सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/द्वितीयादशतिः/भ्राजम्

विकिस्रोतः तः
भ्राजम्

अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
पयः सहस्रसामृषिं ॥ ७५५ ॥ ऋ. ९.५४.१
अयं सूर्य इवोपदृगयं सरांसि धावति ।
सप्त प्रवत आ दिवं ॥ ७५६ ॥
अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
सोमो देवो न सूर्यः ॥ ७५७ ॥


८. भ्राजम् ॥ सूर्यः। गायत्री। पवमानस्सोमः॥ .
अस्यप्रत्नामनुद्युतम् ॥ शुक्रंदुदुह्रेअह्रयः ॥ पयस्सहस्रसामृषिम् ॥ श्रीः॥ अयꣲसूर्यइवोपदृक् ।। अयꣲसराꣲसिधावति ॥ सप्तप्रवतादिवम् ॥ श्रीः ॥ अयंविश्वानितिष्ठति ॥ पुनानोभुवनोपरि। सोमादेवोनसूर्यः ।
ए । भ्राज ॥
दी.१९. उत्. ७. मा. ९. थो. ॥४७॥

[सम्पाद्यताम्]

टिप्पणी

द्र. भ्राजाभ्राजे (अग्न आयूंषि इति)(आरण्यकम्)

अस्य प्रत्नाम् अनु द्युतम् इति प्रतिपदं कुर्वीत यस्य पिता वा पितामहो वा श्रेयान् स्याद् अथात्मना पापीयान् इव मन्येत। यैवास्य पित्र्या पैतामही श्रीस् ताम् एवाश्नुते॥ शुक्रं दुदुह्ने अह्रयः इति। यज्ञो वै शुक्रः पशवो ऽह्रयः। यज्ञं चैवैतेन पशूंश् वावरुन्द्ध॥ पयस् सहस्रसाम् ऋषिम् इति। पयस्वान् एव भवत्य् आस्य सहस्रसा वीरो जायते॥जैब्रा १.९३

प्राण एव दिवाकीर्त्यम्। चक्षुषी भ्राजाभ्राजे। श्रोत्रं विकर्णम्। - जैब्रा २.३७

ब्रह्म वा अग्निष्टोमः। ब्रह्म प्रायणीयम् अहः। एषा वै यज्ञस्य मात्रा यद् अग्निष्टोमः। यैव यज्ञस्य मात्रा तयैवैतत् सत्र आक्रमन्ते यादृक् प्रवयणत स्पर्शस् तादृग् उपप्रार्ञ्जनतः। तस्माद् अग्निष्टोमेनैव प्रयन्त्य्, अग्निष्टोमेनोद्यन्ति। मनो वै पूर्वम् अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। प्रत्नं वै बृहद् उप रथन्तरम्। तद् यद् एताः प्रत्नवतीश् चोपवतीश् च भवन्ति बृहद्रथन्तरे एवैतत् सत्राय युज्येते। प्रेति च वा एति च गायत्र्यै रूपम्। तद् यत् प्रेति चेति च भवति गायत्र्या एवैतद् रूपेण प्रयन्ति न वैता भवन्ति न वा हस्यैष युक्त्या ऋचर् चैवाहर् युज्यते यथा नद्धयुगस्य शम्या अवदध्यात् तादृक् तत्। - जैब्रा ३.१२