणं यावत्पापं प्राप्तं विवस्त्रकम् ।
तर्हि स्त्रीषु प्रसक्तानां का गतिरित्यचिन्तयत् ।।६३।।
एवं तस्य ब्रुवाणस्य पुत्री प्राह च योगिनी ।
एतच्चराचरं विश्वं स्त्रीभिः सन्धार्यते शुभम् ।।६४।।
कथं तां निन्दसि पितर्निन्दको दुःखमवाप्नुयात् ।
पिता प्राह स्त्रियः शश्वत् सर्वावस्थासु दुःखदाः ।।६५।।
इह लोके परत्रापि ताभ्यः सौख्यं न लभ्यते ।
पुत्री प्राह पितस्ते वै बुद्धिर्नास्ति दमो न च ।।६६।।
किमन्त्यजोऽपि तत्कर्म कुरुते यत् त्वया कृतम् ।
अहं काष्ठप्रहारेण त्वया प्रहारिता मुहुः ।।६७।।
स्त्रीहत्योद्भवपापस्य चिन्ता नाऽभूच्च ते हृदि ।
विशेषेण सुतायाश्च का ते गतिर्भविष्यति ।।६८।।
शप्काऽहं सर्वदा नग्नभावे त्वत्पातकं च ते ।
नित्यं नवनवोत्थं मन्निश्वासजं महत्तरम् ।।६९।।
कल्पान्तेऽपि च ते तस्य नैवाऽन्तः संभविष्यति ।
तस्माद् भुंक्ष्व तथैव त्वं गन्धर्वशापतः पितः ।।1.503.७०।।
न भूयो निन्दसि प्रायो न च संताडयिष्यसि ।
अनिन्द्या योषितः सर्वा नैता दूःष्यन्ति कर्हिचित् ।।७१ ।।
मासि मासि रजो ह्यासां दुष्कृतं परिकर्षति ।
पिता प्राह स्त्रियः पापा नैताः शुद्ध्यन्ति कर्हिचित् ।।७२।।
सुता प्राह न चैवं वै वेदोक्तं शृणु शासनम् ।
ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पुच्छतः ।।७३।।
अजाश्च मुखतो मेध्याः स्त्रियो मेध्याश्च सर्वतः ।
पिता प्राह तदा शास्त्रं परित्यज्य च कल्पितम् ।।७४।।
ब्राह्मणाः सर्वतो मेध्या गावो मेध्याश्च सर्वतः ।
आजाश्चापि क्वचिन्मेध्या न मेध्याश्च स्त्रियः क्वचित्। ।।७५।।
पुत्र्युवाच गृहे चिन्तामणिः कल्पद्रुमो गृहे ।
कुबेरः किंकरस्तस्य यस्याऽस्ति कामिनीगृहे ।।७६ ।।
पितोवाचाऽऽपदस्तस्य दुःखं तस्याऽखिलं गृहे ।
नरकोऽस्त्यत्र वै तस्य यस्यास्ति कामिनी गृहे ।।७७।।
पुत्र्युवाचात्र सौख्यानि भोगस्थानानि यानि च ।
धर्मार्थकामजातानि तानि स्त्रीभ्यो भवन्ति हि ।।७८।।
पितोवाचाऽत्र दुःखानि यानि पापानि देहिनाम् ।
यान कष्टानि गण्यन्ते स्त्रीभ्यस्तानि भवन्ति हि ।।७९।।
पुत्र्युवाच विवाहेन धर्मार्थकाममोक्षकान् ।
वह्निप्रदक्षिणाभिश्च नारी ज्ञापयति ध्रुवान् ।।1.503.८०।।
पितोवाच विवाहेन जन्मजन्मान्तराणि च ।
संसारभ्रमणान्येव नारी ज्ञापयति भ्रमैः ।।८ १ ।।
पुत्र्युवाच सतीं पत्नीं प्राप्य सर्वार्थसाधिकाम् ।
के नाम नैव रज्यन्ते देहिनो ज्ञानिनोऽपि च ।।।८२।।
पितोवाच न रज्यन्ते विरागाश्चात्मनि स्थिताः ।
मूढास्तासु निपतन्ति ज्वालायां शलभा इव ।।८३।।
पुत्र्युवाच स्तनौ श्रोण्यौ जघनं मुखमण्डलम् ।
सेव्यन्ते पुण्यवद्भिश्च तदन्ये भाग्यवञ्चिताः ।।८४।।
पितोवाच विनाशस्योन्मुखा लेखा ललाटजा ।
यस्यास्ति तेन सेव्यन्ते तान्यन्ये पुण्यशालिनः ।।८५।।
पुत्र्युवाच स्त्रियाः स्पर्शो दर्शनं रचनादयः ।
परिष्वंगश्च सुखदाः सर्वथा श्रमनाशकाः ।।८६ ।।
पितोवाच स्त्रियाः स्पर्शादयो मिष्टविषात्मकाः ।
संगाद्या दुःखदाः सृष्टौ साध्वाश्रमविनाशकाः ।।८७।।
पुत्र्युवाच स्त्रिया दुष्टः सुखी सुकृती को न वै ।
स्पृहणीयतमः को न स्त्रीजनो यस्य वल्लभः ।।८८।।
पितोवाच स्त्रिया दृष्टो दुःखभाक् पापवान्न कः ।
तिरस्कार्यो भवेत्को न स्त्रीजनो यस्य वल्लभः ।।८९।।
पुत्र्युवाचापि कीटस्य रोचते स्त्रीसमागमः ।
मनुष्यस्य च देवादेः किं पुनर्ज्ञानिनोऽपि च ।।1.503.९०।।
पितोवाचातिपापस्याऽमेध्यस्य रोचते कृमेः ।
अमेध्यं स्त्रीशरीरं कामिनो नान्यस्य वै सतः ।।९१ ।।
पुत्र्युवाच स्वयं ब्रह्मा पाशं नारीस्वरूपकम् ।
कथं वै जनयामास ब्रह्मा भुनक्ति यं स्वयम् ।।९२।।
त्वया रंभा कथं भुक्ता पालिताऽहं सुता कथम् ।
अन्यलग्ना कथं शप्ता यदि मूल्यं न गण्यते ।।९३ ।।
त्वं च मात्रा कथं लब्धो जबालया हि सेवया ।
ऋषीणामाश्रमेष्वेव पश्य मूल्यं स्त्रियास्तदा ।।९४।।
कस्य पुत्रोऽसि पृष्टस्त्वं याज्ञवल्क्येन पाठने ।
मातरं पृष्ठवान् त्वं च तदा मूल्यं स्त्रियास्तव ।।९५।।
इदानीं क्व गतं तद्वै ज्ञानं नारीप्रदर्शितम् ।
मातृपुत्रोऽसि सम्यक् तत् पितृपुत्रो न वै ह्यसि ।।९६।।
अज्ञातपितृका नारीं निन्दन्ति त्वादृशाः पितः ।
ते सदा कालसूत्रे वै पच्यन्ते निन्दकाः स्त्रियाः ।।९७।।
पितरौ सर्वदा पूज्याविति मत्वा मया पितः ।
त्वं न शप्तस्तथाऽप्यत्र गान्धर्वेण प्रशापितः ।।९८।।
स्वकृत्यस्य फलं लब्धं त्वया चापि मयापि च ।
कन्या देया योग्यकाले यस्मै कस्मैचिदेव ह ।।९९।।
दैवयोगादहं प्राप्ता गान्धर्वाय क्षतिस्तु का ।
अप्सरःकन्यका चाहं गान्धर्वं समुपाश्रिता ।। 1.503.१० ०।।
का हानिस्तेऽत्र सम्बन्धे शापे वा लाभ एव कः ।
विना विचारं कृतवान् क्रुद्धश्च ज्ञानदुर्बलः ।। १०१ ।।
क्षमस्वाऽधिकवाचो मे ह्यनुनेयाऽस्मि वै यतः ।
इत्युक्त्वा साश्रुनेत्रेयं प्रणनाम च पादयोः ।। १ ०२।।
पिता तु लज्जितो जातः पुत्र्या ज्ञानं विलोक्य च ।
प्राह धन्यतरं मन्ये त्वहमात्मानमद्य वै ।। १ ०३।।
यस्य मे त्वं सुता जाता ईदृक्शास्त्रविचक्षणा ।
तस्मान्मे कोप एवाद्य शान्तः पुत्रि! सुखा भव ।। १ ०४।।
इत्युक्त्वा प्रययौ विप्रः पर्णशालां प्रति द्रुतम् ।
पुत्री चक्रे तपस्तत्र योगिनीमध्यवर्तिनी ।। १ ०५।।
अथ कालान्तरे तुष्टो नारायणः समाययौ ।
दिव्यरूपां विधायैव तां निनाय प्रमोक्षणम् ।। १ ०६।।
चतुर्भुजाऽभवत्साध्वी नारायणपतिव्रता ।
चित्रांगदो ययौ स्वस्य गान्धर्वलोकगाश्रमम् ।। १ ०७।।
जाबालिस्तपसा कृष्णनारायणं भजंस्ततः ।
शापमुक्तोऽभवत् कृष्णनारायणप्रतापतः ।। १ ०८।।
ययौ गोलोकमुत्कृष्टं धाम कृष्णकृपावशात् ।
आत्मनिवेदिता किं किं न करोति सुदुर्लभम् ।।१ ०९।।
अकाट्यं चाविनाश्यं चाऽप्रधृष्यं शाश्वतं च यत् ।
परावृत्य नवं कृत्वा समर्पयति पद्गतम् ।। 1.503.११० ।।
अपि वज्रसमं भाग्यं शैथिल्यं नयति ध्रुवम् ।
कृष्णनारायणभक्तिर्नवं भाग्यं करोति च ।। ११ १।।
एतत्ते सर्वमाख्यातं लक्ष्मि वाञ्च्छाप्रपूरकम् ।
पठतां शृण्वतां चैव त्विह लोके परत्र च ।। १ १२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जाबालिना रम्भाद्वारोत्पादितपुत्र्याः फलवत्याश्चित्रांगदगन्धर्वकृतभोगे पितृशापेन नग्नयोगिनीत्वं, पितुरपि समीपस्थायित्वं, ततस्तपसामुक्तिः, संवादश्च पद्मशिलायां द्वयोर्वासश्चेत्यादिनिरूपणनामा त्र्यधिकपञ्चशततमोऽध्यायः ।। ५०३ ।।