ऋग्वेदः सूक्तं ८.६५
← सूक्तं ८.६४ | ऋग्वेदः - मण्डल ८ सूक्तं ८.६५ प्रगाथः काण्वः। |
सूक्तं ८.६६ → |
दे. इन्द्रः। गायत्री। |
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
आ याहि तूयमाशुभिः ॥१॥
यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।
यद्वा समुद्रे अन्धसः ॥२॥
आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे ।
इन्द्र सोमस्य पीतये ॥३॥
आ त इन्द्र महिमानं हरयो देव ते महः ।
रथे वहन्तु बिभ्रतः ॥४॥
इन्द्र गृणीष उ स्तुषे महाँ उग्र ईशानकृत् ।
एहि नः सुतं पिब ॥५॥
सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे ।
इदं नो बर्हिरासदे ॥६॥
यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
तं त्वा वयं हवामहे ॥७॥
इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः ।
जुषाण इन्द्र तत्पिब ॥८॥
विश्वाँ अर्यो विपश्चितोऽति ख्यस्तूयमा गहि ।
अस्मे धेहि श्रवो बृहत् ॥९॥
दाता मे पृषतीनां राजा हिरण्यवीनाम् ।
मा देवा मघवा रिषत् ॥१०॥
सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु ।
शुक्रं हिरण्यमा ददे ॥११॥
नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
श्रवो देवेष्वक्रत ॥१२॥
सायणभाष्यम्
“यदिन्द्र प्राक्' इति द्वादशर्चं षष्ठं सूक्तं प्रगाथस्यार्षं गायत्रमैन्द्रम् । “यदिन्द्र' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥
यदिं॑द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।
आ या॑हि॒ तूय॑मा॒शुभिः॑ ॥१
यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।
आ । या॒हि॒ । तूय॑म् । आ॒शुऽभिः॑ ॥१
यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः ।
आ । याहि । तूयम् । आशुऽभिः ॥१
हे "इन्द्र त्वं “नृभिः कर्मनेतृभिरस्मदीयैरध्वर्य्वादिभिः "प्राक् वा “अपागुदक् वा “न्यग्वा यतः कुतश्चित् "हूयसे अतः “तूयं तूर्णम् "आशुभिः आशुगामिभिरश्वैः "आ “याहि आगच्छ ॥
यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे ।
यद्वा॑ समु॒द्रे अन्ध॑सः ॥२
यत् । वा॒ । प्र॒ऽस्रव॑णे । दि॒वः । मा॒दया॑से । स्वः॑ऽनरे ।
यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः ॥२
यत् । वा । प्रऽस्रवणे । दिवः । मादयासे । स्वःऽनरे ।
यत् । वा । समुद्रे । अन्धसः ॥२
"यद्वा अथवा “दिवः द्युलोकस्य "प्रस्रवणे अमृतनिष्यन्दनस्थाने "मादयासे माद्यसि । यद्वा “स्वर्णरे स्वर्गनयने वा भूलोकेऽन्यस्य यागदेशे माद्यसि । “यद्वा “अन्धसः। अन्धोऽन्नम्। तेन तत्कारणमुदकं लक्ष्यते । तस्य “समुद्रे समुन्दनापादानभूतेऽन्तरिक्षे माद्यसि । तत्र तत्र वर्तमानमपि हुव इत्युत्तरत्र संबन्धः ॥
आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से ।
इंद्र॒ सोम॑स्य पी॒तये॑ ॥३
आ । त्वा॒ । गीः॒ऽभिः । म॒हाम् । उ॒रुम् । हु॒वे । गाम्ऽइ॑व । भोज॑से ।
इन्द्र॑ । सोम॑स्य । पी॒तये॑ ॥३
आ । त्वा । गीःऽभिः । महाम् । उरुम् । हुवे । गाम्ऽइव । भोजसे ।
इन्द्र । सोमस्य । पीतये ॥३
हे “इन्द्र “त्वा त्वां “गीर्भिः स्तुतिभिः “हुवे आह्वयामि । कीदृशं त्वाम् । “महां महान्तम् “उरुं प्रभूतम् । किमर्थम् । “सोमस्य “पीतये पानाय । ह्वाने दृष्टान्तः। “भोजसे भोगाय “गामिव ॥
आ त॑ इंद्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ ।
रथे॑ वहंतु॒ बिभ्र॑तः ॥४
आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् । हर॑यः । दे॒व॒ । ते॒ । महः॑ ।
रथे॑ । व॒ह॒न्तु॒ । बिभ्र॑तः ॥४
आ । ते । इन्द्र । महिमानम् । हरयः । देव । ते । महः ।
रथे । वहन्तु । बिभ्रतः ॥४
हे "इन्द्र "ते तव "महिमानं माहात्म्यं “रथे “बिभ्रतः धारयन्तः "हरयः अश्वाः “आ “वहन्तु । तथा हे “देव “ते “महः तेजः रथे बिभ्रतोऽश्वा आ वहन्तु। अत्र महिम्नो महसश्च पृथगावहनासंभवात्ताभ्यां विशिष्टं वहन्त्वित्यर्थः । अथवा महिमानं बिभ्रतस्ते त्वां रथे वहन्तु महो बिभ्रतश्च त्वां वहन्विति योज्यम् ॥
इंद्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् ।
एहि॑ नः सु॒तं पिब॑ ॥५
इन्द्र॑ । गृ॒णी॒षे । ऊं॒ इति॑ । स्तु॒षे । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् ।
आ । इ॒हि॒ । नः॒ । सु॒तम् । पिब॑ ॥५
इन्द्र । गृणीषे । ऊं इति । स्तुषे । महान् । उग्रः । ईशानऽकृत् ।
आ । इहि । नः । सुतम् । पिब ॥५
हे इन्द्र त्वं “गृणीषे उच्यसे । इदं देहीदं कुर्विति । तथा “स्तुषे “उ स्तूयसे च । उ इति चार्थे । कीदृशस्त्वम्। “महान् गुणैः प्रवृद्धः “उग्रः उद्गूर्णबलः "ईशानकृत् ऐश्वर्यकर्ता । तादृशस्त्वम् “एहि आगच्छ । आगत्य च “नः “सुतं सोमं “पिब ॥
सु॒तावं॑तस्त्वा व॒यं प्रय॑स्वंतो हवामहे ।
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥६
सु॒तऽव॑न्तः । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥६
सुतऽवन्तः । त्वा । वयम् । प्रयस्वन्तः । हवामहे ।
इदम् । नः । बर्हिः । आऽसदे ॥६
“सुतावन्तः अभिषुतसोमवन्तः “प्रयस्वन्तः चरुपुरोडाशाद्यन्नवन्तश्च “वयं “त्वा त्वां “हवामहे आह्वयामः । किमर्थम् । “इदं “नः अस्मदीयं “बर्हिः बर्हिषि यज्ञे बर्हिषि वा “आसदे आसादनाय ॥ ॥ ४६ ॥
यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं ।
तं त्वा॑ व॒यं ह॑वामहे ॥७
यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।
तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥७
यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् ।
तम् । त्वा । वयम् । हवामहे ॥७
हे “इन्द्र “त्वं “यच्चिद्धि यस्मात् खलु “शश्वतां बहूनां यजमानानां “साधारणः “असि । चिदिति पूरणः । हीति प्रसिद्धौ । “तं तादृशं साधारणं “त्वा त्वां “वयं “हवामहे आह्वयामः । इतरेभ्यः पूर्वमिति भावः ॥
प्रातःसवने 'इदं ते सोम्यम्' इति होतुः प्रस्थितयाज्या । सूत्रितं च- इदं ते सोम्यं मधु मित्रं वयं हवामहे ' ( आश्व. श्रौ. ५. ५) इति ॥
इ॒दं ते॑ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।
जु॒षा॒ण इं॑द्र॒ तत्पि॑ब ॥८
इ॒दम् । ते॒ । सो॒म्यम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।
जु॒षा॒णः । इ॒न्द्र॒ । तत् । पि॒ब॒ ॥८
इदम् । ते । सोम्यम् । मधु । अधुक्षन् । अद्रिऽभिः । नरः ।
जुषाणः । इन्द्र । तत् । पिब ॥८
हे इन्द्र "ते त्वदर्थम् "इदं "सोम्यं सोमसंबन्धि "मधु “अधुक्षन् "अद्रिभिः ग्रावभिरभिषवसाधनैः "नरः अस्मदीया अध्वर्य्वादयः । हे “इन्द्र "तत् मधु "जुषाणः प्रीयमाणः "पिब ॥
विश्वाँ॑ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि ।
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥९
विश्वा॑न् । अ॒र्यः । वि॒पः॒ऽचितः॑ । अति॑ । ख्यः॒ । तूय॑म् । आ । ग॒हि॒ ।
अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥९
विश्वान् । अर्यः । विपःऽचितः । अति । ख्यः । तूयम् । आ । गहि ।
अस्मे इति । धेहि । श्रवः । बृहत् ॥९
हे इन्द्र "अर्यः स्वामी त्वं "विश्वान् "विपश्चितः स्तोतॄन् “अति “ख्यः अतिक्रम्य पश्य । तदर्थं "तूयं क्षिप्रम् "आ “गहि । आगत्य च "अस्मे अस्मासु "बृहत् "श्रवः अन्नं यशो वा “धेहि ॥
दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीनां॑ ।
मा दे॑वा म॒घवा॑ रिषत् ॥१०
दा॒ता । मे॒ । पृष॑तीनाम् । राजा॑ । हि॒र॒ण्य॒ऽवीना॑म् ।
मा । दे॒वाः॒ । म॒घऽवा॑ । रि॒ष॒त् ॥१०
दाता । मे । पृषतीनाम् । राजा । हिरण्यऽवीनाम् ।
मा । देवाः । मघऽवा । रिषत् ॥१०
"हिरण्यवीनां हिरण्यवीतानां "पृषतीनां "राजा इन्द्रः "मे “दाता भवतु । हे "देवाः "मघवा इन्द्रः “मा "रिषत् रिष्टो मा भवतु ।।
स॒हस्रे॒ पृष॑तीना॒मधि॑ श्चं॒द्रं बृ॒हत्पृ॒थु ।
शु॒क्रं हिर॑ण्य॒मा द॑दे ॥११
स॒हस्रे॑ । पृष॑तीनाम् । अधि॑ । च॒न्द्रम् । बृ॒हत् । पृ॒थु ।
शु॒क्रम् । हिर॑ण्यम् । आ । द॒दे॒ ॥११
सहस्रे । पृषतीनाम् । अधि । चन्द्रम् । बृहत् । पृथु ।
शुक्रम् । हिरण्यम् । आ । ददे ॥११
अहं "पृषतीनां गवां "सहस्रे "अधि उपरि धारितं "बृहत् महत् “पृथु विस्तृतं "चन्द्रम् आह्लादकं “शुक्रं निर्मलं "हिरण्यमा "ददे स्वीकरोमीन्द्रेणानीतम् ॥
नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः ।
श्रवो॑ दे॒वेष्व॑क्रत ॥१२
नपा॑तः । दुः॒ऽगह॑स्य । मे॒ । स॒हस्रे॑ण । सु॒ऽराध॑सः ।
श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥१२
नपातः । दुःऽगहस्य । मे । सहस्रेण । सुऽराधसः ।
श्रवः । देवेषु । अक्रत ॥१२
“नपातः अरक्षितस्य "दुर्गहस्य दुःखं गाहमानस्य "मे संबन्धिनो जनाः "सहस्रेण अपरिमितेनेन्द्रदत्तेन गवादिधनेन "सुराधसः सुधनाः सन्तः “देवेषु प्रीतेषु । इन्द्रे प्रीत इत्यर्थः । “श्रवः अन्नं यशो वा “अक्रत । अलभन्तेत्यर्थः ॥ ॥ ४७ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|