सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १०/शार्करे द्वे
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
सखाय इन्द्रमूतये ॥ ४०० ॥ ऋ.८.२१.९
(४००।१)
॥ शार्करे द्वे । द्वयोः शर्करः ककुबिन्द्रः ॥
(४००।१)
॥ शार्करे द्वे । द्वयोः शर्करः ककुबिन्द्रः ॥
योनोहाउ ॥ इदाम् । इदंपुराऽ२३हाउ । प्रवा । प्रवस्य आऽ२३हाइ । निना । निनायतमुवाऽ२३हाउ । स्तुपाइ । सखायआऽ२३हाइ ॥ द्रमूताऽ २३याऽ३४३इ । ओऽ२३४५इ ॥ डा ।।
( दी० ४ । प० १२ । मा० ११ ) ३४ ( ध । ६९६ )
(४००/२)
योनाऽ३ इदमिदं पुरा ।। योनइदमिदाऽ१०पूऽ३रा । प्रवस्यआनिना । यत्ताऽ३मूऽ३ वस्तुषाइ ।। निना । यताऽ३मूऽ३वस्तुषाइ ।। सखायाऽ२: । आऽ२३इ । द्रमूऽ३ताऽ५याऽ६५६इ ।।
( दी० ३ । प० ९ । मा० ८ )३५ ( ढै । ६९७ )
टिप्पणी
शार्करम् (ऊहगानम्)
तासु शार्करम्। इन्द्रं वै सर्वाणि भूतान्य् अस्तुवन्। तं शर्करस् शिंशुमार स्तोतुं नाकामयत। तम् अब्रवीत् स्तुहि मेति। सो ऽब्रवीन् - नाहं त्वां स्तोष्यामि। समुद्रे वा अहम् अप्स्व् अन्तश् चराम्य् उपनिमज्जन्न् , एतावतो ऽहं त्वां स्तुयाम् इति। तं पर्जन्यो वृष्ट्योर्ध्वम् उदप्लावयद् धन्वाभि। अपो हैवास्मै दर्शयांचकार। तम् उत्तराद् वातेन पर्यशोषयत्। सो ऽवेत् परिशुष्कश् शयानो - यद् वा अहम् इदम् इत्थं न्यगाम्, अभ्यवप्लावयिष्यतीति। स एतं मन्त्रम् अपश्यत्। तेनैनम् अस्तौद् - यो न इदमिदं पुरा प्र वस्य आनिनाय तम् उ व स्तुषे। सखाय इन्द्रम् ऊतये॥ इति। तम् अब्रवीत् - किंकामो मा स्तौषीति। इमम् एव मा समुद्रं पुनर् अभ्यवप्लावेत्य् अब्रवीत्। तं पर्जन्यो वृष्ट्या समुद्रं पुनर् अभ्यवाप्लावयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते॥जैब्रा ३.१९३॥
स तेनैव मन्त्रेण स्वर्गं लोकम् उदक्रामत्। स एवैष शर्कर उदेति। तद् वा अस्य स्वर्ग्यम्। अश्नुते स्वर्गं लोकं य एवं वेद। समुद्रो वै छन्दोमाः। शिंशुमारो वै समुद्रम् अतिपारयितुम् अर्हति। तद् यद् अत्र शार्करं भवति समुद्रस्यैवातिपारणाय। तत् पुनर्नितुन्नं छन्दो भवति। यत्र यत्र वै देवाश् छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वंश्, तत् पुनर् अभ्याघ्नन्। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यत् पुनर्नितुन्नं छन्दो भवति रसम् एवैतच् छन्दोमेषु दधति। रस्स्यैवैषानुवित्तिः। तद् उ काकुभं स्वारं भवति। प्राणो वै स्वरः पुरुषश् छन्दसं ककुप्। ज्यैष्ठ्यं वै प्राणो ज्यैष्ठ्यं पुरुषः। ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधाति, ज्यैष्ठ्ये प्रतितिष्ठति। यद् उ शर्करस् शिंशुमारो ऽपश्यत् तस्माच् छार्करम् इत्य् आख्यायते। -जैब्रा ३.१९४