लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५०७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५०८
[[लेखकः :|]]
अध्यायः ५०९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! त्वया पूर्वं गौरी वै पञ्चपिण्डिका ।
पूजिता तेन संलब्धः कृष्णनारायणः पतिः ।। १ ।।
गौर्या दर्शनमात्रेण नारी सौभाग्यमाप्नुयात् ।
ज्येष्ठे शुक्ले वृषभस्थे रवौ तां जलमर्पयेत् ।। २ ।।
जलमन्त्रेण या नित्यं सा सौभाग्यं शुभं लभेत् ।
न सा वन्ध्या प्रतिष्ठेत काकवन्ध्याऽपि नैव च ।। ३ ।।
न दौर्भाग्यं लभेत् क्वापि सप्तजन्मान्तराणि च ।
पृथिव्यापश्च तेजश्च वायुराकाशमित्यपि ।। ४ ।।
पञ्चभिः रचयेद् गौरीं सा प्रोक्ता पञ्चपिण्डिका ।
सहस्रगुणितं पुण्यं पञ्चपिण्डाप्रपूजने ।। ५ ।।
काशीराजः पुरा चासीज्जयसेनः प्रतापवान् ।
तस्य पत्नीसहस्रं तु ह्यासीत् तत्र प्रियोत्तमा ।। ६ ।।
अमानाम्नी मद्रराजविश्वक्सेनसुताऽभवत् ।
अमा प्रगे समुत्थाय स्नात्वा गंगातटे शुभाम् ।। ७ ।।
पञ्चपिण्डात्मिकां गौरीं कृत्वा कर्दमसंभवाम् ।
ततः सम्पूजयामास सती षोडशवस्तुभिः ।। ८ ।।
ततो विसृज्य तां देवीं दत्वा दानानि सा गृहम् ।
प्रयात्येव स्म सदा च सौभाग्यं वर्धते सदा ।। ९ ।।
रूपं च यौवनं कान्तप्रीतिश्च धन्यमान्यता ।
वर्धन्तेऽस्या विलोक्यैतत् सपत्न्यो दुःखितास्तदा ।। 1.508.१ ०।।
तन्मूलं पूजनं गौर्या ज्ञात्वा द्रष्टुं च ता ययुः ।
यत्र पूजयति गौरीं सा कृत्वा पञ्चपिण्डिकाम् ।। ११ ।।
अमा चोत्थाय तास्तत्र मानयित्वाऽऽसनं ददौ ।
ताः पप्रच्छुरमां नित्यसौभाग्यवृद्धिकारणम् ।। १२।
अमा प्रसन्नमनसा सपत्नीः प्राह पूर्वकृत् ।
अहमासं पुरा शूद्रा वीरसेनस्य कन्यका ।। १३।।
कुसुमे नगरे चापि विवाहो मेऽभवत् तदा ।
विप्रमुखान्मया गौरीपूजा सौभाग्यदा श्रुता ।। १४।।
गौरीपूजां विना क्वापि पातव्यं न जलं त्वपि ।
येन संप्राप्यतेऽभीष्टं पूजा पुण्येन चेप्सितम् ।। १५।।
ततस्तत्र जनौ पूजा कृता मया तु नित्यदा ।
पूजयित्वा पिण्डगौरीं प्रक्षिपामि जले सदा ।। १६ ।।
अथ कान्तश्च मे यातस्तीर्थार्थं द्वारिकां प्रति ।
सह नीत्वा च मां प्राप्तो निर्जलं मरुमण्डलम् ।। १७।।
सूर्यस्तपति रौद्रे च वृषस्थेऽतितृषाप्रदे ।
सार्थस्तृषातुरो जातो जलं मरुमरीचिजम् ।। १८ ।।
मृषा वै दृश्यते सत्यं जलं प्राप्तं न तत्स्थले ।
अहं तृषाकुला जाता स्मृता गौरी मया तदा ।। १ ९।।
पञ्चभिर्मुष्टिभिस्तप्तवालुकाभिः सुनिर्मिता ।
गौरी प्रपूजिता वाचा हृदा ततो मृता ह्यहम् ।।1.508.२०।।
तत्पुण्येन दशार्णाधिपतेः कन्याऽभवं शुभा ।
भवतीनां कनिष्ठाऽस्मि ज्येष्ठाऽस्मि गौरिकार्चनात् ।।२१ ।।
जातिस्मराऽस्मि संजाता तत्स्मृत्वा चात्र नित्यदा ।
पूजयामि कर्दमेन कृत्वा तां पञ्चपिण्डिकाम् ।।२२।
तेनाऽत्र वर्धते नित्यं सौभाग्यं विविधं मम ।
पुण्यं च वर्धते दिव्यं दिव्यभावप्रदायकम् ।।२३।
सर्वा मम भगिन्यः स्थ ईर्ष्याधर्मो न मेऽस्ति च ।
पूजयन्तु भवत्योऽपि सौभाग्यं लप्स्यथ ध्रुवम् ।।२४।
सत्येनाऽनेन मे गौरी ममाऽभीष्टं प्रयच्छतु ।
प्रयच्छतु भवतीनामभीष्टं सा हरप्रिया ।।२५।
इत्युक्तास्ताः सपत्न्यश्च पुपूजुर्गौरिकां ततः ।
पूजामन्त्रास्तया साध्व्या दत्तास्ताभ्यश्च तत्क्षणे ।।२६।
ये त्वया तु महालक्ष्मि ह्युच्चारिताः पुराऽर्चने ।
नमःपृथिव्यै क्षान्तीशि नम आपोमये शुभे ।। २७.
तेजस्विनि नमस्तुभ्यं नमस्ते वायुरूपिण ।
आकाशरूपसम्पन्ने पञ्चरूपे नमोनमः ।।२८
एभिर्मन्त्रैस्त्वया लक्ष्मि पूजिता पञ्चपिण्डिका ।
तेन वैकुण्ठराज्यं त्वं प्राप्तवती सुदुर्लभम् ।।२९
एवं या पूजयेन्नारी गौरिकां पञ्चपिण्डिकाम् ।
षोडशोपकरणैः सा सद्यः स्यात् पतिवल्लभा ।।1.508.३ ०
शृणु लक्ष्मि! ततश्चामा चिन्तयामास वै हृदि ।
सौभाग्यं परमं लब्धं दुर्लभं सर्वयोषिताम् ।।३१
न चाऽपत्यं मम जातं तेन दह्यामि वै मुहुः ।
अथैवं वर्तमानायां दुर्वासाश्चाययौ द्रुतम् ।।३२
जयसेनो नृपश्चके स्वागतं चासनं ददौ ।
दत्वाऽर्घं मधुपर्कं च ततः पप्रच्छ तं मुनिम् ।। ३३
शिष्यं कृत्वा कृपापात्रं पवित्रीकृतवानसि ।
अद्य धन्यतमो जातः सकुटुम्बस्तवाऽऽगमात् ।। ३४
तद् ब्रूहि किं करोम्यद्य गृहाऽऽयातस्य ते मुने ।
दुर्वासाः प्राह राजँस्ते मन्दिरे संवसन्नहम् ।।३५
चातुर्मास्यविधानं संकरिष्ये सुखपूर्वकम् ।
मृत्तिकाग्रहणं यावच्छुश्रूषा क्रियतां मम ।।३६'
बाढमित्येवमुक्त्वा तच्छुश्रूषा कृतवान्नृपः ।
अमा नित्यं सुसेवायां वर्ततेऽति नृपाज्ञया ।।३७
चातुर्मास्यां व्यतीतायां यदा संप्रस्थितो मुनिः ।
तदा प्रोवाच सन्तुष्टो राजन् किं करवाणि ते ।।३८
राज्ञा स ऋषिराट् प्रोक्तश्चामाऽपत्यं विना मुने ।
दहत्येव सदा तस्मात् कुरु तां पुत्रमातरम् ।। ३९ ।।
मुनिः प्राह शृणु क्ष्मेश त्वयं वै पूर्वजन्मनि ।
मृत्युकाले तप्तवालुकानां गौरीं विधाय ताम् । । 1.508.४० । ।
पूजयामास तेनात्र राज्यं प्राप्तवती सती ।
गौरी यत्तापसंयुक्तवालुकाभिः कृताऽनया ।। ४१ ।।
तत्फलं च विना पुत्रमुद्वेगोऽस्या हि सर्वदा ।
न देवो विद्यते काष्ठे पाषाणे मृत्तिकासु च ।। ४२ । ।
भावे हि विद्यते देवो मन्त्रभक्त्यादिभिर्युते ।
सैषा गौरीं कर्दमेन कृत्वा वै पञ्चपिण्डिकाम् । । ४३ ।।
हाटकेश्वरजे क्षेत्रे गत्वा संपूजयेद् यदि ।
वृषस्थे भास्करे दद्याज्जलधारामखण्डिताम् ।। ४४।।
ततः क्षेत्रबलाच्चापि पुण्योदयो भविष्यति ।
यथा यथा जलाद् गौर्याः शीतभावो भविष्यति ।। ४५। ।
तथा तथाऽस्या दाहोऽपि शान्तिं यास्यत्यहर्निशम् ।
दाहान्ते भविता गर्भस्ततः पुत्रमवाप्स्यति ।। ४६ ।।
अथाऽस्ति च व्रतं पुण्यं गौरीतुष्टिकरं परम् ।
येन चीर्णेन वै नारी देवतात्वमवाप्नुयात् ।। ४७।।
गोमयाख्या महादेवी कर्तव्या गोमयेन वै ।
भाद्रे कृष्णे तृतीयायां प्रातर्दन्तान् विशोधयेत् ।।४८ ।।
उपवासस्य नियमं गृह्णीयाद् गौरिकां स्मरन् ।
निशागमे मृन्मयं वै कार्यं गौरीचतुष्टयम् ।। ४९ ।।
एका गौरी प्रकर्तव्या पञ्चपिण्डा यथोदिता ।
प्रहरे प्रहरे प्राप्ते तासु पूजां समाचरेत् ।। 1.508.५० ।।
हिमाचलगृहे जाता देवि त्वं शंकरप्रिये ।
मेनागर्भसमुद्भूता पूजां गृहाण ते नमः । । ५१ । ।
धूपं कर्पूरकं रक्तवर्तिकं घृतदीपकम् ।
जातीपुष्पाणि नैवेद्यं मोदकानर्घमर्पयेत् ।। ५ २ ।।
मातुलुङ्गकुसुमाढ्यमर्घं गृहाण ते नमः ।
द्वितीये प्रहरान्तेऽर्धनारीश्वरीं प्रपूजयेत्। ।। ५३ ।।
अगुरुचन्दनं धूपं नैवेद्यं गुडमर्घकम् ।
ददेन्नारीकेरयुक्तमर्घं वै मन्त्रतस्तदा ।। ५४। ।
अर्घो मे गृह्यतां देवौ पार्वतीपरमेश्वरौ ।
तृतीये प्रहरे प्राप्ते शतपत्र्या प्रपूजयेत् ।। ५५ ।।
गुग्गुलधूपं नैवेद्यं सजातीसलिलार्घकम् ।
ग्रन्थिचूर्णेन धूपं च स्वर्घं मदनजं फलम् ।। ५६ ।।
दद्यात्पुनस्ततः प्राप्ते चतुर्थे प्रहरे त्वथ ।
गौरीं तां पञ्चपिण्डां वै भृंगराजेन पूजयेत् । । ५७ ।।
पञ्चभूतमयी गौरी गृह्णात्वर्घं मयाऽर्पितम् ।
नैवेद्यं धूपदीपादि पुष्पाञ्जलिं समर्पयेत् ।।५८।।
कुर्यान्नीराजनं स्वेष्टप्रार्थनां जागरं चरेत् ।
नृत्यं वाद्यं कीर्तनं सोत्सवं कुर्यात् प्रयत्नतः ।।५९।।
प्रभाते विप्रयुगलं स्नात्वा प्रपूजयेद् व्रती ।
करेणुं वडवां वाऽऽरोहयेद् गौरीचतुष्टयम् ।।1.508.६०।।
सवाद्योत्सवशब्देन नद्यादौ तां परिक्षिपेत् ।
आहूताऽसि मया देवी पूजिताऽसि मया शुभे ।।६ १।।
मम सौभाग्यदानाय यथेष्टं गम्यतामिति ।
एवं लक्ष्म्या कृता पूर्वं पूजा गौर्या विशेषतः ।।६२।।
भाद्रकृष्णतृतीयायां चतुर्षु प्रहरेषु च ।
प्रातर्गौर्यंस्तया दृष्टा रत्नप्रभाविभूषिताः ।।६ ३।।
ताश्चोचुस्तां महालक्ष्मीं मा नो जले प्रवाहय ।
मन्दिरं कारयित्वाऽत्र हाटकेश्वरक्षेत्रके ।।६४।।
स्थापयाऽस्मान् व्रतार्थं च नारीणां सुखकारिणीः ।
इति ताः स्थापितास्तत्र लक्ष्म्या भाग्यसुतप्रदाः ।।६५ ।।
सेयं राजँस्तव पत्नी गौरीचतुष्टयं तथा ।
गौरीं च गोमयीं चापि पञ्चपिण्डात्मिकां तथा ।।६६ ।।
कृत्वा संपूजयेत् तेन पुत्रसौभाग्यमाप्नुयात् ।
तथा प्राप्येत च कृष्णनारायणः पतिः स्वयम् ।।६७।।
इत्युक्त्वा प्रययौ शीघ्रं दुर्वासाश्चाथ सा सती ।
अमानाम्नी ययौ क्षेत्रं हाटकेश्वरसंज्ञितम् ।।६८।।
कृत्वा सर्वं विधानेन बभूव पुत्रमातृका ।
बहुकालोत्तरे चाऽमा लक्ष्मीरूपा बभूव ह ।।६ ९।।
दिव्यदेहा गता विष्णोर्वैकुण्ठे दासिकाऽभवत् ।
इत्येवं कथितं लक्ष्मि तवाऽमायाश्च तद्व्रतम् ।।1.508.७०।।
या त्वेतत्पठते भक्त्या गौरीपूजाफलं लभेत् ।
न सा लक्ष्म्या वियुज्येत न च दौर्भाग्यमाप्नुयात् ।।७१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने काशीराजपत्न्या अमया कृतं पञ्चपिण्डिकागौरीव्रतं तेन पुत्रसौभाग्यप्राप्तिर्लक्ष्मीत्वप्राप्तिश्चेतिनिरूपणनामाऽष्टाऽधिकपञ्चशततमोऽध्यायः ।। ५०८ ।।