सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/१६७

विकिस्रोतः तः
१६७
१६७



आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
महाहस्ती दक्षिणेन ॥ १६७ ॥ ऋ. ८.८१.१

(१६७।१) ।। गौरीविते द्वे । द्वयोर्गौरीवितिर्गायत्रीन्द्रः ।।
आतूनआ ।। द्रक्षुमाऽ२३न्ताम् । चाइत्रंग्राभाऽ२३ꣳहाइ । संगॄ२भाया । महाहस्तोऽ२३४हाइ । दक्षाऽ२इणाइना ।। महाऽ२३ ।। हाऽ२स्ताऽ२३४औहोवा ।। दक्षिणेऽ३नाऽ२४५ ।।
( दी० ६ । प० ९ । मा० ८ )१६ (घै । २९७)

(१६७।२)
आतूनइन्द्रक्षुमान्ताम्।। चित्राऽ२०ग्राऽ२३४भाम्। संगृभाऽ२३४या । माऽ३हाऽ३ ।। हाऽ२स्तस्ताऽ२३४औहोवा ।। दक्षिणेनाऽ२३४५ ।।
( दी० ५ । प० ६ । मा० ४) १७ (पी । २९८)

( १६७।३) ।। आपालवैणवे, वेणवे वा आपाले वा आकूपारे पारववे वा द्वे । द्वयोराकूपारो गायत्रीन्द्रः ।।
आतूनइ। द्रक्षुमाऽ६न्ताम्। चित्रंग्राभꣳसंगृभाऽ२या । चित्रंग्राभꣳसम् । गॄऽ । औऽ३होइ । भाऽ२३४या।। ऐहोइ। । महाहस्तीदक्षाऽ२३होइ ।। औहो । वाहोऽ२३४वा । णाऽ५इनोऽ६हाइ ।।
( दी० ९ । प० १२ । मा० ८) १८ ( थै । २९९)

(१६७।४)
आतूनइन्द्रक्षुमाऽ६न्ताम् ।। चित्रंग्राभꣳसंगृभाया । चित्रंग्राभꣳसम् । गॄऽ२३ । ईऽ३४हा । भाऽ२३४या ।। ऐहोइ । महाहस्तीदक्षाऽ२३होइ ।। औहो । वाहोऽ२३४वा ।
णाऽ५इनोऽ६हाइ ।।
( दी० १० । प० ११ । मा० ७)१९ ( पे । ३००)


टिप्पणी

आ तू न इन्द्र क्षुमन्तम् इति वैणवम्। वेणुर् वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रहमवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्र्यो मुख्यो ब्रह्मवर्चसी भवति य एवं वेद। यद् वेणुर् वैश्वामित्रो ऽपश्यत् तस्माद् वैणवम् इत्य् आख्यायते॥ तद् व् एवाचक्षत आपालम् इति। अपाला ह वा आत्रेयी तिलका वा रुछ्वसाप्यास। सा कामयताप पापं वर्णं हनीयेति। सैतत् सामापश्यत् तेनास्तुत.. जै.ब्रा. १.२२०

  • आ तू न इन्द्र क्षुमन्तमित्याकूपारम् (मैत्रावरुण साम)। अकूपाराङ्गिरसस्यासीत् तस्या यथा गोधायास्त्वगेवं त्वगासीत् तामेतेन त्रिःसाम्नेन्द्रः पूत्वा सूर्यत्वचसमकरोत् तद्वाव सा तर्ह्यकामयत यत्कामा एतेन साम्ना स्तुवते स एभ्यः कामः समृध्यते – तां.ब्रा. 9.2.13

आकूपारम् (आतूनइन्द्र) (ऊहगानम्)

अकूपार उपरि टिप्पणी

कूर्मोपरि पौराणिकसंदर्भाः

कूर्म उपरि टिप्पणी

हस्तिनः ग्राहरूपम्