स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १६५
॥ ॥ सूत उवाच ॥ ॥
ततःप्रभृतिपुण्ये च सरस्वत्यास्तटेशुभे ॥
बाह्यानां नागराणां च स्थानं जातं महत्तरम् ॥ १ ॥
पुत्रपौत्रप्रवृद्धानां दौहित्राणां द्विजोत्तमाः ॥
चमत्कारपुरस्याग्रे यज्ज्ञातं विद्यया धनैः ॥ २ ॥
कस्यचित्त्वथ कालस्य विश्वामित्रेण धीमता ॥
शप्ता सरस्वती कोपात्कृता रुधिरवाहिनी ॥ ३ ॥
ततः संसेव्यते हृष्टै राक्षसैः सा दिवानिशम्॥
गीतनृत्यपरैश्चान्यैर्भूतैः प्रेतैः पिशाचकैः ॥ ४ ॥
ततस्ते नागरा बाह्यास्तां त्यक्त्वा दूरतः स्थिताः ॥
कांदिशीकास्ततो याता भक्ष्यमाणास्तु राक्षसैः ॥
नर्मदायास्तटे पुण्ये मार्कण्डाश्रमसंनिधौ ॥ ५ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मात्सरस्वती शप्ता विश्वामित्रेण धीमता॥
महानद्या कोऽपराधस्तया तस्य विनिर्मितः ॥ ६ ॥
॥ सूत उवाच ॥ ॥
आसीत्पुरा महद्वैरं विश्वामित्रवसिष्ठयोः ॥
ब्राह्मण्यस्य कृते विप्राः प्राणान्तकरणं महत् ॥
स सर्वैर्ब्राह्मणैः प्रोक्तो विश्वामित्रो महामुनिः ॥ ७ ॥
क्षत्रियोऽपि पुरस्कृत्य देवदेवं पितामहम् ॥
न चैकेन वसिष्ठेन तेनैतद्वैरमाहितम् ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
क्षत्रियोऽपि कथं विप्रो विश्वा मित्रो महामते ॥
वसिष्ठेन कथं नोक्तो यः प्रोक्तो ब्रह्मणा स्वयम् ॥ ९ ॥
एतन्नः सर्वमाचक्ष्व परं कौतूहलं स्थितम्॥६.१६५.१०॥।
॥ सूत उवाच ॥ ॥
आसीत्पुरा ऋचीकाख्यो भृगुपुत्रो महामुनिः ॥
व्रताध्ययनसंपन्नः सुतपस्वी महायशाः ॥ ११ ॥
तीर्थयात्राप्रसंगेन स कदाचिन्मुनीश्वरः ॥
स्थानं भोजकटं नाम प्राप्तो गाधिमहीपतेः ॥
यत्र सा कौशिकीनाम नदी त्रैलोक्यविश्रुता ॥ १२ ॥
तस्यां स्नात्वा द्विजश्रेष्ठो यावत्तिष्ठति तीरगः ॥
समाधिस्थो जपं कुर्वन्संतर्प्य पितृदेवताः ॥ १३ ॥
तावत्तत्र समायाता राजकन्या सुशोभना ॥
सर्वलक्षणसम्पूर्णा सर्वैरेव गुणैर्युता ॥ ॥ १४ ॥
स तां संवीक्षते यावत्सर्वावयवशोभनाम् ॥
तावत्कामशरैर्व्याप्तः कर्तव्यं नाभ्यविंदत ॥ १५ ॥
ततः पप्रच्छ लोकान्स लब्ध्वा कृच्छ्रेण चेतनाम् ॥
कस्येयं कन्यका साध्वी किमर्थमिह चागता ॥ १६ ॥
क्व यास्यति वरारोहा सर्वं मे कथ्यतां जनाः ॥ १७ ॥
॥ जना ऊचुः ॥ ॥
एषा गाधिसुतानाम ख्याता त्रैलोक्यसुन्दरी ॥
अन्तःपुरात्समायाता गौरीपूजनलालसा ॥ १८ ॥
वांछमाना सुभर्त्तारं सर्वैः समुदितंगुणैः ॥
प्रासादोऽयं स्थितो योऽत्र नदीतीरे बृहत्तरः॥ १९ ॥
उमा संतिष्ठते चात्र सर्वैः संपूजिता सुरैः ॥
एतां च स्नापयित्वेयं पूजयित्वा यथा क्रमम् ॥ ६.१६५.२० ॥
नैवेद्यं विविधं दत्त्वा करिष्यति ततः परम् ॥
वीणाविनोदमात्रं च श्रुतिमार्गसुखावहम् ॥ २१ ॥
ततो यास्यति हर्म्यं स्वं मन्दीभूते च भास्करे ॥
ऋचीकस्तु तदाकर्ण्य लोकानां वचनं च यत् ॥ २२ ॥
ययौ गाधिगृहं शीघ्रं कामबाणप्रपीडितः ॥
तं दृष्ट्वा सहसा प्राप्तमृचीकं भृगु सत्तमम् ॥
संमुखः प्रययौ तूर्णं गाधिः पार्थिवसत्तमः ॥ २३ ॥
गृह्योक्तेन विधानेन कृत्वा चैवार्हणं ततः ॥
कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥ २४ ॥
निःस्पृहस्यापि ते विप्र किमागमनकारणम् ॥
तत्सर्वं मे समाचक्ष्व येन यच्छामि तेऽखिलम् ॥ २५ ॥
॥ ऋचीक उवाच ॥ ॥
तव कन्याऽस्ति विप्रेंद्र वरार्हा वरवर्णिनी ॥
ब्राह्मोक्तेन विवाहेन तां मे देहि महीपते ॥ २६ ॥
एतदर्थमहं प्राप्तो गृहे तव स्मरार्दितः ॥
सा मया वीक्षिता राजन्गौरीपूजार्थमागता ॥ २७ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा भयसंत्रस्तो गाधिः पार्थिवसत्तमः ॥
असवर्णं च तं मत्वा दरिद्रं वृद्धमेवच ॥
अदाने शापभीतस्तु ततो व्याजमुवाच सः ॥ २८ ॥
अस्माकं कन्यकादाने शुल्कमस्ति द्विजोत्तम ॥
तच्चेद्यच्छसि कन्यां तां तुभ्यं दास्याम्यसंशयम् ॥ २९ ॥
॥ ऋचीक उवाच ॥ ॥
ब्रूहि पार्थिवशार्दूल कन्याशुल्कं मम द्रुतम् ॥
येन यच्छामि ते सर्वं यद्यपि स्यात्सुदुर्लभम्॥ ॥ ६.१६५.३० ॥
॥ गाधिरुवाच ॥ ॥
एकतः श्यामकर्णानामश्वानां वातरंहसाम् ॥
शतानि सप्त विप्रेंद्र श्वेतानां चैव सर्वतः ॥ ३१ ॥
य आनीय प्रदद्यान्मे तस्मै कन्यां ददाम्यहम् ॥ ३२ ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय ऋचीको मुनिसत्तमः ॥
कान्यकुब्जं समासाद्य गंगातीरे विवेश ह ॥ ॥ ३३ ॥
अश्वो वोढेति यत्सूक्तं चतुःषष्टिसमुद्भवम् ॥
छंदऋषिदेवतायुक्तं जपं चक्रे ततः परम् ॥ ३४ ॥
विनियोगं वाजिकृतं गाधिना यत्प्रकीर्तितम् ॥
ततस्ते वाजिनस्तस्मान्निष्क्रांताः सलिलाद्द्विजाः ॥ ३५ ॥
सर्वश्वेताः सुवेगाश्च श्यामैकश्रवणास्तथा ॥
शतानि सप्तसंख्यानि तावत्संख्यै र्नरैयुताः ॥ ३६ ॥
ततः प्रभृति विख्यातमश्वतीर्थं धरातले ॥
गंगातीरे शुभे पुण्ये कान्यकुब्जसमीपगम् ॥
यस्मिन्स्नाने कृते मर्त्यो वाजिमेधफलं लभेत् ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽश्वतीर्थोत्पत्तिवर्णनंनाम पंचषष्ट्यधिकशततमोऽध्यायः ॥ १६५ ॥