ऋग्वेदः सूक्तं ८.६१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.६० ऋग्वेदः - मण्डल ८
सूक्तं ८.६१
भर्गः प्रागाथः।
सूक्तं ८.६२ →
दे. इन्द्रः । प्रगाथः ( ), १७ शंकुमती।


उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥१॥
तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥
आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः ।
विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् ॥३॥
अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः ।
सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः ॥४॥
शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥५॥
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥६॥
त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥७॥
त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।
आ पुरंदरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥८॥
अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः ।
स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन ॥९॥
उग्रबाहुर्म्रक्षकृत्वा पुरंदरो यदि मे शृणवद्धवम् ।
वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥१०॥
न पापासो मनामहे नारायासो न जळ्हवः ।
यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥११॥
उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् ।
वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥१२॥
यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१३॥
त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः ।
तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥१४॥
इन्द्र स्पळुत वृत्रहा परस्पा नो वरेण्यः ।
स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः ॥१५॥
त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः ।
आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥१६॥
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।
विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः ॥१७॥
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो वीर्याय कम् ।
उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥१८॥


सायणभाष्यम्

‘ उभयं शृणवत्' इत्यष्टादशर्चं द्वितीयं सूक्तं प्रागाथस्य भर्गस्यार्षम् । अत्रानुक्रमणिका -- ‘ उभयं द्व्यूना' इति । पूर्वसूक्ते ‘प्रागाथं तु ' इत्युक्तत्वादिदमपि प्रागाथम् । अत्रायुजो बृहत्यो युजः सतोबृहत्यः । अनुक्तत्वादिन्द्रो देवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तं सप्तम्यष्टमीवर्जम् । तथैव पञ्चमारण्यके सूत्रितं शौनकेन - उभयं शृणवच्च न इति सप्तमीं चाष्टमीं चोद्धरति । ( ऐ. आ. ५. २. ४ ) इति । चातुर्विंशिकेऽहनि निष्केवल्ये 'उभयम्' इति बृहत्सामप्रगाथः । सूत्रितं च -‘उभयं शृणवच्च नः' ( आश्व. श्रौ. ७. ३ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽच्छावाकस्यायमेव स्तोत्रियः प्रगाथः। तथा च सूत्रितम् -' उभयं शृणवच्च न आ वृषस्व पुरूवसो' ( आश्व. श्रौ. ७. ४ ) इति । एवमन्यत्रापि यस्मिन्नहनि पृष्ठस्तोत्रे बृहत्साम क्रियते तस्मिन्नहनि निष्केवल्येऽयं प्रगाथः ॥


उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वच॑ः ।

स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥१

उ॒भय॑म् । शृ॒णव॑त् । च॒ । नः॒ । इन्द्रः॑ । अ॒र्वाक् । इ॒दम् । वचः॑ ।

स॒त्राच्या॑ । म॒घऽवा॑ । सोम॑ऽपीतये । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त् ॥१

उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः ।

सत्राच्या । मघऽवा । सोमऽपीतये । धिया । शविष्ठः । आ । गमत् ॥१

"उभयं स्तोत्रात्मकं शस्त्रात्मकं चोभयविधम् "इदं "वचः अर्वाक् अस्मदभिमुखम् "इन्द्रः “शृणवत् शृणोतु । श्रुत्वा च "सत्राच्या अस्माकं सहाञ्चन्त्या "धिया युक्तः सन् “मघवा "शविष्ठः अतिशयेन बलवान् “आ “गमत् आगच्छतु "सोमपीतये सोमपानाय ॥


तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतु॑ः ।

उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मन॑ः ॥२

तम् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॒ इति॑ । निः॒ऽत॒त॒क्षतुः॑ ।

उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम॑ऽकामम् । हि । ते॒ । मनः॑ ॥२

तम् । हि । स्वऽराजम् । वृषभम् । तम् । ओजसे । धिषणे इति । निःऽततक्षतुः ।

उत । उपऽमानाम् । प्रथमः । नि । सीदसि । सोमऽकामम् । हि । ते । मनः ॥२

“तं “हि तं खल्विन्द्रं "स्वराजं स्वयमेव राजमानं “धिषणे द्यावापृथिव्यौ “वृषभं जगदुपकारिकाया वृष्टेर्वर्षकं “निष्टतक्षतुः संचस्करतुः । “तं तमेवेन्द्रम् “ओजसे बलाय निष्टतक्षतुः । "उत यस्मादेवं तस्मात् हे इन्द्र "उपमानाम् उपमानभूतानामन्येषां देवानां मध्ये "प्रथमः मुख्यः सन् “नि “षीदसि वेद्याम् । सोमकामं “हि खलु “ते "मनः ॥


पूर्वोक्तेऽच्छावाकशस्त्रे ‘आ वृषस्व' इति प्रगाथो वैकल्पिकोऽनुरूपः । सूत्रमुक्तम् ॥

आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः ।

वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि॑म् ॥३

आ । वृ॒ष॒स्व॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । सु॒तस्य॑ । इ॒न्द्र॒ । अन्ध॑सः ।

वि॒द्म । हि । त्वा॒ । ह॒रि॒ऽवः॒ । पृ॒त्ऽसु । स॒स॒हिम् । अधृ॑ष्टम् । चि॒त् । द॒धृ॒ष्वणि॑म् ॥३

आ । वृषस्व । पुरुवसो इति पुरुऽवसो । सुतस्य । इन्द्र । अन्धसः ।

विद्म । हि । त्वा । हरिऽवः । पृत्ऽसु । ससहिम् । अधृष्टम् । चित् । दधृष्वणिम् ॥३

हे “पुरूवसो बहुधन “इन्द्र त्वम् "आ "वृषस्व आसिञ्चस्व । किम् । "सुतस्य “अन्धसः सुतमन्धः सोमं जठरे । हे "हरिवः हरिभ्यां तद्वन्निन्द्र “त्वा त्वां विद्म "हि जानीमः खलु। कीदृशम् । “पृत्सु संग्रामेषु "सासहिम् अभिभवितारं शत्रूणाम् "अधृष्टं “चित् कैरप्यधर्षणीयं "दधृष्वणिम् अन्येषां धर्षकम् ॥


अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वश॑ः ।

स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥४

अप्रा॑मिऽसत्य । म॒घ॒ऽव॒न् । तथा॑ । इत् । अ॒स॒त् । इन्द्र॑ । क्रत्वा॑ । यथा॑ । वशः॑ ।

स॒नेम॑ । वाज॑म् । तव॑ । शि॒प्रि॒न् । अव॑सा । म॒क्षु । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ ॥४

अप्रामिऽसत्य । मघऽवन् । तथा । इत् । असत् । इन्द्र । क्रत्वा । यथा । वशः ।

सनेम । वाजम् । तव । शिप्रिन् । अवसा । मक्षु । चित् । यन्तः । अद्रिऽवः ॥४

हे "अप्रामिसत्य अहिंसितसत्य हे "मघवन् इन्द्र “तथेदसत् तथैव भवति । हे “इन्द्र "क्रत्वा कर्मणा प्रज्ञानेन "यथा येन प्रकारेण "वशः कामयेः । हे “शिप्रिन् “अवसा रक्षणेन निमित्तेन “वाजम् अन्नं “सनेम संभजेम वयं "तव त्वदनुग्रहात् । कीदृशा वयम् । “मधु “चित् शीघ्रमेव “यन्तः शत्रून् गच्छन्तोऽभिभवन्तः । हे "अद्रिवः । अद्रिर्वज्रः । तद्वन्निन्द्रेति ॥


श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।

भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥५

श॒ग्धि । ऊं॒ इति॑ । सु । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

भग॑म् । न । हि । त्वा॒ । य॒शस॑म् । व॒सु॒ऽविद॑म् । अनु॑ । शू॒र॒ । चरा॑मसि ॥५

शग्धि । ऊं इति । सु । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

भगम् । न । हि । त्वा । यशसम् । वसुऽविदम् । अनु । शूर । चरामसि ॥५

हे “शचीपते “इन्द्र "शग्धि देह्यभिमतम् । "विश्वाभिः सर्वाभिः “ऊतिभिः मरुद्भिः सह । हे "शूर “भगं “न भाग्यमिव "यशसं यशस्विनं "वसुविदं धनस्य लम्भकं “त्वा त्वाम् "अनु “चरामसि अनुचरामः । परिचरामेत्यर्थः ॥ ॥ ३६ ।।


पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्यय॑ः ।

नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥६

पौ॒रः । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ।

नकिः॑ । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥६

पौरः । अश्वस्य । पुरुऽकृत् । गवाम् । असि । उत्सः । देव । हिरण्ययः ।

नकिः । हि । दानम् । परिऽमर्धिषत् । त्वे इति । यत्ऽयत् । यामि । तत् । आ । भर ॥६

हे इन्द्र त्वम् "अश्वस्य "पौरः पूरयिता "असि भवसि । तथा "गवां “पुरुकृत् बहुकर्तासि । हे “देव "हिरण्ययः हिरण्मयशरीरस्त्वम् "उत्सः उत्ससदृशोऽसि । हे इन्द्र “त्वे त्वयि वर्तमानं “दानम् अस्मद्विषयं देयं धनं वा "नकिः “परिमर्धिषत् न कश्चिद्धिनस्ति । अतः "यद्यद्यामि याचे “तदा “भर आहर मह्यम् ॥


यद्यग्निष्टोमे बृहत्साम तदानीं निष्केवल्ये प्रगाथोऽनुरूपः । सूत्रितं च –' त्वं ह्येहि चेरव इति प्रगाथा एते भवन्ति' (आश्व. श्रौ. ५. १५) इति । महाव्रते निष्केवल्य उत्तरपक्षेऽयं प्रगाथः । तथैव पञ्चमारण्यके सूत्रितं— त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहतः स्तोत्रियानुरूपौ प्रगाथौ । (ऐ. आ. ५. २. २) इति ॥

त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये ।

उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ॥७

त्वम् । हि । आ । इ॒हि॒ । चेर॑वे । वि॒दाः । भग॑म् । वसु॑त्तये ।

उत् । व॒वृ॒ष॒स्व॒ । म॒घ॒ऽव॒न् । गोऽइ॑ष्टये । उत् । इ॒न्द्र॒ । अश्व॑म्ऽइष्टये ॥७

त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये ।

उत् । ववृषस्व । मघऽवन् । गोऽइष्टये । उत् । इन्द्र । अश्वम्ऽइष्टये ॥७

हे इन्द्र “त्वं "हि त्वं खलु । सामर्थ्याद्दातेति गम्यते । अतः “एहि आगच्छ । आगत्य चास्मभ्यं "भगं भजनीयं धनं "विदाः लभस्व दत्स्व । किमर्थम् । "वसुत्तये अस्माकं वसुदानाय । हे “मघवन् "गविष्टये गा इच्छते मद्यं “उद्ववृषस्व उत्सिञ्चस्व गामिति शेषः । तथा हे “इन्द्र “अश्वमिष्टये अश्वैषणवते मह्यमश्वान् "उत् ववृषस्व उत्सिञ्चस्व देहि ।।


त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे ।

आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥८

त्वम् । पु॒रु । स॒हस्रा॑णि । श॒तानि॑ । च॒ । यू॒था । दा॒नाय॑ । मं॒ह॒से॒ ।

आ । पु॒र॒म्ऽद॒रम् । च॒कृ॒म॒ । विप्र॑ऽवचसः । इन्द्र॑म् । गाय॑न्तः । अव॑से ॥८

त्वम् । पुरु । सहस्राणि । शतानि । च । यूथा । दानाय । मंहसे ।

आ । पुरम्ऽदरम् । चकृम । विप्रऽवचसः । इन्द्रम् । गायन्तः । अवसे ॥८

हे इन्द्र “त्वं "पुरु पुरूणि बहूनि "सहस्राणि "शतानि "च "यूथा गवादियूथानि “दानाय यजमानविषयाय “मंहसे अनुमन्यसे । यद्वा । दानाय दात्रे यजमानाय मंहसे प्रयच्छसि । मंहतिर्दानकर्मा । अथ परोक्षेण ब्रवीति । "पुरंदरं शत्रुपुराणां दारयितारम् "इन्द्रम् "अवसे रक्षणाय प्रीतये वा “गायन्तः स्तुवन्तः “विप्रवचसः विविधप्रकृष्टवचना वयम् "आ आगन्तारमभिमुखं वा “चकृम कुर्मः ॥


अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेन्द्र ते॒ वच॑ः ।

स प्र म॑मन्दत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥९

अ॒वि॒प्रः । वा॒ । यत् । अवि॑धत् । विप्रः॑ । वा॒ । इ॒न्द्र॒ । ते॒ । वचः॑ ।

सः । प्र । म॒म॒न्द॒त् । त्वा॒ऽया । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । प्राचा॑मन्यो॒ इति॒ प्राचा॑ऽमन्यो । अह॑म्ऽसन ॥९

अविप्रः । वा । यत् । अविधत् । विप्रः । वा । इन्द्र । ते । वचः ।

सः । प्र । ममन्दत् । त्वाऽया । शतक्रतो इति शतऽक्रतो । प्राचामन्यो इति प्राचाऽमन्यो । अहम्ऽसन ॥९

हे "इन्द्र "ते तव "वचः स्तोत्रं "यत् यः "अविप्रो "वा अमेधाव्यस्तुतिकुशलो वा “विप्रः मेधावी स्तुतिकुशलः “वा "अविधत् कुर्यात् । त्वां स्तौतीत्यर्थः । "सः स्तोता “त्वाया त्वयीच्छया साधनेन “प्र “ममन्दत् प्रकर्षेण मोदते । हे "शतक्रतो बहुकर्मन् हे "प्राचामन्यो प्राचीनक्रोध ! अप्रतिहतक्रोधेत्यर्थः । न हीन्द्रक्रोधं प्रतिहन्ति कश्चित् । हे "अहंसन । संग्रामेऽहमित्यात्मनो महत्त्वं प्रकाशयन् यः शत्रुं संभजते स तथोक्तः । तादृशेन्द्र ॥


उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरंद॒रो यदि॑ मे शृ॒णव॒द्धव॑म् ।

व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥१०

उ॒ग्रऽबा॑हुः । म्र॒क्ष॒ऽकृत्वा॑ । पु॒र॒म्ऽद॒रः । यदि॑ । मे॒ । शृ॒णव॑त् । हव॑म् ।

व॒सु॒ऽयवः॑ । वसु॑ऽपतिम् । श॒तऽक्र॑तुम् । स्तोमैः॑ । इन्द्र॑म् । ह॒वा॒म॒हे॒ ॥१०

उग्रऽबाहुः । म्रक्षऽकृत्वा । पुरम्ऽदरः । यदि । मे । शृणवत् । हवम् ।

वसुऽयवः । वसुऽपतिम् । शतऽक्रतुम् । स्तोमैः । इन्द्रम् । हवामहे ॥१०

"उग्रबाहुः उद्गूर्णभुजः "म्रक्षकृत्वा वधकर्ता शत्रूणां “पुरंदरः पुराणां दारयितेन्द्रः "यदि "मे “हवं “शृणवत् शृणुयात् तर्हि "वसूयवः वसुकामा वयं "वसुपति' बहुधनस्वामिनं शतक्रतुम् अपरिमितप्रज्ञम् "इन्द्रं "स्तोमैः स्तोत्रैः "हवामहे आह्वयामः ॥ ॥ ३७॥


न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः ।

यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥११

न । पा॒पासः॑ । म॒ना॒म॒हे॒ । न । अरा॑यासः । न । जळ्ह॑वः ।

यत् । इत् । नु । इन्द्र॑म् । वृष॑णम् । सचा॑ । सु॒ते । सखा॑यम् । कृ॒णवा॑महै ॥११

न । पापासः । मनामहे । न । अरायासः । न । जळ्हवः ।

यत् । इत् । नु । इन्द्रम् । वृषणम् । सचा । सुते । सखायम् । कृणवामहै ॥११

वयमिन्द्रं "पापासः पापा अकृतपुण्या ब्रह्मचर्यव्रतादिरहिताः “न “मनामहे न मन्यामहे । तथा “अरायासः अराया अधना वा अहविष्का वा “न मनामहे । “न “जल्हवः अज्वलनाः अनग्नयो न मनामहे । कृतव्रतनियमादिपुण्या दानवन्तोऽग्निसहितास्तं स्तुम इत्यृषिरात्मानमाह। "यदित् यस्मादेव कारणात् "नु इदानीं "वृषणं वर्षकम् "इन्द्रं “सुते सोमेऽभिषुते "सचा सहिताः "सखायं "कृणवामह कुर्मः तस्मात् पापादिरहिता मनामहे । पापादिविशिष्टानामिन्द्रसाहाय्यकरणासंभवात् । अत्र ‘न पापा मन्यामहे ' (निरु. ६. २५) इत्यादि निरुक्तं द्रष्टव्यम् ॥


उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् ।

वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥१२

उ॒ग्रम् । यु॒यु॒ज्म॒ । पृत॑नासु । स॒स॒हिम् । ऋ॒णऽका॑तिम् । अदा॑भ्यम् ।

वेद॑ । भृ॒मम् । चि॒त् । सनि॑ता । र॒थिऽत॑मः । वा॒जिन॑म् । यम् । इत् । ऊं॒ इति॑ । नश॑त् ॥१२

उग्रम् । युयुज्म । पृतनासु । ससहिम् । ऋणऽकातिम् । अदाभ्यम् ।

वेद । भृमम् । चित् । सनिता । रथिऽतमः । वाजिनम् । यम् । इत् । ऊं इति । नशत् ॥१२

"उग्रम् उद्गूर्णबलमिन्द्रं "युयुज्म योजयामः । कीदृशमिन्द्रम् । "पृतनासु संग्रामेषु "सासहिं शत्रूणामभिभवितारम् “ऋणकातिम् ऋणभूतस्तुतिम् । यस्मै स्तुतिर्ऋणवदवश्यं क्रियते तं तादृशम् । अथवा ऋणवदवश्यफलप्रदस्तुतिकम् । "अदाभ्यं केनाप्यहिंस्यम् । य इन्द्रः "भ्रमं "चित् बहुष्वश्वेषु भ्रमणशीलमेव "वाजिनं बलवन्तमश्वं "रथीतमः रथस्वामी "वेद वेत्ति गृह्णाति तद्वत् "सनिता इन्द्रो वाजिनं हविष्मन्तं "यमित् यमेव जनं बहूनां यजमानानां मध्ये “नशत् व्याप्नोति तमिन्द्रमिति । ते वयमिति वा योज्यम् । वयं युयुज्मेति पक्षे व्यत्ययेन बहुवचनम् ॥


चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽच्छावाकस्य ‘ यत इन्द्र' इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च -- यत इन्द्र भयामहे यथा गौरो अपा कृतम्' ( आश्व. श्रौ. ७. ४ ) इति । दुःस्वप्नदर्शनेऽप्येतदादिसूक्तशेषो जप्यः (आश्व. गृ. ३. ११. २) ॥

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।

मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥१३

यतः॑ । इ॒न्द्र॒ । भया॑महे । ततः॑ । नः॒ । अभ॑यम् । कृ॒धि॒ ।

मघ॑ऽवन् । श॒ग्धि । तव॑ । तम् । नः॒ । ऊ॒तिऽभिः॑ । वि । द्विषः॑ । वि । मृधः॑ । ज॒हि॒ ॥१३

यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । कृधि ।

मघऽवन् । शग्धि । तव । तम् । नः । ऊतिऽभिः । वि । द्विषः । वि । मृधः । जहि ॥१३

हे “इन्द्र "यतः हिंसकात् "भयामहे वयं "ततः "नः अस्मभ्यम् "अभयं "कृधि कुरु । हे “मघवन् “शग्धि शक्तो भवसि "नः अस्मभ्यमभयं कर्तुं "तव "तत् तैः “ऊतिभिः रक्षणैः रक्षकैः पुरुषैः । किंच "वि “जहि "द्विषः अस्मद्द्वेष्टॄन् । "वि जहि "मृधः अस्मद्धिंसकान् ॥


त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः ।

तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥१४

त्वम् । हि । रा॒धः॒ऽप॒ते॒ । राध॑सः । म॒हः । क्षय॑स्य । असि॑ । वि॒ध॒तः ।

तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥१४

त्वम् । हि । राधःऽपते । राधसः । महः । क्षयस्य । असि । विधतः ।

तम् । त्वा । वयम् । मघऽवन् । इन्द्र । गिर्वणः । सुतऽवन्तः । हवामहे ॥१४

हे “राधस्पते धनस्वामिन् "त्वं "हि त्वं खलु "महः महतः “राधसः धनस्य "क्षयस्य च गृहस्य' च वर्धयिता “असि हि खलु। सामर्थ्यादेवं लभ्यते । कस्य राधसो गृहस्य च वर्धक इत्युच्यते । “विधतः परिचरतो यजमानस्य । "तं तादृशं "त्वा त्वां “वयं हे “मघवन्निन्द्र "गिर्वणः गीर्भिर्वननीय "सुतावन्तः अभिषुतसोमाः “हवामहे आह्वयामः ।।


इन्द्र॒ः स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः ।

स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥१५

इन्द्रः॑ । स्पट् । उ॒त । वृ॒त्र॒ऽहा । प॒रः॒ऽपाः । नः॒ । वरे॑ण्यः ।

सः । नः॒ । र॒क्षि॒ष॒त् । च॒र॒मम् । सः । म॒ध्य॒मम् । सः । प॒श्चात् । पा॒तु॒ । नः॒ । पु॒रः ॥१५

इन्द्रः । स्पट् । उत । वृत्रऽहा । परःऽपाः । नः । वरेण्यः ।

सः । नः । रक्षिषत् । चरमम् । सः । मध्यमम् । सः । पश्चात् । पातु । नः । पुरः ॥१५

अयम् "इन्द्रः “स्पट् सर्वस्य ज्ञाता । स्पशतिर्ज्ञानकर्मा । "उत अयं "वृत्रहा वृत्रहन्ता “परस्पाः परपालयिता "नः अस्माकं "वरेण्यः वरणीयः । "सः इन्द्रः "नः अस्माकम् । पुत्रमिति शेषः । "रक्षिषत् रक्षतु । "चरमं पुत्रं तथा स रक्षिषत् । "सः "मध्यमं पुत्रं रक्षिषत् । "सः "नः अस्मान् "पश्चात् रक्षिषत् । "नः “पुरः पुरस्तात् रक्षिषत् ॥ ॥ ३८ ॥


त्वं न॑ः प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वत॑ः ।

आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥१६

त्वम् । नः॒ । प॒श्चात् । अ॒ध॒रात् । उ॒त्त॒रात् । पु॒रः । इन्द्र॑ । नि । पा॒हि॒ । वि॒श्वतः॑ ।

आ॒रे । अ॒स्मत् । कृ॒णु॒हि॒ । दैव्य॑म् । भ॒यम् । आ॒रे । हे॒तीः । अदे॑वीः ॥१६

त्वम् । नः । पश्चात् । अधरात् । उत्तरात् । पुरः । इन्द्र । नि । पाहि । विश्वतः ।

आरे । अस्मत् । कृणुहि । दैव्यम् । भयम् । आरे । हेतीः । अदेवीः ॥१६

हे “इन्द्र “त्वं "नः अस्मान् "पश्चात् पश्चाद्भागात् "पुरः पूर्वभागात् "अधरात् अधोभागात् । एतदुपरिभागस्योपलक्षणम् । "उत्तरात् उत्तरभागात् । एतद्दक्षिणस्याप्युपलक्षणम् । किं बहुना “विश्वतः सर्वस्मात् प्रदेशात् "नि "पाहि । हे इन्द्र “दैव्यं “भयम् "अस्मत् अस्मत्तः “आरे दूरे “कृणुहि कुरु । तथा "अदेवीः असुराणि "हेतीः आयुधानि "आरे कृणुहि ॥


अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः ।

विश्वा॑ च नो जरि॒तॄन्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥१७

अ॒द्यऽअ॑द्य । श्वःऽश्वः॑ । इन्द्र॑ । त्रास्व॑ । प॒रे । च॒ । नः॒ ।

विश्वा॑ । च॒ । नः॒ । ज॒रि॒तॄन् । स॒त्ऽप॒ते॒ । अहा॑ । दिवा॑ । नक्त॑म् । च॒ । र॒क्षि॒षः॒ ॥१७

अद्यऽअद्य । श्वःऽश्वः । इन्द्र । त्रास्व । परे । च । नः ।

विश्वा । च । नः । जरितॄन् । सत्ऽपते । अहा । दिवा । नक्तम् । च । रक्षिषः ॥१७

“अद्याद्य यदद्यशब्दवाच्यमहरस्ति तत्र सर्वत्र एवं “श्वःश्वः "त्रास्व रक्ष। तथा “परे “च परस्मिंस्तृतीयेऽहनि च त्रास्व । हे "सत्पते सतां पालक “विश्वा सर्वाण्यपि “अहा अहानि सर्वेष्वप्यहःसु "नः अस्मान् "जरितॄन् "रक्षिषः रक्षसि । तथा 'दिवा "नक्तं "च रक्षिषः रक्षसि रक्ष वा ॥


प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घ॒ः सम्मि॑श्लो वि॒र्या॑य॒ कम् ।

उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतु॑ः ॥१८

प्र॒ऽभ॒ङ्गी । शूरः॑ । म॒घऽवा॑ । तु॒विऽम॑घः । सम्ऽमि॑श्लः । वी॒र्या॑य । कम् ।

उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या । वज्र॑म् । मि॒मि॒क्षतुः॑ ॥१८

प्रऽभङ्गी । शूरः । मघऽवा । तुविऽमघः । सम्ऽमिश्लः । वीर्याय । कम् ।

उभा । ते । बाहू इति । वृषणा । शतक्रतो इति शतऽक्रतो । नि । या । वज्रम् । मिमिक्षतुः ॥१८

अयं "मघवा इन्द्रः "प्रभङ्गी प्रभञ्जनशीलः "शूरः "तुवीमघः प्रभूतधनः "संमिश्लः सम्यक् मिश्रयिता । किमर्थम् । "वीर्याय शत्रूणां वीर्यकरणाय । "कम् इति पादपूरणः । एवंमहानुभावो भवति । अथ प्रत्यक्षवादः । हे इन्द्र “ते “उभा उभावपि “बाहू “वृषणा वर्षकौ कामानां हे "शतक्रतो बहुप्रज्ञ “या यौ “वज्रम् आयुधं "नि "मिमिक्षतुः परिगृह्णीतः ॥ ॥ ३९ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६१&oldid=209241" इत्यस्माद् पुनः प्राप्तिः