ऋग्वेदः सूक्तं ८.८१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.८० ऋग्वेदः - मण्डल ८
सूक्तं ८.८१
कुसीदी काण्वः।
सूक्तं ८.८२ →
दे. इन्द्रः । गायत्री ।


आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
महाहस्ती दक्षिणेन ॥१॥
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् ।
तुविमात्रमवोभिः ॥२॥
नहि त्वा शूर देवा न मर्तासो दित्सन्तम् ।
भीमं न गां वारयन्ते ॥३॥
एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम् ।
न राधसा मर्धिषन्नः ॥४॥
प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम् ।
अभि राधसा जुगुरत् ॥५॥
आ नो भर दक्षिणेनाभि सव्येन प्र मृश ।
इन्द्र मा नो वसोर्निर्भाक् ॥६॥
उप क्रमस्वा भर धृषता धृष्णो जनानाम् ।
अदाशूष्टरस्य वेदः ॥७॥
इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः ।
अस्माभिः सु तं सनुहि ॥८॥
सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः ।
वशैश्च मक्षू जरन्ते ॥९॥


सायणभाष्यम्

नवमेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘आ तू न इन्द्र' इति नवर्चं प्रथमं सूक्तं कण्वपुत्रस्य कुसीदिन आर्षं गायत्रमैन्द्रम् । तथा चानुक्रम्यते--- आ तू नो नव कुसीदी काण्वः' इति । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतदादिके द्वे सूक्ते । तथैव पञ्चमारण्यके सूत्रितं च शौनकेन - ‘आ तू न इन्द्र क्षुमन्तमिति सूक्ते सूददोहाः' (ऐ. आ. ५. २. ३) इति । द्वितीये पर्याये मैत्रावणशस्त्र आद्यस्तृचः स्तोत्रियः । सूत्रितं च--- आ तू न इन्द्र क्षुमन्तमा प्र द्रव परावतः ' ( आश्व. श्रौ. ६. ४ ) इति ।


आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।

म॒हा॒ह॒स्ती दक्षि॑णेन ॥१

आ । तु । नः॒ । इ॒न्द्र॒ । क्षु॒ऽमन्त॑म् । चि॒त्रम् । ग्रा॒भम् । सम् । गृ॒भा॒य॒ ।

म॒हा॒ऽह॒स्ती । दक्षि॑णेन ॥१

आ । तु । नः । इन्द्र । क्षुऽमन्तम् । चित्रम् । ग्राभम् । सम् । गृभाय ।

महाऽहस्ती । दक्षिणेन ॥१

हे “इन्द्र “महाहस्ती महाहस्तवान् त्वं “तु तदानीमेव “नः अस्मभ्यं दातुं “क्षुमन्तं शब्दवन्तम् । स्तुत्यमित्यर्थः । “चित्रं चायनीयं “ग्राभं ग्राहकं ग्रहणार्हं वा धनं “दक्षिणेन हस्तेन “आ “सं “गृभाय आभिमुख्येन संगृहाण ॥


वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् ।

तु॒वि॒मा॒त्रमवो॑भिः ॥२

वि॒द्म । हि । त्वा॒ । तु॒वि॒ऽकू॒र्मिम् । तु॒विऽदे॑ष्णम् । तु॒विऽम॑घम् ।

तु॒वि॒ऽमा॒त्रम् । अवः॑ऽभिः ॥२

विद्म । हि । त्वा । तुविऽकूर्मिम् । तुविऽदेष्णम् । तुविऽमघम् ।

तुविऽमात्रम् । अवःऽभिः ॥२

हे इन्द्र “त्वा त्वां “विद्म “हि जानीमः खलु । कीदृशमिति । "तुविकूर्मिं बहुकर्माणं तुविदेष्णं बहुप्रदेयं "तुविमघं बहुधनं "तुविमात्रं बहुप्रमाणम् "अवोभिः युक्तम् ।।


न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् ।

भी॒मं न गां वा॒रय॑न्ते ॥३

न॒हि । त्वा॒ । शू॒र॒ । दे॒वाः । न । मर्ता॑सः । दित्स॑न्तम् ।

भी॒मम् । न । गाम् । वा॒रय॑न्ते ॥३

नहि । त्वा । शूर । देवाः । न । मर्तासः । दित्सन्तम् ।

भीमम् । न । गाम् । वारयन्ते ॥३

हे “शूर इन्द्र “त्वा त्वां “दित्सन्तं दातुमिच्छन्तं “देवाः “नहि “वारयन्ते न निवारयन्ति । तथा “मर्तासः मर्त्या अपि “न वारयन्ते । “भीमं “न “गां भयजनकं वृषभं यवसे प्रवृत्तमिव । तं यथा वारयितुं न शक्नुवन्ति तद्वत् ॥


प्रथमे पर्यायेऽच्छावाकशस्त्रे ‘एतो न्विन्द्रम्' इति तृचः । तथा च सूत्रितम् - ‘एतो न्विन्द्रं स्तवामेशानं मा नो अस्मिन्मघवन्' (आश्व. श्रौ. ६. ४) इति ।

एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्व॑ः स्व॒राज॑म् ।

न राध॑सा मर्धिषन्नः ॥४

आ । इ॒त॒ । ऊं॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । ईशा॑नम् । वस्वः॑ । स्व॒ऽराज॑म् ।

न । राध॑सा । म॒र्धि॒ष॒त् । नः॒ ॥४

आ । इत । ऊं इति । नु । इन्द्रम् । स्तवाम । ईशानम् । वस्वः । स्वऽराजम् ।

न । राधसा । मर्धिषत् । नः ॥४

हे अस्मदीया जनाः “एतो आगच्छतैव “नु क्षिप्रम्। किं कर्तुम् । “स्तवाम “इन्द्रम् । कीदृशं तम् । “वस्वः वसुनः धनस्य “ईशानं स्वामिनं "स्वराजं स्वयमेव राजमानं स्वर्गे राजमानं वा । “नः अस्मान् इन्द्रेणानुगृहीतान् “राधसा धनेनान्यो धनी “न “मर्धिषत् न बाधताम् । आढ्यानामस्मत्समानानामप्याढ्यत्वाय स्तवामेत्यर्थः ॥


प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नम् ।

अ॒भि राध॑सा जुगुरत् ॥५

प्र । स्तो॒ष॒त् । उप॑ । गा॒सि॒ष॒त् । श्रव॑त् । साम॑ । गी॒यमा॑नम् ।

अ॒भि । राध॑सा । जु॒गु॒र॒त् ॥५

प्र । स्तोषत् । उप । गासिषत् । श्रवत् । साम । गीयमानम् ।

अभि । राधसा । जुगुरत् ॥५

पूर्वमन्त्रे स्तवामेत्युक्तम् । तदेव स्तोत्रमिन्द्रः “प्र “स्तोषत् । प्रस्तुत्वा च “गासिषत् उपगानं च करोतु । तदर्थं “गीयमानं “साम स्तोत्रं “श्रवत् शृणोतु । “राधसा धनेन च युक्तोऽस्मान “अभि "जुगुरत् अभिगृणातु स्वीकुर्विति ॥ ॥ ३७ ॥ (ग-पुस्तकेऽस्य मन्त्रस्य भाष्यमेवं विद्यते-सोता इन्द्रं प्रस्तोतु। उपगासिषदुपगानं च करोतु । गीयमानं साम श्रवत् शृणोतु । राधसा धनेन प्रसाधनेन वा युक्तोऽस्मानभिजुगुरदभिगृणातु स्वीकुर्विति ।)


आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।

इन्द्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥६

आ । नः॒ । भ॒र॒ । दक्षि॑णेन । अ॒भि । स॒व्येन॑ । प्र । मृ॒श॒ ।

इन्द्र॑ । मा । नः॒ । वसोः॑ । निः । भा॒क् ॥६

आ । नः । भर । दक्षिणेन । अभि । सव्येन । प्र । मृश ।

इन्द्र । मा । नः । वसोः । निः । भाक् ॥६

हे “इन्द्र “नः अस्मभ्यम् “आ “भर । आहृत्य “दक्षिणेन “सव्येन च हस्तेनोभाभ्यां हस्ताभ्याम् “अभि “प्र “मृश । प्रयच्छेत्यर्थः। “नः अस्मान् “वसोः धनात् “मा “निर्भाक् मा निर्भाक्षीः ॥


द्वितीये पर्यायेऽच्छावाकशस्त्रे ‘उप क्रमस्व' इति तृचः । सूत्रितं च--- उप क्रमस्वा भर धृषता तदस्मै नव्यम्' (आश्व. श्रौ. ६. ४) इति ॥ उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् ।

अदा॑शूष्टरस्य॒ वेद॑ः ॥७

उप॑ । क्र॒म॒स्व॒ । आ । भ॒र॒ । धृ॒ष॒ता । धृ॒ष्णो॒ इति॑ । जना॑नाम् ।

अदा॑शूःऽतरस्य । वेदः॑ ॥७

उप । क्रमस्व । आ । भर । धृषता । धृष्णो इति । जनानाम् ।

अदाशूःऽतरस्य । वेदः ॥७

हे इन्द्र त्वम् "उप “क्रमस्व धनं प्रत्युपगच्छ । प्रवृत्तो भव वा दातुम् । हे “धृष्णो धर्षक शत्रूणां “धृषता धृष्टेन चेतसा युक्तः सन् “आ “भर आहर च । कस्य धनमाहरेति उच्यते । “जनानां मध्ये “अदाशूष्टरस्य अत्यन्तमदातृतमस्य “वेदः धनम् ॥


इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भि॒ः सनि॑त्वः ।

अ॒स्माभि॒ः सु तं स॑नुहि ॥८

इन्द्र॑ । यः । ऊं॒ इति॑ । नु । ते॒ । अस्ति॑ । वाजः॑ । विप्रे॑भिः । सनि॑त्वः ।

अ॒स्माभिः॑ । सु । तम् । स॒नु॒हि॒ ॥८

इन्द्र । यः । ऊं इति । नु । ते । अस्ति । वाजः । विप्रेभिः । सनित्वः ।

अस्माभिः । सु । तम् । सनुहि ॥८

हे "इन्द्र “यः “वाजः अन्नं “विप्रेभिः मेधाविभिः “सनित्वः संभजनीयः “ते तव "अस्ति “तं वाजम् “अस्माभिः याचितः सन् अस्मभ्यं वा “सु सुष्ठु “सनुहि देहि ॥


स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः ।

वशै॑श्च म॒क्षू ज॑रन्ते ॥९

स॒द्यः॒ऽजुवः॑ । ते॒ । वाजाः॑ । अ॒स्मभ्य॑म् । वि॒श्वऽच॑न्द्राः ।

वशैः॑ । च॒ । म॒क्षु । ज॒र॒न्ते॒ ॥९

सद्यःऽजुवः । ते । वाजाः । अस्मभ्यम् । विश्वऽचन्द्राः ।

वशैः । च । मक्षु । जरन्ते ॥९

हे इन्द्र “ते तव "वाजाः “अस्मभ्यं “सद्योजुवः शीघ्रं गन्तारो भवन्तु । कीदृशास्ते । “विश्वचन्द्राः सर्वहिरण्योपेता बहूनामाह्लादका वा । अस्मदीयाश्च जनाः “वशैः कामैरनेकैर्युक्ताः “मक्षु शीघ्रं “जरन्ते स्तुवन्ति ॥ ॥ ३८ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥


इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये षष्ठाष्टके पञ्चमोऽध्यायः ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८१&oldid=193137" इत्यस्माद् पुनः प्राप्तिः