ऋग्वेदः सूक्तं ८.८४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.८३ ऋग्वेदः - मण्डल ८
सूक्तं ८.८४
उशना काव्यः।
सूक्तं ८.८५ →
दे. अग्निः। गायत्री।


प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् ।
अग्निं रथं न वेद्यम् ॥१॥
कविमिव प्रचेतसं यं देवासो अध द्विता ।
नि मर्त्येष्वादधुः ॥२॥
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः ।
रक्षा तोकमुत त्मना ॥३॥
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् ।
वराय देव मन्यवे ॥४॥
दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
कदु वोच इदं नमः ॥५॥
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।
वाजद्रविणसो गिरः ॥६॥
कस्य नूनं परीणसो धियो जिन्वसि दम्पते ।
गोषाता यस्य ते गिरः ॥७॥
तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु ।
स्वेषु क्षयेषु वाजिनम् ॥८॥
क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः ।
अग्ने सुवीर एधते ॥९॥

सायणभाष्यम्

‘प्रेष्ठं वः' इति नवर्चं चतुर्थं सूक्तं कवेः पुत्रस्योशनस आर्षं गायत्रमाग्नेयम् । तथानुक्रम्यते’ प्रेष्ठमुशना काव्य आग्नेयम्' इति । प्रातरनुवाक आग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च--- युवा हि प्रेष्ठं वः' ( आश्व. श्रौ. ४. १३ ) इति । आभिप्लविकेषूक्थ्येषु मैत्रावरुणे ‘ प्रेष्ठं वः' इति तृचो वैकल्पिकः स्तोत्रियः । सूत्रितं च--’ प्रेष्ठं वो अतिथिं श्रेष्ठं यविष्ठ भारत' (आश्व. श्रौ. ७. ८) इति ॥


प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यं ।

अ॒ग्निं रथं॒ न वेद्यं॑ ॥१

प्रेष्ठ॑म् । वः॒ । अति॑थिम् । स्तु॒षे । मि॒त्रम्ऽइ॑व । प्रि॒यम् ।

अ॒ग्निम् । रथ॑म् । न । वेद्य॑म् ॥१

प्रेष्ठम् । वः । अतिथिम् । स्तुषे । मित्रम्ऽइव । प्रियम् ।

अग्निम् । रथम् । न । वेद्यम् ॥१

हे यजमानाः "प्रेष्ठं युष्माकं धनदानेन प्रियतमम् "अतिथिं युप्माभिरतिथिवत्पूज्यम् । यद्वा । ‘ अत सातत्यगमने '। 'ऋतन्यञ्जि°' इत्यादिना अतेरिथिन् । सततं देवानां हविः प्रदातुं गच्छन्तम् । “मित्रमिव सखायमिव “प्रियं स्तोतुः प्रीणनकरं रथं "न रथमिव “वेद्यम् । वेदो धनम् । धनहितं लाभहेतुम् । यथा रथी रथेन धनं लभते तद्वत्स्तोतारोऽनेन धनं लभन्ते । तादृशं धनलाभकारणम् "अग्निं “वः युष्मत्कर्मसिद्ध्यर्थं "स्तुषे काव्य उशनाः स्तौमि ॥ ।


क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता ।

नि मर्त्ये॑ष्वाद॒धुः ॥२

क॒विम्ऽइ॑व । प्रऽचे॑तसम् । यम् । दे॒वासः॑ । अध॑ । द्वि॒ता ।

नि । मर्त्ये॑षु । आ॒ऽद॒धुः ॥२

कविम्ऽइव । प्रऽचेतसम् । यम् । देवासः । अध । द्विता ।

नि । मर्त्येषु । आऽदधुः ॥२

"अध अपि च "देवासः देवा इन्द्रादयः "यम् अग्निं "मर्त्येषु मनुष्येषु "द्विता द्विधा "नि “आदधुः गार्हपत्याहवनीयात्मकत्वेन द्विधा निहितवन्तः । तत्र दृष्टान्तः। "कविमिव "प्रचेतसम् । प्रकृष्टज्ञानं कविं क्रान्तकर्माणं पुरुषं यथा द्विधा कार्यद्वयेऽन्यो नियोजयति तद्वत् । यद्वा । दिवि पृथिव्यां च निहितवन्तः । भूमौ तु हविराहरणार्थं दिवि तु हविष्प्रदानार्थमिति द्वैधं विधानं कृतवन्त इत्यर्थः ॥


त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिरः॑ ।

रक्षा॑ तो॒कमु॒त त्मना॑ ॥३

त्वम् । य॒वि॒ष्ठ॒ । दा॒शुषः॑ । नॄन् । पा॒हि॒ । शृ॒णु॒धि । गिरः॑ ।

रक्ष॑ । तो॒कम् । उ॒त । त्मना॑ ॥३

त्वम् । यविष्ठ । दाशुषः । नॄन् । पाहि । शृणुधि । गिरः ।

रक्ष । तोकम् । उत । त्मना ॥३

हे "यविष्ठ युवतम । यद्वा । यौतेस्तृजन्तस्येष्टनि रूपम् । देवानां हविषां मिश्रयितृतमाग्ने “त्वं “दाशुषः हविर्दत्तवतः "नॄन् कर्मणां नेतॄन् यजमानान् "पाहि धनादिदानेन रक्ष । नॄँः पाहीत्यत्र संहितायां नॄन्पे' (पा. सू. ८. ३. १० ) इति नकारस्य रुत्वम् । अत्रानुनासिकः' ( पा. सू. ८. ३. २ ) इति पूर्वस्यानुनासिकः । किंच "गिरः त्वद्विषयाः स्तुतीः "शृणुधि अवहितः सञ्छृणु । ‘श्रु श्रवणे'। ‘श्रुशृणुपॄ' इत्यादिना हेर्ध्यादेशः । "उत अपि च “त्मना आत्मनैव स्वयमेव “तोकम् अस्मदीयं तनयं पुत्रं "रक्ष पालय । त्मनेति सर्वत्र संबध्यते । आत्मना स्वयमेव रक्ष । त्वदन्यं पालयितारं न विन्दामः । त्वमेवास्मदीयं स्तोत्रं शृणु ॥


कया॑ ते अग्ने अंगिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिं ।

वरा॑य देव म॒न्यवे॑ ॥४

कया॑ । ते॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । ऊर्जः॑ । न॒पा॒त् । उप॑ऽस्तुतिम् ।

वरा॑य । दे॒व॒ । म॒न्यवे॑ ॥४

कया । ते । अग्ने । अङ्गिरः । ऊर्जः । नपात् । उपऽस्तुतिम् ।

वराय । देव । मन्यवे ॥४

हे "अङ्गिरः अङ्गिरसां वरिष्ठ । यद्वा । अङ्गति सर्वत्र गच्छतीत्यङ्गिराः । तादृश हे “ऊर्जो “नपात् । नपादित्यपत्यनाम । अन्नस्य पुत्र । हविर्भिर्वर्धमानत्वात् । यद्वा । नपादिति नप्ता । हविर्लक्षणस्यान्नस्य नप्तः । ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः' इति । वृष्टेरोषधय ओषधीभ्योऽग्निरित्यन्नस्य नप्ता । हे “देव द्योतमान "अग्ने “वराय सर्वैर्वरणीयाय “मन्यवे शत्रूनतिमन्यमानाय "ते तुभ्यं “कया कीदृश्या वाचा “उपस्तुतिम् उपस्तोत्रमहं भरेयम् । त्वं महान् खल्वहमल्पः । तदर्थं स्तुतिं कुर्यामित्यृषिरग्निं प्रति वदति ॥ ।


दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो ।

कदु॑ वोच इ॒दं नमः॑ ॥५

दाशे॑म । कस्य॑ । मन॑सा । य॒ज्ञस्य॑ । स॒ह॒सः॒ । य॒हो॒ इति॑ ।

कत् । ऊं॒ इति॑ । वो॒चे॒ । इ॒दम् । नमः॑ ॥५

दाशेम । कस्य । मनसा । यज्ञस्य । सहसः । यहो इति ।

कत् । ऊं इति । वोचे । इदम् । नमः ॥५

ऋषिरग्निं प्रति ब्रूते । हे सहसो "यहो । यहुरित्यपत्यनाम । बलेन निष्पाद्यमानत्वाद्बलस्य पुत्र हे अग्ने "कस्य कीदृशस्य "यज्ञस्य यज्ञवतो यजनीयदेववतो यजमानस्य “मनसा युक्ताः सन्तो हवींषि तुभ्यं वयं "दाशेम प्रयच्छेम । पूजायां बहुवचनम् । किंच तुभ्यम् "इदं "नमः हविर्नमस्कारं वा “कत् कदा “वोचे अहं वदामि । “उ इति प्रश्ने । ऋषिः कदा यक्ष्यामि कदा स्तोष्यामीत्यग्निं पृच्छति । वोचे । वच्यादेशस्य लुङ्यात्मनेपद उत्तमैकवचने रूपम् ॥ ॥ ५ ॥


अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः ।

वाज॑द्रविणसो॒ गिरः॑ ॥६

अध॑ । त्वम् । हि । नः॒ । करः॑ । विश्वाः॑ । अ॒स्मभ्य॑म् । सु॒ऽक्षि॒तीः ।

वाज॑ऽद्रविणसः । गिरः॑ ॥६

अध । त्वम् । हि । नः । करः । विश्वाः । अस्मभ्यम् । सुऽक्षितीः ।

वाजऽद्रविणसः । गिरः ॥६

हे अग्ने "अध अनन्तरं “त्वम् । हिरवधारणे । त्वमेव "अस्मभ्यं "करः कुरु । देहीत्यर्थः । करोतेः । लेट्यडागमः । किमित्यपेक्षायामाह । "नः अस्मदीयाः “गिरः त्वद्विषयाः “विश्वाः सर्वाः स्तुतीरेवं कुरु यथा सुक्षितीः । क्षियन्ति निवसन्त्यत्रेति क्षितयो गृहाः। शोभननिवासाः । यद्वा । क्षितयो मनुष्याः । कल्याणपुत्रपौत्रादियुक्ताः । तथा “वाजद्रविणसः अन्नयुक्तधनवतीः । अथवा वाजो दीप्तिः। सर्वतो दीप्तधनाश्च कुरु । त्वमस्माभिः स्तुतः सन् गृहपुत्रान्नधनादीनि देहीत्यर्थः ॥


कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दंपते ।

गोषा॑ता॒ यस्य॑ ते॒ गिरः॑ ॥७

कस्य॑ । नू॒नम् । परी॑णसः । धियः॑ । जि॒न्व॒सि॒ । द॒म्ऽप॒ते॒ ।

गोऽसा॑ता । यस्य॑ । ते॒ । गिरः॑ ॥७

कस्य । नूनम् । परीणसः । धियः । जिन्वसि । दम्ऽपते ।

गोऽसाता । यस्य । ते । गिरः ॥७

हे "दंपते यदा गार्हपत्ये वर्तसे तदा जायापतिस्वरूपोऽसि । तस्माद्दंपतिशब्देनाग्निरभिधीयते । तथाविध हे अग्ने "नूनम् इदानीं "कस्य कीदृशस्य जनस्य “परीणसः बहूनि “धियः कर्माणि “जिन्वसि प्रीणयसि । "यस्य “ते तव संबन्धिन्यः “गिरः स्तुतयः "गोसाता गोसातौ गवां लाभे भवन्ति खलु । तस्मात्त्वं कुत्र तिष्ठसि । अस्माकमिदानीं गवेच्छा प्रवर्तते । यद्वा । हे अग्ने त्वमिदानीं कस्य कर्माणि प्रीणयसि । न कस्यापीत्यर्थः । अस्माकमेव कर्माणि प्रीणयेति भावः ॥


अग्निमन्थने ' तं मर्जयन्त सुक्रतुम्' इत्येषा । सूत्रितं च -- तं मर्जयन्त सुक्रतुं यज्ञेन यज्ञमयजन्त देवाः' (आश्व. श्रौ. २. १६ ) इति । ।

तं म॑र्जयंत सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ ।

स्वेषु॒ क्षये॑षु वा॒जिनं॑ ॥८

तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽक्रतु॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ ।

स्वेषु॑ । क्षये॑षु । वा॒जिन॑म् ॥८

तम् । मर्जयन्त । सुऽक्रतुम् । पुरःऽयावानम् । आजिषु ।

स्वेषु । क्षयेषु । वाजिनम् ॥८

“सुक्रतुं शोभनप्रज्ञं सुकर्माणं वा "आजिषु संग्रामेषु “पुरोयावानं शत्रुहननार्थं पुरत एव गन्तारं “वाजिनं बलवन्तं तादृशमग्निं यजमानाः "स्वेषु आत्मीयेषु "क्षयेषु गृहेषु “मर्जयन्त निर्मथितमग्निमलंकुर्वन्ति । परिचरन्तीति यावत् ॥


क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नंति॒ हंति॒ यः ।

अग्ने॑ सु॒वीर॑ एधते ॥९

क्षेति॑ । क्षेमे॑भिः । सा॒धुऽभिः॑ । नकिः॑ । यम् । घ्नन्ति॑ । हन्ति॑ । यः ।

अग्ने॑ । सु॒ऽवीरः॑ । ए॒ध॒ते॒ ॥९

क्षेति । क्षेमेभिः । साधुऽभिः । नकिः । यम् । घ्नन्ति । हन्ति । यः ।

अग्ने । सुऽवीरः । एधते ॥९

हे "अग्ने यो मनुष्यः "साधुभिः साधयद्भिः "क्षेमेभिः पालनैः सह "क्षेति स्वगृहे निवसति । तथा “यं जनं "नकिः न केचन “घ्रन्ति न हिंसन्ति । "यः एव “हन्ति शत्रून् स्वयमेव हन्ति । स मनुष्यस्तव स्तोता खलु । अन्यथा तस्यैतावन्न घटते । ततः स स्तोता "सुवीरः शोभनपुत्रादियुक्तः सन् “एधते आत्मीयगृहेषु धनादिभिर्वर्धते ॥ ॥ ६ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८४&oldid=209018" इत्यस्माद् पुनः प्राप्तिः