सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/हाविष्मतम्

विकिस्रोतः तः
हाविष्मतम्

१५
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ॥ ८१५॥ ऋ.८.६१.१९
जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
गोषातिरश्वसा असि ॥ ८१६ ॥
सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि ।
सीदं च्छ्येनो न योनिमा ॥ ८१७ ॥



५. हाविष्मतम् । हविष्मान् । गायत्री । पवमानः सोमः ।

हाउयस्तेमदोवरेणियोहाउ ।। तेनापवाऽ३ । स्वाअन्धाऽ२३४सा । ऐऽ२होऽ१आऽ२३इही ।। देवावाऽ३इरा ।। घश । साऽ२हाऽ२३४औहोवा ।। श्रीः ।। हाउजघ्निर्वृत्रममित्रियꣳहाउ ।। सस्निर्वाजाऽ३म् । दाइवेदाऽ२३४इवाइ । ऐऽ२होऽ१आऽ२३इही। गोषाताऽ३इरा ।। श्वसाः । आऽ२साऽ२३४औहोवा ।। श्रीः ।। हाउसम्मिश्लोअरुषोभुवोहाउ ।। सूपस्थाभीऽ३ः । नाधेनूऽ२३४भाइः । ऐऽ२होऽ१आऽ२३इही ।। सीदाञ्छ्याऽ३इनाः । नयो । नाऽ२इमाऽ२३४औहोवा ।। हविष्मतेऽ२३४५ ।।

दी. २६. उत्. ७. मा. ३०. खौ. ।।४५।।


[सम्पाद्यताम्]

टिप्पणी

यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयं सवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति। तेना पवस्वान्धसेत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। जघ्निर् वृत्रम् अमित्रियम् इति त्रैष्टुभं रूपम्। यद् वै घ्नद्वत् तत् त्रिष्टुभो रूपम्। क्षत्रं हि त्रिष्टुप्। संमिश्लो अरुषो भुवस् सूपस्थाभिर् न धेनुभिर् इति प्रद्रुतम् इव वा इत एतद् अहर् यद् बार्हतम्। अदो हि बृहत्। तद् यत् सूपस्थाभिर् इत्य् अह्न एवोपस्थित्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथ हाविष्मतं परिष्टोभवद् बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव्, अंगिरसां स्वर्गं लोकं यताम्, अहीयेताम्। ताव् अकामयेताम् अनूत्पतेव स्वर्गं लोकम् इति। तौ तपो ऽतप्येताम् । ताव् एते सामनी अपश्यताम्। ताभ्याम् अस्तुवताम्। तौ स्तुत्वेव हविष्मते हविष्कृत इत्य् एव स्वर्गं लोकम् अनूदपतताम्। पशवो ह खलु वै हविष्मन्तः, पशवो हविष्कृतः। पशून् वाव तौ तद् एताभ्याम् अवारुन्धेताम्। तैर् उ पशुभिर् इष्ट्वा स्वर्गम् एव लोकम् अगच्छताम्। ते एते पशव्ये स्वर्ग्ये सामनी। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद॥जैब्रा ३.२८

प्रोक्तिश् च ह खलु वा एते सामनी हविषो निरुक्तिश् च। तद् यद् धाविष्मतं द्वितीये ऽहनि भवति, हविष्मन्त स्म इत्य् एवैतद् देवेभ्यः प्राहुः। हविष्मन्त इव ह्य् एतर्हि भवन्ति। अथ यद् धाविष्कृतं नवमे ऽहनि भवति, हविष्कृत स्म इत्य् एवैतद् देवेभ्यो निराहुः। हविष्कृत इव हि तर्हि भवन्ति। ते ह वा एते सामनी प्रोक्तिश् चैव हविषो निरुक्तिश् च। यद् उ हविष्मांश्च हविष्कृच् चाङ्गिरसाव् अपश्यतां तस्माद् धाविष्मत - हाविष्कृते इत्य् आख्यायेते। - जैब्रा. ३.२९

यस्ते मदो वरेण्य इति गायत्री भवति। मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति .........हाविष्मतं भवति। हविष्मांश्च वै हविष्कृच्चाङ्गिरसावास्तां द्वितीयेऽहनि ।हविष्मानराध्नोन्नवमेऽहनि हविष्कृत्। अयं हविष्मानित्येव जातमहर्जातं सोमं प्राह देवेभ्यः साम्नैवास्मा आशिषमाशास्ते साम हि सत्याशीः - तांब्रा ११.१०