ऋग्वेदः सूक्तं ८.१३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.१२ ऋग्वेदः - मण्डल ८
सूक्तं ८.१३
नारदः काण्वः।
सूक्तं ८.१४ →
दे. इन्द्रः। उष्णिक्।


इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम् ।
विदे वृधस्य दक्षसो महान्हि षः ॥१॥
स प्रथमे व्योमनि देवानां सदने वृधः ।
सुपारः सुश्रवस्तमः समप्सुजित् ॥२॥
तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम् ।
भवा नः सुम्ने अन्तमः सखा वृधे ॥३॥
इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः ।
मन्दानो अस्य बर्हिषो वि राजसि ॥४॥
नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे ।
रयिं नश्चित्रमा भरा स्वर्विदम् ॥५॥
स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः ।
वया इवानु रोहते जुषन्त यत् ॥६॥
प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवम् ।
मदेमदे ववक्षिथा सुकृत्वने ॥७॥
क्रीळन्त्यस्य सूनृता आपो न प्रवता यतीः ।
अया धिया य उच्यते पतिर्दिवः ॥८॥
उतो पतिर्य उच्यते कृष्टीनामेक इद्वशी ।
नमोवृधैरवस्युभिः सुते रण ॥९॥
स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा ।
गन्तारा दाशुषो गृहं नमस्विनः ॥१०॥
तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः ।
आ याहि यज्ञमाशुभिः शमिद्धि ते ॥११॥
इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय ।
श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥१२॥
हवे त्वा सूर उदिते हवे मध्यंदिने दिवः ।
जुषाण इन्द्र सप्तिभिर्न आ गहि ॥१३॥
आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः ।
तन्तुं तनुष्व पूर्व्यं यथा विदे ॥१४॥
यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
यद्वा समुद्रे अन्धसोऽवितेदसि ॥१५॥
इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः ।
इन्द्रे हविष्मतीर्विशो अराणिषुः ॥१६॥
तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः ।
इन्द्रं क्षोणीरवर्धयन्वया इव ॥१७॥
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
तमिद्वर्धन्तु नो गिरः सदावृधम् ॥१८॥
स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे ।
शुचिः पावक उच्यते सो अद्भुतः ॥१९॥
तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु ।
मनो यत्रा वि तद्दधुर्विचेतसः ॥२०॥
यदि मे सख्यमावर इमस्य पाह्यन्धसः ।
येन विश्वा अति द्विषो अतारिम ॥२१॥
कदा त इन्द्र गिर्वण स्तोता भवाति शंतमः ।
कदा नो गव्ये अश्व्ये वसौ दधः ॥२२॥
उत ते सुष्टुता हरी वृषणा वहतो रथम् ।
अजुर्यस्य मदिन्तमं यमीमहे ॥२३॥
तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः ।
नि बर्हिषि प्रिये सददध द्विता ॥२४॥
वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः ।
धुक्षस्व पिप्युषीमिषमवा च नः ॥२५॥
इन्द्र त्वमवितेदसीत्था स्तुवतो अद्रिवः ।
ऋतादियर्मि ते धियं मनोयुजम् ॥२६॥
इह त्या सधमाद्या युजानः सोमपीतये ।
हरी इन्द्र प्रतद्वसू अभि स्वर ॥२७॥
अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् ।
उतो मरुत्वतीर्विशो अभि प्रयः ॥२८॥
इमा अस्य प्रतूर्तयः पदं जुषन्त यद्दिवि ।
नाभा यज्ञस्य सं दधुर्यथा विदे ॥२९॥
अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे ।
मिमीते यज्ञमानुषग्विचक्ष्य ॥३०॥
वृषायमिन्द्र ते रथ उतो ते वृषणा हरी ।
वृषा त्वं शतक्रतो वृषा हवः ॥३१॥
वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
वृषा यज्ञो यमिन्वसि वृषा हवः ॥३२॥
वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः ।
वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥३३॥


सायणभाष्यम्

तृतीयेऽनुवाकेऽष्ट सूक्तानि । तत्र “इन्द्रः सुतेषु' इति त्रयस्त्रिशदृचं प्रथमं सूक्तं काण्वस्य नारदस्यार्षमौष्णिहमैन्द्रम् । तथा चानुक्रान्तम् - ‘इन्द्रः सुतेषु नारदः' इति । महाव्रते निष्केवल्ये औष्णिहतृचाशीतौ पूर्वसूक्तेन सहोक्तो विनियोगः । तृतीये पर्यायेऽच्छावाकशस्त्र • इन्द्रः सुतेषु' इति तृचः स्तोत्रियः । सूत्र्यते हि -- इन्द्रः सुतेषु सोमेषु य इन्द्र सोमपातमः' (आश्व. श्रौ. ६. ४) इति ॥


इन्द्र॑ः सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म् ।

वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥१

इन्द्रः॑ । सु॒तेषु॑ । सोमे॑षु । क्रतु॑म् । पु॒नी॒ते॒ । उ॒क्थ्य॑म् ।

वि॒दे । वृ॒धस्य॑ । दक्ष॑सः । म॒हान् । हि । सः ॥१

इन्द्रः । सुतेषु । सोमेषु । क्रतुम् । पुनीते । उक्थ्यम् ।

विदे । वृधस्य । दक्षसः । महान् । हि । सः ॥१

“सोमेषु “सुतेषु अभिषुतेषु सत्सु "इन्द्रः तान् पीत्वा “क्रतुं कर्मणां कर्तारम् “उक्थ्यं स्तोतारं च “पुनीते शोधयति । यद्वा । सोमेष्वभिषुतेषूक्थ्याख्यं क्रतुं यागं तैः सोमैः पुनीते यजमानैः पूतं कारयति । किमर्थम् । “वृधस्य वर्धकस्य “दक्षसः बलस्य “विदे लाभाय । “सः तादृश इन्द्रः "महान् “हि महान् खलु । अत एवं कर्तुं शक्नोतीति भावः ॥


स प्र॑थ॒मे व्यो॑मनि दे॒वानां॒ सद॑ने वृ॒धः ।

सु॒पा॒रः सु॒श्रव॑स्तम॒ः सम॑प्सु॒जित् ॥२

सः । प्र॒थ॒मे । विऽओ॑मनि । दे॒वाना॑म् । सद॑ने । वृ॒धः ।

सु॒ऽपा॒रः । सु॒श्रवः॑ऽतमः । सम् । अ॒प्सु॒ऽजित् ॥२

सः । प्रथमे । विऽओमनि । देवानाम् । सदने । वृधः ।

सुऽपारः । सुश्रवःऽतमः । सम् । अप्सुऽजित् ॥२

“सः इन्द्रः “प्रथमे प्रथिते विस्तीर्णे मुख्ये वा “व्योमनि विशेषेण रक्षके “देवानां “सदने । सीदत्यस्मिन्निति सदनं स्थानं स्वर्गाख्यम् । तत्र स्थितः सन् “वृधः यजमानानां वर्धयिता भवति । तथा "सुपारः सुष्ठु पारयिता प्रारब्धस्य सम्यक्परिसमापयिता “सुश्रवस्तमः । अतिशयेन शोभनं श्रवोऽन्नं यशो वा यस्य स तथोक्तः। “सं सम्यक् "अप्सुजित् अप्सूदकेषु प्राप्येषु सत्सु तद्विघातिनो वृत्रादेर्जेता। यद्वा । आप इत्यन्तरिक्षनाम । अन्तरिक्षे वर्तमानानामसुराणां जेता । तमह्व इत्युत्तरत्र संबन्धः ॥


तम॑ह्वे॒ वाज॑सातय॒ इन्द्रं॒ भरा॑य शु॒ष्मिण॑म् ।

भवा॑ नः सु॒म्ने अन्त॑म॒ः सखा॑ वृ॒धे ॥३

तम् । अ॒ह्वे॒ । वाज॑ऽसातये । इन्द्र॑म् । भरा॑य । शु॒ष्मिण॑म् ।

भव॑ । नः॒ । सु॒म्ने । अन्त॑मः । सखा॑ । वृ॒धे ॥३

तम् । अह्वे । वाजऽसातये । इन्द्रम् । भराय । शुष्मिणम् ।

भव । नः । सुम्ने । अन्तमः । सखा । वृधे ॥३

"तं पूर्वोक्तगुणं "शुष्मिणं बलवन्तम् “इन्द्रं “वाजसातये बलानामन्नानां वा सातिर्लाभो यस्मिन् तादृशाय “भराय संग्रामाय । यद्वा । भ्रियन्ते तस्मिन् हवींषीति भरो यज्ञः । प्रायेण संग्रामनामानि यज्ञनामत्वेन च दृश्यन्ते । भराय यज्ञार्थम् अह्वे आह्वये। ‘लिपिसिचिह्वश्च' ‘ आत्मनेपदेष्वन्यतरस्याम्' इति ह्वयतेश्छान्दसे लुडि च्लेरादेशः । हे इन्द्र त्वं “सुम्ने सुखे धने वा लिप्सिते सति “नः अस्माकम् “अन्तमः अन्तिकतमः संनिकृष्टतमः “भव। ‘तमे तादेश्च' इत्यन्तिकशब्दस्य तादिलोपः । तथा “वृधे वर्धनार्थं च “सखा समानख्यानो मित्रभूतो भव ।।


इ॒यं त॑ इन्द्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः ।

म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥४

इ॒यम् । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । रा॒तिः । क्ष॒र॒ति॒ । सु॒न्व॒तः ।

म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥४

इयम् । ते । इन्द्र । गिर्वणः । रातिः । क्षरति । सुन्वतः ।

मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥४

हे "गिर्वणः गीर्भिः स्तुतिभिर्वननीय संभजनीय “इन्द्र “ते तुभ्यं त्वदर्थम् “इयं पुरोवर्तिनी “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य संबन्धिनी “रातिः ऋत्विग्भिर्दीयमाना सोमाहुतिः “क्षरति आहवनीयं प्रति गच्छति । त्वं च तया “मन्दानः मन्दमानो मोदमानस्तृप्यन् “अस्य “बर्हिषः यज्ञस्य “वि “राजसि विशेषेणेशिषे । राजतिरैश्वर्यकर्मा ।।


नू॒नं तदि॑न्द्र दद्धि नो॒ यत्त्वा॑ सु॒न्वन्त॒ ईम॑हे ।

र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विद॑म् ॥५

नू॒नम् । तत् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ । यत् । त्वा॒ । सु॒न्वन्तः॑ । ईम॑हे ।

र॒यिम् । नः॒ । चि॒त्रम् । आ । भ॒र॒ । स्वः॒ऽविद॑म् ॥५

नूनम् । तत् । इन्द्र । दद्धि । नः । यत् । त्वा । सुन्वन्तः । ईमहे ।

रयिम् । नः । चित्रम् । आ । भर । स्वःऽविदम् ॥५

हे “इन्द्र "नूनम् अवश्यं “तत् धनं “नः अस्मभ्यं “दद्धि ददस्व । ‘दद दाने'। व्यत्ययेन परस्मैपदम्। छान्दसः शपो लुक् । “यत् धनं “त्वा त्वां "सुन्वन्तः सोममभिषुण्वन्तो वयम् “ईमहे याचामहे । अपि च “चित्रं चायनीयं “स्वर्विदं सर्वस्य लम्भकं यद्वा स्वर्गस्य वेदितारमास्तिकं “रयिं पुत्रं "नः अस्मभ्यम् “आ “भर आहर ॥ ॥ ७ ॥


स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिर॑ः ।

व॒या इ॒वानु॑ रोहते जु॒षन्त॒ यत् ॥६

स्तो॒ता । यत् । ते॒ । विऽच॑र्षणिः । अ॒ति॒ऽप्र॒श॒र्धय॑त् । गिरः॑ ।

व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ । जु॒षन्त॑ । यत् ॥६

स्तोता । यत् । ते । विऽचर्षणिः । अतिऽप्रशर्धयत् । गिरः ।

वयाःऽइव । अनु । रोहते । जुषन्त । यत् ॥६

हे इन्द्र “विचर्षणिः विशेषेण द्रष्टा “स्तोता “ते तुभ्यं त्वदर्थं “गिरः स्तुतीः “यत् यदा “अतिप्रशर्धयत् अतिशयेन प्रशर्धयित्रीरकरोत् । शत्रूणां प्रसहनसमर्थाः। ‘ शृधु प्रसहने । “यत् यदा च ता गिरः “जुषन्त त्वामसेवन्त अप्रीणयन् वा तदा “वयाइव शाखा इव यथैकस्मिन् वृक्षे बह्व्यः शाखा उपरि प्ररोहन्ति तथा “अनु “रोहते स्तुत्या सर्वे गुणास्त्वयि प्ररोहन्ति ।


प्र॒त्न॒वज्ज॑नया॒ गिर॑ः शृणु॒धी ज॑रि॒तुर्हव॑म् ।

मदे॑मदे ववक्षिथा सु॒कृत्व॑ने ॥७

प्र॒त्न॒ऽवत् । ज॒न॒य॒ । गिरः॑ । शृ॒णु॒धि । ज॒रि॒तुः । हव॑म् ।

मदे॑ऽमदे । व॒व॒क्षि॒थ॒ । सु॒ऽकृत्व॑ने ॥७

प्रत्नऽवत् । जनय । गिरः । शृणुधि । जरितुः । हवम् ।

मदेऽमदे । ववक्षिथ । सुऽकृत्वने ॥७

हे इन्द्र “प्रत्नवत् पुरा यथा स्तोतृभ्योऽपेक्षितफलप्रदानेन स्तुतीर्जनयसि एवमिदानीमपि “गिरः स्तुतीः “जनय उत्पादय । “जरितुः स्तोतुः “हवम् आह्वानं च “शृणुधि शृणु। जानीहि। तादृशस्त्वं “मदेमदे सोमेन तर्पणे तर्पणे सति “सुकृत्वने शोभनकर्त्रे यजमानाय “ववक्षिथ अपेक्षितं फलं वहसि ददासीत्यर्थः ।।


क्रीळ॑न्त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः ।

अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ॥८

क्रीळ॑न्ति । अ॒स्य॒ । सू॒नृताः॑ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।

अ॒या । धि॒या । यः । उ॒च्यते॑ । पतिः॑ । दि॒वः ॥८

क्रीळन्ति । अस्य । सूनृताः । आपः । न । प्रऽवता । यतीः ।

अया । धिया । यः । उच्यते । पतिः । दिवः ॥८

"अस्य इन्द्रस्य “सूनृताः प्रियसत्यात्मिका वाचः “क्रीळन्ति विहरन्ति । तत्र दृष्टान्तः । “प्रवता प्रवणेन मार्गेण “यतीः गच्छन्त्यः “आपो “न आप इव । यथा निम्नोन्नतेन पथा गच्छन्त्य आप उत्पतननिपतनेन विहरन्ति तद्वत् । "दिवः स्वर्गस्य “पतिः पालयिता “यः इन्द्रः "अया अनया “धिया स्तुत्या "उच्यते प्रतिपाद्यते अस्येन्द्रस्येत्यन्वयः ॥


उ॒तो पति॒र्य उ॒च्यते॑ कृष्टी॒नामेक॒ इद्व॒शी ।

न॒मो॒वृ॒धैर॑व॒स्युभि॑ः सु॒ते र॑ण ॥९

उ॒तो इति॑ । पतिः॑ । यः । उ॒च्यते॑ । कृ॒ष्टी॒नाम् । एकः॑ । इत् । व॒शी ।

न॒मः॒ऽवृ॒धैः । अ॒व॒स्युऽभिः॑ । सु॒ते । र॒ण॒ ॥९

उतो इति । पतिः । यः । उच्यते । कृष्टीनाम् । एकः । इत् । वशी ।

नमःऽवृधैः । अवस्युऽभिः । सुते । रण ॥९

“उतो अपि च “वशी वशयिता “एक “इत् एक एव “कृष्टीनां मनुष्याणां “पतिः पालयितेति “यः इन्द्रः “उच्यते । कैः । “नमोवृधैः नमसा स्तोत्रेण हविषा वा वर्धयितृभिः “अवस्युभिः रक्षणेच्छुभिः । स त्वं पूर्वोते "सुते अभिषुते सोमे “रण रमस्व । यद्वा । हे स्तोतः तमिन्द्रं सुते सोमे स्तुहि । रणतिः शब्दार्थः ॥


स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा॑ ।

गन्ता॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विन॑ः ॥१०

स्तु॒हि । श्रु॒तम् । वि॒पः॒ऽचित॑म् । हरी॒ इति॑ । यस्य॑ । प्र॒ऽस॒क्षिणा॑ ।

गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् । न॒म॒स्विनः॑ ॥१०

स्तुहि । श्रुतम् । विपःऽचितम् । हरी इति । यस्य । प्रऽसक्षिणा ।

गन्तारा । दाशुषः । गृहम् । नमस्विनः ॥१०

हे स्तोतः “विपश्चितं विशिष्टज्ञानं “श्रुतं विश्रुतं प्रख्यातं तमिन्द्रं “स्तुहि प्रशंस । “यस्य इन्द्रस्य “हरी अश्वौ “प्रसक्षिणा शत्रूणां प्रसहनशीलौ “नमस्विनः हविष्मतः “दाशुषः दत्तवतो यजमानस्य "गृहं “गन्तारा गमनशीलौ च तमिन्द्रं स्तुहीति संबन्धः । गमेस्ताच्छीलिकस्तृन् ।।


तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः ।

आ या॑हि य॒ज्ञमा॒शुभि॒ः शमिद्धि ते॑ ॥११

तू॒तु॒जा॒नः । म॒हे॒ऽम॒ते॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।

आ । या॒हि॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । शम् । इत् । हि । ते॒ ॥११

तूतुजानः । महेऽमते । अश्वेभिः । प्रुषितप्सुऽभिः ।

आ । याहि । यज्ञम् । आशुऽभिः । शम् । इत् । हि । ते ॥११

हे “महेमते । महते फलाय मतिर्बुद्धिर्यस्यासौ महेमतिः । अलुक् छान्दसः । स तादृश हे इन्द्र “तूतुजानः त्वरमाणः सन् “प्रुषितप्सुभिः स्निग्धरूपैः “आशुभिः शीघ्रगामिभिः “अश्वेभिः अश्वैः “यज्ञम् अस्मदीयम् “आ “याहि आगच्छ। “हि यस्मात् “ते तव तस्मिन् यज्ञे “शमित् सुखं विद्यत एव । अत आगच्छेत्यर्थः ।।


इन्द्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय ।

श्रव॑ः सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नम् ॥१२

इन्द्र॑ । श॒वि॒ष्ठ॒ । स॒त्ऽप॒ते॒ । र॒यिम् । गृ॒णत्ऽसु॑ । धा॒र॒य॒ ।

श्रवः॑ । सू॒रिऽभ्यः॑ । अ॒मृत॑म् । व॒सु॒ऽत्व॒नम् ॥१२

इन्द्र । शविष्ठ । सत्ऽपते । रयिम् । गृणत्ऽसु । धारय ।

श्रवः । सूरिऽभ्यः । अमृतम् । वसुऽत्वनम् ॥१२

हे शविष्ठ बलवत्तम “सत्पते सतां पालयितः “इन्द्र “गृणत्सु अस्मासु “रयिं धनं “धारय अवस्थापय । अपि च "सूरिभ्यः स्तोतृभ्यः “अमृतम् अनश्वरं “वसुत्वनं व्याप्तिमत् “श्रवः अन्नं यशो वा देहीति शेषः ।।


हवे॑ त्वा॒ सूर॒ उदि॑ते॒ हवे॑ म॒ध्यंदि॑ने दि॒वः ।

जु॒षा॒ण इ॑न्द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ॥१३

हवे॑ । त्वा॒ । सूरे॑ । उत्ऽइ॑ते । हवे॑ । म॒ध्यन्दि॑ने । दि॒वः ।

जु॒षा॒णः । इ॒न्द्र॒ । सप्ति॑ऽभिः । नः॒ । आ । ग॒हि॒ ॥१३

हवे । त्वा । सूरे । उत्ऽइते । हवे । मध्यन्दिने । दिवः ।

जुषाणः । इन्द्र । सप्तिऽभिः । नः । आ । गहि ॥१३

हे "इन्द्र “सूरे सूर्ये "उदिते उदयं प्राप्ते सति प्रातःसवने त्वां “हवे आह्वये। तथा “दिवः दिवसस्य “मध्यंदिने मध्यभागे माध्यंदिनसवने त्वां “हवे आह्वये । हे इन्द्र स त्वं “जुषाणः प्रीयमाणः सन् “सप्तिभिः सर्पणशीलैरश्वैः “नः अस्मान् "आ “गहि आगच्छ ।


आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः ।

तन्तुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे ॥१४

आ । तु । ग॒हि॒ । प्र । तु । द्र॒व॒ । मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ।

तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । यथा॑ । वि॒दे ॥१४

आ । तु । गहि । प्र । तु । द्रव । मत्स्व । सुतस्य । गोऽमतः ।

तन्तुम् । तनुष्व । पूर्व्यम् । यथा । विदे ॥१४

हे इन्द्र “तु क्षिप्रम् “आ “गहि आगच्छ । आगत्य च "तु क्षिप्रं “प्र “द्रव । सोमो यत्र निवसति तं देशं प्रति शीघ्रं गच्छ । गत्वा च "गोमतः गोविकारैः पयःप्रभृतिभिः श्रयणद्रव्यैर्युक्तस्य “सुतस्य अभिषुतस्य सोमस्य पानेन “मत्स्व माद्य हृष्टो भव। तदनन्तरं “यथा अहं “विदे उपलभे तथा “पूर्व्यं पूर्वैः कृतं “तन्तुं विस्तृतं यज्ञं “तनुष्व सम्यङ्निष्पादय । फलोत्पादनसमर्थं कुर्वित्यर्थः ॥


यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।

यद्वा॑ समु॒द्रे अन्ध॑सोऽवि॒तेद॑सि ॥१५

यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् ।

यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः । अ॒वि॒ता । इत् । अ॒सि॒ ॥१५

यत् । शक्र । असि । पराऽवति । यत् । अर्वाऽवति । वृत्रऽहन् ।

यत् । वा । समुद्रे । अन्धसः । अविता । इत् । असि ॥१५

हे “शक्र शक्तेन्द्र “परावति दूरदेशे “यत् यदि “असि भवसि । हे “वृत्रहन् “यत् यदि वा “अर्वावति समीपे भवसि वर्तसे। “यद्वा यदि वा “समुद्रे जलधावन्तरिक्षे वा वर्तसे । तस्मात् सर्वस्मात् स्थानादागत्य “अन्धसः अन्नस्य सोमलक्षणस्य पानेन “अवितेदसि रक्षितैव भवसि ॥ ॥९॥


इन्द्रं॑ वर्धन्तु नो॒ गिर॒ इन्द्रं॑ सु॒तास॒ इन्द॑वः ।

इन्द्रे॑ ह॒विष्म॑ती॒र्विशो॑ अराणिषुः ॥१६

इन्द्र॑म् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । इन्द्र॑म् । सु॒तासः॑ । इन्द॑वः ।

इन्द्रे॑ । ह॒विष्म॑तीः । विशः॑ । अ॒रा॒णि॒षुः॒ ॥१६

इन्द्रम् । वर्धन्तु । नः । गिरः । इन्द्रम् । सुतासः । इन्दवः ।

इन्द्रे । हविष्मतीः । विशः । अराणिषुः ॥१६

“नः अस्माकं “गिरः स्तुतिरूपा वाचः “इन्द्रं “वर्धन्तु वर्धयन्तु । "सुतासः अभिषुताः “इन्दवः सोमाश्चास्मदीयाः तम् “इन्द्रं वर्धयन्तु । "हविष्मतीः हविष्मत्यो हविर्भिश्चरुपुरोडाशादिभिर्युक्ताः “विशः प्रजास्तस्मिन् "इन्द्रे “अराणिषुः अरंसिषुः ।।


तमिद्विप्रा॑ अव॒स्यव॑ः प्र॒वत्व॑तीभिरू॒तिभि॑ः ।

इन्द्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व ॥१७

तम् । इत् । विप्राः॑ । अ॒व॒स्यवः॑ । प्र॒वत्व॑तीभिः । ऊ॒तिऽभिः॑ ।

इन्द्र॑म् । क्षो॒णीः । अ॒व॒र्ध॒य॒न् । व॒याःऽइ॑व ॥१७

तम् । इत् । विप्राः । अवस्यवः । प्रवत्वतीभिः । ऊतिऽभिः ।

इन्द्रम् । क्षोणीः । अवर्धयन् । वयाःऽइव ॥१७

“विप्राः मेधाविनः “अवस्यवः रक्षणकामाः स्तोतारः “तमित् तमेव “इन्द्रं “प्रवत्वतीभिः प्रकर्षेणाभिगन्त्रीभिः “ऊतिभिः तृप्तिकरीभिराहुतिभिः स्तुतिभिर्वा वर्धयन्ति । तथा “क्षोणीः क्षोण्यः । क्षोणीति पृथिवीनाम । तदुपलक्षिताः सर्वे लोकाः “वयाइव वृक्षस्य शाखा इव तदधीनाः सन्तः “अवर्धयन् वर्धयन्ति ।।


त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।

तमिद्व॑र्धन्तु नो॒ गिर॑ः स॒दावृ॑धम् ॥१८

त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ ।

तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । स॒दाऽवृ॑धम् ॥१८

त्रिऽकद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत ।

तम् । इत् । वर्धन्तु । नः । गिरः । सदाऽवृधम् ॥१८

“त्रिकद्रुकेषु । त्रिकद्रुका नाम ज्योतिर्गौरायुरिति त्रीण्याभिप्लविकान्यहानि । तेषु “देवासः देवाः “चेतनं चेतयितारमिन्द्रं “यज्ञं यष्टव्यम् “अत्नत अतन्वत अकृषत । तनोतेर्लङि छान्दसो विकरणस्य लुक् । ‘तनिपत्योश्छन्दसि' इत्युपधालोपः । “तमित् तमेवेन्द्रं “नः अस्माकं “गिरः स्तुतयश्च वर्धयन्तु । कीदृशम् । “सदावृधं सर्वदा स्तोतॄणां वर्धयितारम् ॥


स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे ।

शुचि॑ः पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥१९

स्तो॒ता । यत् । ते॒ । अनु॑ऽव्रतः । उ॒क्थानि॑ । ऋ॒तु॒ऽथा । द॒धे ।

शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सः । अद्भु॑तः ॥१९

स्तोता । यत् । ते । अनुऽव्रतः । उक्थानि । ऋतुऽथा । दधे ।

शुचिः । पावकः । उच्यते । सः । अद्भुतः ॥१९

हे इन्द्र “यत् यस्य “ते तव “स्तोता “अनुव्रतः अनुकूलकर्मा सन् “ऋतुथा ऋतुषु काले काले “उक्थानि शस्त्रादि “दधे विधत्ते करोति । ' लोपस्त आत्मनेपदेषु ' इति तलोपः । परोऽर्धर्चः परोक्षकृतः । “सः इन्द्रः “अद्भुतः आश्चर्यभूतः “शुचिः शुद्धः “पावकः अन्येषामपि शोधकः “उच्यते स्तोतृभिः स्तूयते ।।


तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु ।

मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः ॥२०

तत् । इत् । रु॒द्रस्य॑ । चे॒त॒ति॒ । य॒ह्वम् । प्र॒त्नेषु॑ । धाम॑ऽसु ।

मनः॑ । यत्र॑ । वि । तत् । द॒धुः । विऽचे॑तसः ॥२०

तत् । इत् । रुद्रस्य । चेतति । यह्वम् । प्रत्नेषु । धामऽसु ।

मनः । यत्र । वि । तत् । दधुः । विऽचेतसः ॥२०

तदित् तदेव "रुद्रस्य । रुत् दुःखम् । तस्य द्रावयितुरीश्वरस्य "यह्वम् अपत्यं मरुसंघात्मकम् । यद्वा । रुद्रशब्देन लक्षणया मरुद्गण उच्यते । रुद्रस्य रुद्रपुत्रस्य मरुद्गणस्य यह्वम् । महन्नामैतत् । महत् तदेव बलं “प्रत्नेषु चिरंतनेषु “धामसु पृथिव्यादिस्थानेषु “चेतति ज्ञायते वर्तते । “यत्र यस्मिन् बलविषये “विचेतसः विशिष्टज्ञानाः स्तोतारः “तत् प्रसिद्धं “मनः मननसाधनं स्तोत्रं “वि “दधुः कुर्वन्ति तदित्यन्वयः ॥ ॥ १० ॥


यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः ।

येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥२१

यदि॑ । मे॒ । स॒ख्यम् । आ॒ऽवरः॑ । इ॒मस्य॑ । पा॒हि॒ । अन्ध॑सः ।

येन॑ । विश्वाः॑ । अति॑ । द्विषः॑ । अता॑रिम ॥२१

यदि । मे । सख्यम् । आऽवरः । इमस्य । पाहि । अन्धसः ।

येन । विश्वाः । अति । द्विषः । अतारिम ॥२१

हे इन्द्र मम “सख्यं सखित्वं “यदि “आवरः यद्याभिमुख्येन वृणुयास्तर्हि "इमस्य अस्य । हलि लोपाभावछान्दसः । पुरोवर्तिनः “अन्धसः अन्नस्य सोमलक्षणस्य स्वांशं “पाहि पिब । अन्धस इति कर्मणि वा षष्ठी। पिबतेश्छान्दसः शपो लुक् । “येन त्वत्पीतेन सोमेन हेतुना वयं “विश्वाः सर्वाः “द्विषः द्वेष्ट्रीः शत्रुसेनाः "अति “अतारिम अतितरेम अतिक्रामेम ॥


क॒दा त॑ इन्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः ।

क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥२२

क॒दा । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । स्तो॒ता । भ॒वा॒ति॒ । शम्ऽत॑मः ।

क॒दा । नः॒ । गव्ये॑ । अश्व्ये॑ । वसौ॑ । द॒धः॒ ॥२२

कदा । ते । इन्द्र । गिर्वणः । स्तोता । भवाति । शम्ऽतमः ।

कदा । नः । गव्ये । अश्व्ये । वसौ । दधः ॥२२

हे “गिर्वणः गिरां स्तुतीनां संभक्तः “इन्द्र “ते तव “स्तोता "शंतमः सुखतमोऽतिशयेन सुखवान् “कदा कस्मिन् काले “भवाति भवेत्। "कदा कस्मिंश्च काले "नः अस्मान् “गब्ये गोसमूहे “अश्व्ये अश्वसंघे “वसौ निवासभूतेऽन्यस्मिन्नपि धने “दधः धारयेः ॥


उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ॑म् ।

अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे ॥२३

उ॒त । ते॒ । सुऽस्तु॑ता । हरी॒ इति॑ । वृष॑णा । व॒ह॒तः॒ । रथ॑म् ।

अ॒जु॒र्यस्य॑ । म॒दिन्ऽत॑मम् । यम् । ईम॑हे ॥२३

उत । ते । सुऽस्तुता । हरी इति । वृषणा । वहतः । रथम् ।

अजुर्यस्य । मदिन्ऽतमम् । यम् । ईमहे ॥२३

“उत अपि च हे इन्द्र “सुष्टुता शोभनं स्तुतौ वृषणौ कामानां वर्षितारौ "हरी अश्वौ “अजुर्यस्य जरारहितस्य “ते तव “रथम् इदानीं “वहतः अस्मन्निकटं प्रापयतः । “मदिन्तमम् अतिशयेन मदवन्तं “यं त्वां धनम् “ईमहे याचामहे तस्य त इत्यन्वयः ॥


तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभि॑ः ।

नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥२४

तम् । ई॒म॒हे॒ । पु॒रु॒ऽस्तु॒तम् । य॒ह्वम् । प्र॒त्नाभिः॑ । ऊ॒तिऽभिः॑ ।

नि । ब॒र्हिषि॑ । प्रि॒ये । स॒द॒त् । अध॑ । द्वि॒ता ॥२४

तम् । ईमहे । पुरुऽस्तुतम् । यह्वम् । प्रत्नाभिः । ऊतिऽभिः ।

नि । बर्हिषि । प्रिये । सदत् । अध । द्विता ॥२४

“यह्वं महान्तं “पुरुस्तुतं बहुभिः स्तुतं “तम् इन्द्रं “प्रत्नाभिः पुराणीभिः “ऊतिभिः तृप्तिकरीभिः सोमाहुतिभिर्हेतुभिः “ईमहे याचामहे । स चेन्द्रः “प्रिये प्रीतिकरे “बर्हिषि आस्तीर्णे दर्भे “नि “षदत् निषीदतु हविःस्वीकरणायोपविशतु । “अध अनन्तरं “द्विता द्वैधं वर्तमानानि चरुपुरोडाशादीनि सोमलक्षणानि च हवींषि स्वीकरोत्विति शेषः । बर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः । धुक्षस्व पिप्युषीमिषमव च नः ॥२५॥


वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभि॑ः ।

धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥२५

वर्ध॑स्व । सु । पु॒रु॒ऽस्तु॒त॒ । ऋषि॑ऽस्तुताभिः । ऊ॒तिऽभिः॑ ।

धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् । अव॑ । च॒ । नः॒ ॥२५

वर्धस्व । सु । पुरुऽस्तुत । ऋषिऽस्तुताभिः । ऊतिऽभिः ।

धुक्षस्व । पिप्युषीम् । इषम् । अव । च । नः ॥२५

हे “पुरुष्टुत बहुभिः स्तुतेन्द्र “ऋषिष्टुताभिः ऋषिभिः मन्त्रदर्शिभिः पुरा स्तुताभिः “ऊतिभिः रक्षाभिः “सु सुष्ठु “वर्धस्व अस्मान् वर्धय । यद्वा । ऋषिभिरुत्पादिताभिरूतिभिः स्तुतिभिस्त्वं वर्धस्व वृद्धिं प्राप्नुहि । “नः अस्मभ्यं “च “पिप्युषीं प्रवृद्धाम् “इषम् इष्यमाणमन्नम् “अव “धुक्षस्व अवाङ्मुखमस्मदभिमुखं धुक्षस्व क्षारय । देहीत्यर्थः ॥ ॥ ११ ॥


इन्द्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः ।

ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युज॑म् ॥२६

इन्द्र॑ । त्वम् । अ॒वि॒ता । इत् । अ॒सि॒ । इ॒त्था । स्तु॒व॒तः । अ॒द्रि॒ऽवः॒ ।

ऋ॒तात् । इ॒य॒र्मि॒ । ते॒ । धिय॑म् । म॒नः॒ऽयुज॑म् ॥२६

इन्द्र । त्वम् । अविता । इत् । असि । इत्था । स्तुवतः । अद्रिऽवः ।

ऋतात् । इयर्मि । ते । धियम् । मनःऽयुजम् ॥२६

हे "अद्रिवः वज्रवन् “इन्द्र “त्वम् “इत्था इत्थमनेन प्रकारेण "स्तुवतः स्तोत्रं कुर्वतो यजमानस्य “अवितेदसि रक्षितैव भवसि । यत एवमतः कारणादहमपि “ऋतात् यज्ञाद्धेतो: “मनोयुजं मनसा मननीयेन स्तोत्रेण प्राप्यां “ते त्वदीयां “धियम् अनुग्रहबुद्धिम् “इयर्मि प्राप्नोमि । यद्वा। ऋतात् सत्यभूतात्त्वतः स्तोत्रेण युक्तं त्वत्प्रीतिकरं कर्माहं प्राप्नोमि ।


इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये ।

हरी॑ इन्द्र प्र॒तद्व॑सू अ॒भि स्व॑र ॥२७

इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । यु॒जा॒नः । सोम॑ऽपीतये ।

हरी॒ इति॑ । इ॒न्द्र॒ । प्र॒तद्व॑सू॒ इति॑ प्र॒तत्ऽव॑सू । अ॒भि । स्व॒र॒ ॥२७

इह । त्या । सधऽमाद्या । युजानः । सोमऽपीतये ।

हरी इति । इन्द्र । प्रतद्वसू इति प्रतत्ऽवसू । अभि । स्वर ॥२७

हे 'इन्द्र "इह अस्मिन् यागे "सोमपीतये सोमपानाय “अभि "स्वर अभिगच्छ। किं कुर्वन् । “त्या त्यौ तौ प्रसिदौ “सधमाद्या त्वया सह हविर्भिर्मादयितव्यौ तर्पयितव्यौ “प्रतद्वसू प्रततवसू विस्तीर्णधनौ ईदृशौ “हरी त्वदीयावश्वौ "युजानः रथेन संयोजयन् ॥


अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रास॑ः सक्षत॒ श्रिय॑म् ।

उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रय॑ः ॥२८

अ॒भि । स्व॒र॒न्तु॒ । ये । तव॑ । रु॒द्रासः॑ । स॒क्ष॒त॒ । श्रिय॑म् ।

उ॒तो इति॑ । म॒रुत्व॑तीः । विशः॑ । अ॒भि । प्रयः॑ ॥२८

अभि । स्वरन्तु । ये । तव । रुद्रासः । सक्षत । श्रियम् ।

उतो इति । मरुत्वतीः । विशः । अभि । प्रयः ॥२८

“अभि “स्वरन्तु अभिगच्छन्तु ते हे इन्द्र “तव अनुचराः "रुद्रासः रुद्रपुत्राः "ये मरुतः सन्ति । अपि च ते “श्रियं श्रयणीयमिमं यज्ञं “सक्षत सचन्तु प्राप्नुवन्तु । “उतो अपि च “मरुत्वतीः मरुद्भिर्युक्ताः "विशः अन्या अपि दैवीः प्रजाः “प्रयः । अन्ननामैतत् । अस्मदीयं हविर्लक्षणमन्नमभिगच्छन्तु ॥


इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षन्त॒ यद्दि॒वि ।

नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे ॥२९

इ॒माः । अ॒स्य॒ । प्रऽतू॑र्तयः । प॒दम् । जु॒ष॒न्त॒ । यत् । दि॒वि ।

नाभा॑ । य॒ज्ञस्य॑ । सम् । द॒धुः॒ । यथा॑ । वि॒दे ॥२९

इमाः । अस्य । प्रऽतूर्तयः । पदम् । जुषन्त । यत् । दिवि ।

नाभा । यज्ञस्य । सम् । दधुः । यथा । विदे ॥२९

“अस्य इन्द्रस्य संबन्धिन्यः “इमाः पूर्वोक्ता मरुदादिरूपाः प्रजाः “प्रतूर्तयः प्रकर्षेण शत्रूणां हिंसित्र्यः सत्यः “पदं स्थानं “जुषन्त असेवन्त । “दिवि द्युलोके “यत् स्थानमन्यैर्दुष्प्रापमस्ति तत्पदमित्यर्थः। अपि च ताः “यज्ञस्य ज्योतिष्टोमादेः “नाभा नाभौ नाभिस्थानीये हविर्धान उत्तरवेद्यां वा “सं “दधुः संनिदधते । “यथा येन प्रकारेण “विदे विन्दे अपेक्षितं धनं लभे तथेत्यर्थः । यद्वा । विदे ज्ञानाय यथास्माकं दक्षावरं ज्ञानं भवति तथेत्यर्थः ॥


अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे ।

मिमी॑ते य॒ज्ञमा॑नु॒षग्वि॒चक्ष्य॑ ॥३०

अ॒यम् । दी॒र्घाय॑ । चक्ष॑से । प्राचि॑ । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

मिमी॑ते । य॒ज्ञम् । आ॒नु॒षक् । वि॒ऽचक्ष्य॑ ॥३०

अयम् । दीर्घाय । चक्षसे । प्राचि । प्रऽयति । अध्वरे ।

मिमीते । यज्ञम् । आनुषक् । विऽचक्ष्य ॥३०

"प्राचि प्राचीने प्रागायते यज्ञगृहे “अध्वरे हिंसारहिते यज्ञे “प्रयति गच्छति प्रवर्तमाने सति “अयम् इन्द्रः प्रवर्तमानं तं “यज्ञमानुषक् अनुषक्तमानुपूर्व्येण “विचक्ष्य विशेषेण दृष्ट्वा “मिमीते निष्पादयति । किमर्थम् । “दीर्घाय आयताय "चक्षसे दर्शनाय । यद्वा । द्रष्टव्याय फलाय ॥ ॥१२॥


वृषा॒यमि॑न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ ।

वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हव॑ः ॥३१

वृषा॑ । अ॒यम् । इ॒न्द्र॒ । ते॒ । रथः॑ । उ॒तो इति॑ । ते॒ । वृष॑णा । हरी॒ इति॑ ।

वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वृषा॑ । हवः॑ ॥३१

वृषा । अयम् । इन्द्र । ते । रथः । उतो इति । ते । वृषणा । हरी इति ।

वृषा । त्वम् । शतक्रतो इति शतऽक्रतो । वृषा । हवः ॥३१

हे “इन्द्र “ते त्वदीयः "अयं “रथः “वृषा कामानां वर्षिता । "उतो अपि च “ते तव “हरी अश्वौ "वृषणा वृषणौ वर्षितारौ। हे "शतक्रतो बहुकर्मन् बहुप्रज्ञ वेन्द्र “त्वं च "वृषा वर्षिता कामानाम् । तथा “हवः त्वद्विषयमाह्वानं च "वृषा वर्षिता । त्वद्विषयमाह्वानमपि कामान् वर्षति । किमु वक्तव्यं त्वदीया रथादयो वर्षन्तीति भावः ।।


वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।

वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हव॑ः ॥३२

वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः ।

वृषा॑ । य॒ज्ञः । यम् । इन्व॑सि । वृषा॑ । हवः॑ ॥३२

वृषा । ग्रावा । वृषा । मदः । वृषा । सोमः । अयम् । सुतः ।

वृषा । यज्ञः । यम् । इन्वसि । वृषा । हवः ॥३२

"ग्रावा अभिषवसाधनपाषाणः “वृषा वर्षिता कामानाम् । हे इन्द्र त्वदीयः सोमपानजन्यः “मदः च “वृषा वर्षिता । “सुतः त्वदर्थमभिषुतः "अयं “सोमः च “वृषा वर्षिता । “यं यज्ञम् “इन्वसि त्वं प्राप्नोषि स च "यज्ञः “वृषा अभीष्टस्य फलस्य वर्षिता । त्वदीयः "हवः च “वृषा ।।


वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑ः ।

वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हव॑ः ॥३३

वृषा॑ । त्वा॒ । वृष॑णम् । हु॒वे॒ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।

व॒वन्थ॑ । हि । प्रति॑ऽस्तुतिम् । वृषा॑ । हवः॑ ॥३३

वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिऽभिः ।

ववन्थ । हि । प्रतिऽस्तुतिम् । वृषा । हवः ॥३३

हे "वज्रिन् वज्रवन्निन्द्र “वृषणं वृषाणं वर्षितारं त्वां “वृषा वर्षिता हविषामासेक्ताहं “चित्राभिः चायनीयाभिर्नानाविधाभिर्वा “ऊतिभिः तृप्तिकरीभिः स्तुतिभिः “हुवे आह्वये। “हि यस्मात्त्वं “प्रतिष्टुतिं त्वामभिलक्ष्य कृतं स्तोत्रं “ववन्थ वनसि संभजसि अतस्त्वदीयः “हवः आह्वानं “वृषा वर्षिता । यद्वा । हवो ह्वातव्यो वृषा वर्षिता त्वं यस्मात् स्तुतिं वनसि तस्मात्त्वां हुव इत्यर्थः ॥ ॥१३॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१३&oldid=190827" इत्यस्माद् पुनः प्राप्तिः