लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५०६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५०७
[[लेखकः :|]]
अध्यायः ५०८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! सा च शक्तिर्धारानाम्नी कुमारिका ।
ब्राह्मणस्याऽभवत्पुत्री देवशर्मण ईश्वरी ।। १ ।।
कन्यारूपा तपस्तेपेऽरुन्धतीमित्रतां गता ।
अरुन्धत्याश्रमे वासं ततश्चकार शोभना ।। २ ।।
एकदाऽरुन्धती प्राह सरस्वत्यास्तटे शुभम् ।
ममाश्रमपदं रम्यं तत्र तिष्ठ मया सह ।। ३ ।।
ततः सा कन्यका धारा तया सार्धं ययौ ततः ।
शक्तिरूपा स्थिता देवी सरस्वत्यास्तटे शुभा ।। ४ ।।
दिव्या ब्रह्मस्वरूपा च वसिष्ठोऽपि महामुनिः ।
हाटकेश्वरजं क्षेत्रं त्यक्त्वा सरस्वतीतटे ।। ५ ।।
स्वाश्रमं प्रययौ तत्र तपस्तेपे सुखावहम् ।
विश्वामित्रेण विज्ञातं शक्तिर्मे तत्र संगता ।। ६ ।।
वशिष्ठस्य गृहे चास्ते तापसी ब्रह्मपुत्रिका ।
वसिष्ठोऽपि सरस्वत्यास्तटे चास्ते निजाश्रमे ।। ७ ।।
ज्ञात्वा चुकोप चात्यर्थं शशाप च सरस्वतीम् ।
भव रक्तजला यत्र वसिष्ठो न वसेत् क्वचित् ।। ८ ।।
आथर्वणेन मन्त्रेण विश्वामित्राभिचारतः ।
सरस्वती तदा तूर्णं जाता रक्तजला यतः ।। ९ ।।
अपेयं तज्जलं जातं दैवानां कर्मवर्जितम् ।
भूतप्रेतपिशाचानां पेयं ज्ञात्वा विहाय तत् ।। 1.507.१० ।।
तत्तीरस्था ययुर्दूरं वसिष्ठः पुष्करं ययौ ।
धारा शक्तिर्देवता च वासं चकार सर्वदा ।। १ १।।
सरस्वत्या वसिष्ठश्चाऽऽवेदितो जलशुद्धये ।
रक्तताया लयार्थं च पुष्करेऽर्बुदपर्वते ।। १२।।
वसिष्ठः प्राह रक्तस्य शुद्ध्यर्थं तव सर्वथा ।
यतिष्ये गच्छ देवेशि सर्वं ते सुखदं यथा ।। १३ ।।
वसिष्ठो योगमास्थाय चावतीर्य धरातले ।
प्लक्षवृक्षस्य मूले वै सरस्वत्या जलान्विते ।। १४।।
कृत्वा समाधिं नेत्राभ्यां लोकयामास चान्तरे ।
तावत्पृथ्वीतलाच्छुद्धं जलं परमपावनम् ।। १५ ।।
प्रवाहरूपं सम्भूतं सरस्वत्यां युयोज तत् ।
तज्जलं सर्वथा पूर्णं सरस्वत्यां बभूव ह ।। १६ ।।
निष्कास्य सलिलं रक्तं वेगेन च बहिर्बहिः ।
शुद्धं जलं सरस्वत्यास्तन्मूलात्सर्वदाऽस्ति हि ।। १७।।
शुद्धवार्योघबलतो रक्तं निःसारितं जलम् ।
प्रवाहं च द्वितीयं तत् कृत्वा यातं स्थलान्तरम् ।। १८।।
उद्वेलं सम्भ्रमद्गच्छद्यातं निम्नस्थलीं प्रति ।
सा तु साभ्रमतीनाम्नी नदी जाता तदुत्थिता ।। १ ९।।
अथैकदा ऋषिर्याज्ञवल्क्यः साभ्रमतीतटे ।
तीर्थयात्राप्रसंगेन निर्ययौ भगिनीयुतः ।।1.507.२०।।
कंसारिकाऽभिधा सा च बाल्याद्वै ब्रह्मचारिणी ।
तापसी संयमप्राप्ता ज्ञानानन्दमयी सती ।।२ १।।
याज्ञवल्क्यस्य भागिनी वैष्णवी चार्तववृषा ।
ऋतुधर्मं समापन्ना यात्रायां तेन हेतुना ।।२२।।
याज्ञवल्क्यः स्थितिं चक्रे सप्ताहं सरितस्तटे ।
वृक्षोऽधःपर्णशालायां भगिनी त्वपरोटजे ।।२३ ।।
याज्ञवल्क्यस्य दैवाद्धि स्वप्नदोषो बभूव ह ।
रेतोयुक्तं परिधानं समुत्तार्य बहिःस्थले ।। २४।।
स्थापयित्वा पुना रात्रौ सुप्तो निद्रां जगाम ह ।
अथ कंसारिका मूत्रशौचार्थं तु क्षणान्तरे ।। २९।।
ऊटजाद्बहिरायाता ददर्श पतिताऽम्बरम् ।
मूत्रशौचं विधायैवाऽम्बरं संगृह्य चोटजे ।।२६ ।।
सुष्वाप शयने साध्वी चोत्ताना च ततः पुनः ।
क्लिन्नयोन्यन्तरं भागं प्रवेशिताऽम्बरेण सा ।।२७।।
सवीर्यकाऽज्ञानवती मार्जयामास वै मुहुः ।
वस्त्ररेतसो योगेन योनिः क्लिन्ना विशेषतः ।।२८ ।।
पुनस्तेनैव वस्त्रेण मार्जयामास वै मुहुः ।
स्वयोनेस्तु मलं मत्वा मार्जयामास चान्तरम् ।। २९।।
एवं त्वमोघरेतस्तद् भगमध्येऽन्वसंचरत् ।
रजसा मिश्रितं गर्भरूपं बभूव तत्तदा ।। 1.507.३० ।।
अथ प्रातः समुत्थाय याज्ञवल्क्योऽम्बरं निजम् ।
अन्वेषयामास बहिः प्राप्तं नैवाऽम्बरं यतः ।। ३१ ।।
पप्रच्छ भगिनीं धौत्रं ज्ञातं प्राप्तं नु वा त्वया ।
सा प्राहाऽत्र मया भ्रातः रक्षितं शयने मम ।।३२।।
भ्राता प्राह मया तेन स्नातव्यं देहि मे स्वसः ।
स्वसा प्राह नयिष्येऽहं क्षालनार्थं नदीतटम् ।।३ ३ ।।
याहि त्वं चाम्बरं नीत्वा चायाम्येव क्षणान्तरे ।
इत्युक्तः स ययौ नद्यां सापि शंकितमानसा ।। ३४।।
ददर्श धौत्रं विस्तार्य शेषं धातुं तदन्तरे ।
शुष्कायमानं संवीक्ष्य जातशंका बभूव ह ।। ३५।।
चिन्तयामास सततं मया योन्यन्तरे मुहुः ।
क्लिन्नभावस्य नाशार्थं वस्त्रं प्रवेशितं तदा ।।३६ ।।
योनिर्विशेषतः क्लिन्ना संबभूव पुनः पुनः ।
रजो मे निःसृतं चापि धातुयोगेन वै ध्रुवम् ।।३७।।
इदानीं ज्ञातमेवैतत्कारणं गोप्यमेव तत् ।
यदि गर्भो भवेन्मेऽत्र दैवं हि बलवत्तरम् ।। ३८।।
इतिज्ञात्वा संविचार्य शोकं चकार भामिनी ।
गोपयामास मासान्तं ततः प्राह सहोदरम् ।। ३९ ।।
मया कार्यं व्रतं भ्रातर्गन्तव्यं च निजाश्रमम् ।
मिथिलाविषये यत्र व्रतं वै पूर्णतां व्रजेत् ।।1.507.४० ।।
इत्युक्त्वा प्रययौ निजं चाश्रमं तद्वने शुभे ।
गौरीं सम्पूजयामास व्रतेनाऽनशनेन वै ।।४१ ।।
सप्ताहे संव्यतीते तु गौरी साक्षात् समाययौ ।
कंसारिक्ता जगादेदं गर्भो मे भ्रातृरेतसः ।।४२।।
मन्ये तिष्ठति ह्युदरे दैव तद्बलवत्तरम् ।
तस्य वृद्धिं मानसीं च कुरु सौभाग्यसुन्दरि ।।४३ ।।
यथा नान्ये च जानीयुस्तथा जन्म समर्पय ।
गौरी तथाऽस्त्विति प्राह पस्पर्श पाणिनोदरम् ।।४४।।
गर्भः पक्वः क्षणाज्जातो बालः सम्पूर्ण एव च ।
सुषुवे बालकं गौरीसन्निधौ तत्क्षणात् सती ।।४५।।
नालच्छेदं स्वयं गौरी चकार शुद्धिप्रभृति ।
कंसारिका व्रतव्याजान्न निःससार वै बहिः ।।४६।।
गौर्युक्तरीतिमाश्रित्य रात्रौ शान्ते वने च सा ।
वेष्टितं सूक्ष्मवस्त्रेण बालं नीत्वा रविद्युतिम् ।।४७।।
नातिदूरं ययौ श्रेष्ठमश्वत्थं विजनस्थले ।
तस्याऽधस्ताद्विमुच्याथ वाक्यमेतदुवाच ह ।।४८।।
अश्वत्थ विष्णुरूपोऽसि त्वं देवेषु प्रतिष्ठितः ।
तस्माद् रक्षस्व मे पुत्रं सर्वतस्त्वं वनस्पते! ।।४९।।
एष ते शरणं प्राप्तो मम पुत्रस्तु बालकः ।
सलज्जाया निर्दयायास्तस्माद् वृक्ष प्रपोषय ।।1.507.५० ।।
एवमुक्त्वा सुतस्नेहाद् रुरोद चाऽप्रकाशितम् ।
तावत्तत्राऽऽगता षष्ठीदेवी या मनसाऽभिधा ।।५ १ ।।
बालानां रक्षिका या सम्प्रेषिता शिवयोषिता ।
प्राहैनां मा रुरोदाऽत्र करिष्ये त्वस्य रक्षणम् ।।५२।।
गच्छ मौनं स्वाश्रमं त्वं दास्ये बालं प्रपोषितम् ।
तुभ्यं मा खिद साध्वि त्वं सुखं सर्वं भविष्यति ।।५३ ।।
तथापि शंकमाना तां राक्षसीं प्ररुरोद सा ।
तावदाकाशजा वाणी सञ्जाता मेघनिःस्वना ।।५४।।
मा त्वं शोकं कुरुष्वास्य बालकस्य कृते शुभे ।
एष शापादुतथ्यस्य ज्येष्ठभ्रातुर्बृहस्पतेः ।।५५।।
अवतीर्णो तव कुक्षौ बृहस्पतिः स्वयं गुरुः ।
एष चाथर्वणं वेदं शतकल्पं सविस्तरम् ।।५६।।
सप्तभेदं च नवधा पञ्च कल्पं करिष्यति ।
जन्मयोगी पिप्पलस्य रसं संभक्षयिष्यति ।।५७।।
अयं वै पिप्पलादेति नाम्ना ख्यातो भविष्यति ।
एषा षष्ठी महादेवी रक्षां त्वस्य करिष्यति ।।१८।।
इत्युक्ता प्रययौ तत्र यत्र स्वस्याऽऽश्रमः शुभः ।
अथ सा चिन्तया नित्यं पुत्रप्रगतमानसा ।।५९।।
समयं निर्जनं लब्ध्वा मुहुर्याति सुतं प्रति ।
रक्षितं हसमानं च पुष्टं दृष्ट्वा मुमोद ह ।।1.507.६० ।।
चुम्बनं स्तन्यपानादि कृत्वा दत्वा प्रयाति वै ।
अथ वन्यजनैः पुत्रश्चावलोकित एव सः ।।६ १ ।।
ऋष्याश्रमेषु सा वार्ता प्रससार बहुस्थले ।
दैवपुत्रः पिप्पलादः प्लक्षवृक्षे हि वर्तते ।।६२।।
ऋषिसंघास्तु तं द्रष्टुं प्रयान्ति पिप्पलस्थितम् ।
कश्चिच्चेद् ग्रहीतुं याति बालः प्रयात्यदर्शनम् ।।६३।।
षष्ठीदेवी करोत्येवाऽन्तर्धानं बालकस्य वै ।
श्रुत्वाऽऽश्चर्यं याज्ञवल्क्यो ययौ तद्दर्शनाय वै ।।६४।।
एकाक्येव च तं दृष्ट्वा स्वानुरूपगुणाश्रयम् ।
कथं चायं मम रूपं प्राप्तवानित्यचिन्तयत् ।।६५।।
बालः प्राह पितस्तेऽस्तु नमस्कारो मम प्रभो! ।
जातिस्मरोऽस्ति त्वद्वीर्यादुत्पन्नोऽहं बृहस्पतिः ।।६६।।
कंसारिका च माता मे स्वाप्नवस्त्रस्य योगतः ।
सुषुवे मां पार्वतीवाक्याच्च पिप्पलवृक्षके ।।६७।।
पोषणार्थं धृतवती षष्ठी रक्षति मां सदा ।
तावत्कात्यायनी प्राप्ता मैत्रेयी ज्ञानशेवधिः ।।६८।।
सख्यस्त्वन्या वननार्यश्चागतास्तत्र संभ्रमाः ।
कंसारिकाऽपि चायाता बालं द्रष्टुं सुहर्षिता ।।६९।।
सर्वेषां शृण्वतां बालः पिप्पलादो हि योगिराट् ।
जजाप परमं मन्त्रं पिप्पलस्कन्धमाश्रितः ।।1.507.७०।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
श्रुत्वा कंसारिका पुत्रं प्रार्थयामास मानसे ।।७१ ।।
मम मुक्तिं कुरु पुत्र कृतकृत्या भवामि च ।
वृथा वै लोकनिन्दायाः श्रवणं मे न यद् भवेत् ।।७२।।
पुत्रः सस्मार च ज्ञात्वा कृष्णनारायणं हरिम् ।
आययौ श्रीकृष्णनारायणो विमानशोभितः ।।७३।।
कंसारिका सुतं कृत्वा वक्षस्यथ चुचुम्ब च ।
स्तन्यं ददौ ततस्तेन वर्ष्मणा दिव्यतां गता ।।७४।।
तेनैव दिव्यदेहेन विमानवरमास्थिता ।
कृष्णनारायणमन्त्रं गृहीत्वा वैष्णवी ततः ।।७५।।
सर्वेषां पश्यतां व्योम्ना गोलोकं प्रजगाम ह ।
आश्चर्यं परमं दृष्ट्वा याज्ञवल्क्यो महामुनिः ।।७६।।
षष्ठीदेव्या मुखात् सर्वं विदित्वा वृत्तमेव तत् ।
निश्चिकाय सुतं स्वस्य गोपयामास तद्वृत्तम् ।।७७।।
ययौ नैजाश्रमं पुत्रं दत्त्वाऽऽशीर्वादमुत्तमम् ।
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ।।७८।।।
निर्गतस्तेन मार्गेण दृष्ट्वा सूर्याभबालकम् ।
पप्रच्छ विस्मयाऽऽविष्ट एकाकी को भवानिह ।।७९।।
क्व ते माता पिता चापि किमर्थं त्विह तिष्ठसि ।
निवत्स्यसि कथं चात्र सर्वं मे विस्तराद् वद ।।1.507.८०।।
पिप्पलाद उवाचैनं का माता कः पिता मतः ।
नारदः प्राह गर्भस्य धारिणी जन्मदायिनी ।।८१।।
क्षेत्रं माता मता बीजाधायकस्तु पिता मतः ।
बालः प्राहाऽज्ञबालस्य भानं क्षेत्रस्य वै कथम् ।।।८२।।
बीजस्यापि कथं भानं पित्रोर्भानं तु बान्धवैः ।
न च मे बान्धवाः सन्ति वृक्षोऽयं मे समाश्रयः ।।८३।।
पिप्पलोऽयं पिता मेऽस्ति षष्ठी मनसा मातृका ।
इत्येवमात्रं संवेद्मि वद मां को भवानिह ।।८४।।
नारदस्तु तदा प्राह याज्ञवल्क्यस्य रेतसा ।
कंसारिकायां जातोऽसि पितरौ ते ततो मतौ ।।८५।।
बालः प्राह कथं चात्र तिष्ठामीति वदाऽत्र मे ।
नारदश्चाह देवानां गुरुस्त्वं वै बृहस्पतिः ।।८६।।
उतथ्यभार्यासंहर्ता उतथ्यशापदोषतः ।
जातोऽस्यत्र बालरूपः पिप्पलादो महामुनिः ।।८७।।
अथर्ववेदो यश्चैषः शतशाखोऽस्ति मानवे ।
शतकल्पश्च गूढार्थो राज्ञामध्ययनाय वै ।।८८।।
नवशाखः पञ्चकल्पः प्रसन्नार्थसुखागमः ।
त्वया सम्यक् परिष्कृतो व्याख्यातः संभविष्यति ।।८९।।
तदर्थं तेऽत्र जन्माऽस्ति माता ते मोक्षणं गता ।
पिता ते याज्ञवल्क्योऽस्ति तत्पार्श्वं त्वमितो व्रज ।।1.507.९०।।
अहं वै नारदश्चाऽस्मि ब्रह्मपुत्रः सुवैष्णवः ।
गृहाण वैष्णवं मन्त्रं मालां च तुलसीकृताम् ।।९१ ।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
इत्युक्त्वा प्रददौ मन्त्रं मालां चापि ददौ च तम् ।।९२।।
बालः प्राह वने वासः कथं मे दुःखहेतुकः ।
कथं मातृवियोगो मे वदाऽत्र कारणं मुने ।।९३।।
नारदः प्राह जन्मस्थः शनिस्ते तेन चेदृशीम् ।
अवस्थां त्वं गतोऽसीति नान्यत् तत्र हि कारणम् ।।९४।।
बालः श्रुत्वा रुषा चोर्ध्वं तं ददर्श शनैश्चरम् ।
तस्य दृष्टिनिपातेन न्यपतत् तत्क्षणाच्छनिः ।।९५।।
नारदश्च शनिं प्राह मा त्वं वीक्षय बालकम् ।
हानिं विशेषतस्तेऽयं करिष्यति न संशयः ।।९६।।
बालं प्राह प्रकोपं त्वं संहराऽत्र शनैश्चरे ।
ग्रहा गावो नरेन्द्राश्च सन्तश्च ब्राह्मणास्तथा ।।९७।।
पूजिताः प्रतिपूज्यन्ते निर्दहन्त्यवमानिताः ।
शनिना वीक्षितौ स्वस्य पादौ जन्मक्षणे तदा ।।९८।।
दग्धावुभौ ततश्चाऽन्यं भस्मराशिं करोत्ययम् ।
यदि पश्यति नेत्राभ्यां तादृशो रौद्रनेत्रकः ।।९९।।
पूजनीयो न च बाल! ह्यवमान्यः कदाचन ।
श्रुत्वैवं पिप्पलादः सः स्तुतिं चक्रे शुभावहाम् ।। 1.507.१०० ।।
नमस्ते क्रूरनेत्राय पिंगलाय नमोऽस्तु ते ।
नमस्ते कृष्णवर्णाय भस्मकर्त्रे नमोऽस्तु ते ।। १०१ ।।
नमस्ते रौद्रदेहाय सौरये ते नमोनमः ।
नमस्ते मन्दवाराय शनैश्चर नमोऽस्तु ते ।। १ ०२।।
श्रुत्वा स्तुतिं शनिः प्राह परितुष्टोऽस्मि सर्वथा ।
वरं वरय भद्रं ते ममापि भद्रमस्तु च ।। १ ०३।।
पिप्पलादो वरं वव्रे बालानां पीडनं त्वया ।
अद्यप्रभृति वै क्वापि न कार्यं देहि मे वरम् ।।१ ०४।।
यावदष्टतमं वर्षं बाले ते पीडनं नहि ।
स्तोतुः पीडा न तेऽप्यस्तु वारे पूजयितुश्च ते ।। १ ०५।।
तथा ते न च पीडाऽस्तु तैलाभ्यंगविधायिनः ।
यस्त्वां लोहमयं कृत्वा तैलमध्ये त्वधोमुखम् ।। १ ०६।।
धारयेत् तेन तैलेन ततः स्नानं समाचरेत् ।
तस्य पीडा न कर्तव्या देयो लाभो महीभुजे ।। १ ०७।।
सार्धसप्ती तव यस्य स तिलान् लोहसंयुतान् ।
ददाति तव वारे यस्तस्य कार्यं न पीडनम् ।। १ ०८।।
कृष्णगोदानकर्तुश्च कार्यं न पीडनं त्वया ।
शमीसमिद्भिर्होमस्य कर्तुस्ते माऽस्तु पीडनम् ।। १ ०९।।
कृष्णपुष्पानुलेपैश्च कृष्णतिलैश्च गुग्गुलैः ।
कृष्णवस्त्रैश्च ते पूजाकर्तुर्माऽस्तु प्रपीडनम् ।। 1.507.११ ०।।।
एवमुक्तः शनिस्तेन बाढमुक्त्वा ततः परम् ।
बालं ह्युवाच गत्यर्थं पुनर्न पतनं यथा ।। १११ ।।
बालः प्राह यथेष्टं त्वं गच्छ सौर्य निजालयम् ।
इत्युक्तः स ययौ स्वर्गं नारदो बालकेन च ।। ११२।
पूजितश्च ययौ सत्यलोकं ततः स बालकः ।
षष्ठीदेव्या समानीतो याज्ञवल्क्यस्य सन्निधौ ।। १ १३।।
अर्पितश्चोपनीतश्च याज्ञवल्क्येन बालकः ।
पिप्पलादश्चमत्कारी योगीन्द्रो वेदविदृषिः ।। १ १४।।
समभवन्महावीर्यो लोककल्याणकारकः ।
इति ते कथितं लक्ष्मि! वृत्तं पापविनाशनम् ।। १ १५।।
यश्चैतत्पुण्यमाख्यानं पठेद्वा शृणुयाच्च वा ।
अगम्यागमनं पापं शमं याति न संशयः ।। ११६ ।।
उपसर्गभये जाते तस्य चौघः प्रशाम्यति ।
शनैः शनैरसन्दिग्धं पिप्पलादवचोबलात् ।। १ १७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने साभ्रमत्या उत्पत्तिः, याज्ञवल्क्यस्य भगिन्यां पिप्पलादोत्पत्तिः, बृहस्पतिः पिप्पलादो जातः, शनैश्चरपूजादिचेत्यादिनिरूपणनामा सप्ताधिकपञ्चशततमोऽध्यायः ।।५०७।।