सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ६/शुक्रियपर्व/भ्राजाभ्राजे(अग्न)

विकिस्रोतः तः
भ्राजाभ्राजे द्वे
भ्राजाभ्राजे द्वे

अग्न आयूंषि पवस आसुवोर्जमिषं च नः ।
आरे बाधस्व दुच्छुनां ॥ ६२७ ॥ ऋ. ९.६६.१९

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।
अपां रेतांसि जिन्वति ॥ २७ ॥ ऋ. ८.४४.१६


( १५२।१ ) ॥ सूर्यस्य भ्राजा भ्राजे द्वे, भ्राजम् । द्वयोः सूर्यो गायत्र्यग्निः ॥
भ्राजा । (द्विः)। भ्राजाऽ३१उ । वाऽ२ । अग्नआयूꣳषिपवसे ॥ आसुवोर्जमिषंचनः।। आरेबाधस्वदुच्छनाम् ।। भ्राजा । (द्विः) । भ्राजाऽ३१उ । वाऽ२ ॥ ए। भ्राज । (द्वेत्रिः)॥
( दी० २१ । प० १७ । मा० ५ )५ खु । २५५)

( १५३।१ ) ॥आभ्राजम्॥
आ। भ्राज।(द्वेत्रिः) । अग्निर्मूर्द्धादिऽ३वाःकाऽ१कूऽ२त् ॥ पतिःपृथीविऽ३याआऽ१याऽ२म् ।। अपाꣳ रेताꣳसिऽ३जाइन्वाऽ१तीऽ२॥ आ। भ्राज । ( द्वेद्विः ) । आ। भ्राजाऽ३उवा ॥ ए । आभ्राज । द्वेत्रिः ॥
(दी० २१ । प० २१ । मा० ५ )६ (कु । २५६ )

[सम्पाद्यताम्]

टिप्पणी

द्र. भ्राजम्(अस्य प्रत्नां इति ) (ऊह्यगानम्)

द्र. आभ्राजम् (परि स्वानो इति) (ऊह्यगानम्)

प्राण एव दिवाकीर्त्यम्। चक्षुषी भ्राजाभ्राजे। श्रोत्रं विकर्णम्। वाग् दशस्तोभम्। त इमे प्राणा मध्यतो हिताः। - जैब्रा २.३७

तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् आत्मन एवैतैस् तमो ऽपघ्नते। भ्राजाभ्राजे पवमानयोर् मुखे भवतः। अङ्गेभ्य एवास्य तत् तमो ऽपघ्नन्ति। महादिवाकीर्त्यं पृष्ठं, विकर्णं ब्रह्मसाम। मध्यत एवास्य तत् तमो ऽपघ्नन्ति। दशस्तोभं भासम् अग्निष्टोमसाम। शीर्षत एवास्य तत् तमो ऽपघ्नन्ति। - जैब्रा २.३९०

आर्षेयम्