सामग्री पर जाएँ

ऋग्वेदः सूक्तं ८.७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.६ ऋग्वेदः - मण्डल ८
सूक्तं ८.७
पुनर्वत्सः काण्वः
सूक्तं ८.८ →
दे. मरुतः। गायत्री


प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् ।
वि पर्वतेषु राजथ ॥१॥
यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् ।
नि पर्वता अहासत ॥२॥
उदीरयन्त वायुभिर्वाश्रासः पृश्निमातरः ।
धुक्षन्त पिप्युषीमिषम् ॥३॥
वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान् ।
यद्यामं यान्ति वायुभिः ॥४॥
नि यद्यामाय वो गिरिर्नि सिन्धवो विधर्मणे ।
महे शुष्माय येमिरे ॥५॥
युष्माँ उ नक्तमूतये युष्मान्दिवा हवामहे ।
युष्मान्प्रयत्यध्वरे ॥६॥
उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते ।
वाश्रा अधि ष्णुना दिवः ॥७॥
सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे ।
ते भानुभिर्वि तस्थिरे ॥८॥
इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः ।
इमं मे वनता हवम् ॥९॥
त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु ।
उत्सं कवन्धमुद्रिणम् ॥१०॥
मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे ।
आ तू न उप गन्तन ॥११॥
यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे ।
उत प्रचेतसो मदे ॥१२॥
आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम् ।
इयर्ता मरुतो दिवः ॥१३॥
अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम् ।
सुवानैर्मन्दध्व इन्दुभिः ॥१४॥
एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः ।
अदाभ्यस्य मन्मभिः ॥१५॥
ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः ।
उत्सं दुहन्तो अक्षितम् ॥१६॥
उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः ।
उत्स्तोमैः पृश्निमातरः ॥१७॥
येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् ।
राये सु तस्य धीमहि ॥१८॥
इमा उ वः सुदानवो घृतं न पिप्युषीरिषः ।
वर्धान्काण्वस्य मन्मभिः ॥१९॥
क्व नूनं सुदानवो मदथा वृक्तबर्हिषः ।
ब्रह्मा को वः सपर्यति ॥२०॥
नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः ।
शर्धाँ ऋतस्य जिन्वथ ॥२१॥
समु त्ये महतीरपः सं क्षोणी समु सूर्यम् ।
सं वज्रं पर्वशो दधुः ॥२२॥
वि वृत्रं पर्वशो ययुर्वि पर्वताँ अराजिनः ।
चक्राणा वृष्णि पौंस्यम् ॥२३॥
अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम् ।
अन्विन्द्रं वृत्रतूर्ये ॥२४॥
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः ।
शुभ्रा व्यञ्जत श्रिये ॥२५॥
उशना यत्परावत उक्ष्णो रन्ध्रमयातन ।
द्यौर्न चक्रदद्भिया ॥२६॥
आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः ।
देवास उप गन्तन ॥२७॥
यदेषां पृषती रथे प्रष्टिर्वहति रोहितः ।
यान्ति शुभ्रा रिणन्नपः ॥२८॥
सुषोमे शर्यणावत्यार्जीके पस्त्यावति ।
ययुर्निचक्रया नरः ॥२९॥
कदा गच्छाथ मरुत इत्था विप्रं हवमानम् ।
मार्डीकेभिर्नाधमानम् ॥३०॥
कद्ध नूनं कधप्रियो यदिन्द्रमजहातन ।
को वः सखित्व ओहते ॥३१॥
सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः ।
स्तुषे हिरण्यवाशीभिः ॥३२॥
ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय ।
ववृत्यां चित्रवाजान् ॥३३॥
गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः ।
पर्वताश्चिन्नि येमिरे ॥३४॥
आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः ।
धातार स्तुवते वयः ॥३५॥
अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा ।
ते भानुभिर्वि तस्थिरे ॥३६॥


सायणभाष्यम्

‘प्र यद्वः' इति षट्त्रिंशदृचं द्वितीयं सूक्तं कृण्वगोत्रस्य पुनर्वत्सस्यार्षं मारुतं गायत्रम् । तथा चानुक्रान्तं -- प्र यद्वः षट्त्रिंशत्पुनर्वत्सो मारुतम् ' इति । व्यूळ्हे दशरात्रे प्रथमे छन्दोम आग्निमारुतशस्त्र इदं सूक्तं मारुतनिविद्धानम् । सूत्रितं च - प्र यद्वस्त्रिष्टुभं दूतं व इत्याग्निमारुतम् ' ( आश्व. श्रौ. ८. ९) इति ॥


प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् ।

वि पर्व॑तेषु राजथ ॥१

प्र । यत् । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । मरु॑तः । विप्रः॑ । अक्ष॑रत् ।

वि । पर्व॑तेषु । रा॒ज॒थ॒ ॥१

प्र । यत् । वः । त्रिऽस्तुभम् । इषम् । मरुतः । विप्रः । अक्षरत् ।

वि । पर्वतेषु । राजथ ॥१

हे "मरुतः मितराविणो मितरोचिनो वा एतत्संज्ञा माध्यमका देवगणाः। पादादित्वात् ‘ अपादादौ ' इति पर्युदासादाष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । “वः युष्मभ्यं “विप्रः मेधावी स्तोता “त्रिष्टुभं त्रिषु सवनेषु प्रशस्यां त्रिभिर्देवैः स्तुतां वा यद्वा त्रिष्टुप्छन्दसा संबद्धां माध्यदिनसवनिकीम् “इषं सोमलक्षणमन्नं “यत् यदा “प्र “अक्षरत् प्रासिञ्चत् अग्नौ प्राक्षिपत् । यद्वा । त्रिष्टुभं त्रिष्टुप्छन्दस्कं स्तोत्रमिषं सोमं चेति योज्यम् । तदानीं यूयं “पर्वतेषु पर्ववत्सु शिलोच्चयेषु “वि “राजथ । तेन सोमेन लब्धबलाः सन्तो विशेषेण दीप्ता भवथ ॥


यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् ।

नि पर्व॑ता अहासत ॥२

यत् । अ॒ङ्ग । त॒वि॒षी॒ऽय॒वः॒ । याम॑म् । शु॒भ्राः॒ । अचि॑ध्वम् ।

नि । पर्व॑ताः । अ॒हा॒स॒त॒ ॥२

यत् । अङ्ग । तविषीऽयवः । यामम् । शुभ्राः । अचिध्वम् ।

नि । पर्वताः । अहासत ॥२

हे "तविषीयवः । तविषीति बलनाम। तां कामयमानाः । यद्वा । बलयुक्ताः । हे “शुभ्राः शोभमानाः “अङ्ग हे मरुतः “यामम् । याति गच्छ्तीति यामो रथः । तं “यत् यदा “अचिध्वं समचिनुध्वं अश्वादिभिः साधनैः संचितं संश्लिष्ट कुरुथ गमनार्थं तदानीं “पर्वताः गिरयोऽपि “नि “अहासत नितरां गच्छन्ति युष्मद्रथवेगाद्भीताः सन्तः स्वस्थानात् प्रचलन्ति । ओहाङ् गतौ ' । छान्दसो लुङ् ॥


उदी॑रयन्त वा॒युभि॑र्वा॒श्रास॒ः पृश्नि॑मातरः ।

धु॒क्षन्त॑ पि॒प्युषी॒मिष॑म् ॥३

उत् । ई॒र॒य॒न्त॒ । वा॒युऽभिः॑ । वा॒श्रासः॑ । पृश्नि॑ऽमातरः ।

धु॒क्षन्त॑ । पि॒प्युषी॑म् । इष॑म् ॥३

उत् । ईरयन्त । वायुऽभिः । वाश्रासः । पृश्निऽमातरः ।

धुक्षन्त । पिप्युषीम् । इषम् ॥३

“वाश्रासः वाशनशीलाः शब्दकारिणः “पृश्निमातरः । पृश्निर्माध्यमिका वाक् । सा माता जननी येषां ते तथोक्ताः । ऋतश्छन्दसि' (पा. सू. ५. ४. १५८) इति कपः प्रतिषेधः । ईदृशा मरुतः “वायुभिः । वान्ति गच्छन्तीति वायवः पृषत्यः। पृषतीभिर्वाहनभूताभिः स्वावयवभूतैर्वायुभिरेव वा “उदीरयन्त उद्गमयन्ति मेघादिकम् । तथा “पिप्युषीं वर्धयित्रीम् “इषम् अन्नं च स्तोतृभ्यः “धुक्षन्त दुहन्ति ।।


वप॑न्ति म॒रुतो॒ मिहं॒ प्र वे॑पयन्ति॒ पर्व॑तान् ।

यद्यामं॒ यान्ति॑ वा॒युभि॑ः ॥४

वप॑न्ति । म॒रुतः॑ । मिह॑म् । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् ।

यत् । याम॑म् । यान्ति॑ । वा॒युऽभिः॑ ॥४

वपन्ति । मरुतः । मिहम् । प्र । वेपयन्ति । पर्वतान् ।

यत् । यामम् । यान्ति । वायुऽभिः ॥४

“मरुतः एतत्संज्ञा देवाः "मिहं वृष्टिं “वपन्ति विकिरन्ति विक्षिपन्ति । तथा “पर्वतान् गिरीन् “प्र “वेपयन्ति प्रकम्पयन्ति । अयमर्थः कदेति चेत् । “यत् यदा "वायुभिः सार्धं "यामं रथं गमनं वा “यान्ति प्राप्नुवन्ति तदानीमित्यर्थः ।।


नि यद्यामा॑य वो गि॒रिर्नि सिन्ध॑वो॒ विध॑र्मणे ।

म॒हे शुष्मा॑य येमि॒रे ॥५

नि । यत् । यामा॑य । वः॒ । गि॒रिः । नि । सिन्ध॑वः । विऽध॑र्मणे ।

म॒हे । शुष्मा॑य । ये॒मि॒रे ॥५

नि । यत् । यामाय । वः । गिरिः । नि । सिन्धवः । विऽधर्मणे ।

महे । शुष्माय । येमिरे ॥५

हे मरुतः “वः युष्माकं “यामाय रथाय गमनाय वा “गिरिः । ‘सुपां सुलुक्' इति जसः सुः । गिरयः पर्वताः “यत् यदा “नि “येमिरे स्वयमेव नियम्यन्ते । तथा “सिन्धवः स्यन्दनशीलाः समुद्रा नद्यो वा विधर्मणे विधरणाय “महे महते “शुष्माय शोषकाय युष्मदीयाय बलाय “नि येमिरे स्वयमेव नियम्यन्ते । गिरयो नद्यश्च युष्मद्यामाद्बलाच्च भीत्या एकत्रैव स्थाने नियता वर्तन्त इत्यर्थः । तदानीं वपन्ति मरुतो मिहमिति शेषः ॥ यमेः कर्मकर्तरि लिट् । “यद्वृत्तान्नित्यम् ' इति निघातप्रतिषेधः ॥ ॥ १८ ॥


यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मान्दिवा॑ हवामहे ।

यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥६

यु॒ष्मान् । ऊं॒ इति॑ । नक्त॑म् । ऊ॒तये॑ । यु॒ष्मान् । दिवा॑ । ह॒वा॒म॒हे॒ ।

यु॒ष्मान् । प्र॒ऽय॒ति । अ॒ध्व॒रे ॥६

युष्मान् । ऊं इति । नक्तम् । ऊतये । युष्मान् । दिवा । हवामहे ।

युष्मान् । प्रऽयति । अध्वरे ॥६

हे मरुतः "युष्माँ "उ युष्मानेव “नक्तं रात्रौ “ऊतये रक्षणार्थं “हवामहे । “दिवा अह्नि च “युष्मान् एव आह्वयामहे । “अध्वरे । ध्वरो नास्त्यस्मिन्नित्यध्वरो यागः । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । यागे “प्रयति प्रगच्छति प्रवर्तमाने सति रक्षणार्थं "युष्मान् एवाह्वयामहे ॥


उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते ।

वा॒श्रा अधि॒ ष्णुना॑ दि॒वः ॥७

उत् । ऊं॒ इति॑ । त्ये । अ॒रु॒णऽप्स॑वः । चि॒त्राः । यामे॑भिः । ई॒र॒ते॒ ।

वा॒श्राः । अधि॑ । स्नुना॑ । दि॒वः ॥७

उत् । ऊं इति । त्ये । अरुणऽप्सवः । चित्राः । यामेभिः । ईरते ।

वाश्राः । अधि । स्नुना । दिवः ॥७

“त्ये ते पूर्वोक्तगुणाः “अरुणप्सवः अरुणवर्णरूपाः “चित्राः चायनीयाः आश्चर्यभूता वा “वाश्राः शब्दकारिणः एवंभूता मरुतः “यामेभिः यामैर्यानैः “दिवः “अधि द्युलोकस्योपरि “स्नुना सानुना समुच्छ्रितप्रदेशेन “उत् “ईरते उद्गच्छन्ति । “उ इति पूरणः ॥ ‘पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' इति सानुशब्दस्य स्नुभावः ॥


कारीर्यां सौर्यस्य हविषः ‘ सृजन्ति रश्मिम् ' इत्येषानुवाक्या। सूत्र्यते हि- ‘ सृजन्ति रश्मिमोजसा वहिष्ठेभिर्विहरन्यासि तन्तुम् ' (आश्व. श्रौ. २. १३) इति ।।

सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या॑य॒ यात॑वे ।

ते भा॒नुभि॒र्वि त॑स्थिरे ॥८

सृ॒जन्ति॑ । र॒श्मिम् । ओज॑सा । पन्था॑म् । सूर्या॑य । यात॑वे ।

ते । भा॒नुऽभिः॑ । वि । त॒स्थि॒रे॒ ॥८

सृजन्ति । रश्मिम् । ओजसा । पन्थाम् । सूर्याय । यातवे ।

ते । भानुऽभिः । वि । तस्थिरे ॥८

तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । ये मरुतः “सूर्याय सूर्यस्य । “षष्ठ्यर्थे चतुर्थी वक्तव्या ' इति चतुर्थी। "यातवे गन्तुं “रश्मिं व्याप्तम् । ' अशे रश च ' इत्यश्नोतेरौणादिको मिप्रत्ययो रशादेशश्च । यद्वा । रश्मिभिस्तेजोभिर्युक्तम् । “पन्थां पन्थानम् “ओजसा बलेन "सृजन्ति उत्पादयन्ति । वृत्रादिभिरावृतं सूर्यपथमावरकस्य वृत्रादेरपनयनेन जनयन्तीत्यर्थः । “ते मरुतः “भानुभिः तेजोभिः “वि “तस्थिरे कृत्स्नं जगत् व्याप्य अवतिष्ठन्ते ॥


इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः ।

इ॒मं मे॑ वनता॒ हव॑म् ॥९

इ॒माम् । मे॒ । म॒रु॒तः॒ । गिर॑म् । इ॒मम् । स्तोम॑म् । ऋ॒भु॒क्ष॒णः॒ ।

इ॒मम् । मे॒ । व॒न॒त॒ । हव॑म् ॥९

इमाम् । मे । मरुतः । गिरम् । इमम् । स्तोमम् । ऋभुक्षणः ।

इमम् । मे । वनत । हवम् ॥९

हे “मरुतः “इमां पुरोवर्तिनीं “मे मम “गिरं शस्त्ररूपां वाचं “वनत संभजत । हे "ऋभुक्षणः । महन्नामैतत् । महान्तः । जसि ‘ इतोऽत्सर्वनामस्थाने ' इत्यकारः। ‘वा षपूर्वस्य निगमे ' इति दीर्घभावः । ते यूयम् “इमं स्तोमं स्तोत्रं प्रगीतमन्त्रसाध्यं “मे मम “इमं पुरोवर्तिनं “हवम् आह्वानरूपं च याजुषं मन्त्रं वनत संभजत सेवध्वम् ॥


त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।

उत्सं॒ कव॑न्धमु॒द्रिण॑म् ॥१०

त्रीणि॑ । सरां॑सि । पृश्न॑यः । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ ।

उत्स॑म् । कव॑न्धम् । उ॒द्रिण॑म् ॥१०

त्रीणि । सरांसि । पृश्नयः । दुदुह्रे । वज्रिणे । मधु ।

उत्सम् । कवन्धम् । उद्रिणम् ॥१०

“पृश्नयः मरुन्मातृभूता गावः “वज्रिणे वज्रवत इन्द्राय । तादर्थ्ये चतुर्थी । इन्द्रार्थं "मधु मधुरं क्षीरादिकमाश्रयणद्रव्यं “त्रीणि “सरांसि सर इव सोमैः पूरितानि त्रीणि सवनानि त्रिष्वपि सवनेषु श्रयणार्थं “दुदुह्रे दुदुहिरे । यद्वा । मधु मधुरं सोमं वज्रिणे वज्रयुक्ताय मरुद्गणाय त्रीणि सरांसि द्रोणकलशाधवनीयपूतभृल्लक्षणानि प्रति पृश्नयो माध्यमिका वाचो दुदुह्रे वृष्टिद्वारा दुहन्ति । यद्वा पृश्नय इति मातृवाचिना शब्देन पुत्रा उच्यन्ते । पृश्निमातरो मरुत इंद्रार्थं त्रीणि सरांसि द्रोणकलशादीनि मधु मधुना सोमेन पूरयितुम् "उत्सम् उत्स्रवणशीलं "कवन्धम् उदकम् “उद्रिणम् उदकवन्तं मेघं दुदुह्रे दुहते ।। दुहेश्छान्दसो लिट् । ‘इरयो रे' इति रेभावः । पादादित्वादनिघातः ॥ ॥ १९ ॥


मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे ।

आ तू न॒ उप॑ गन्तन ॥११

मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । सु॒म्न॒ऽयन्तः॑ । हवा॑महे ।

आ । तु । नः॒ । उप॑ । ग॒न्त॒न॒ ॥११

मरुतः । यत् । ह । वः । दिवः । सुम्नऽयन्तः । हवामहे ।

आ । तु । नः । उप । गन्तन ॥११

हे "मरुतः “यद्ध यदा खलु “वः युष्मान् "सुम्नायन्तः सुम्नं सुखमात्मन इच्छन्तो वयं “दिवः द्युलोकात् "हवामहे स्तुतिभिराह्वयामहे । “आ “तु अनन्तरमेव शीघ्रं “नः अस्मान् “उप “गन्तन उपगच्छत । गमेर्लोटि ‘तप्तनप्तनथनाश्च ' इति तनबादेशः ॥


यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ ।

उ॒त प्रचे॑तसो॒ मदे॑ ॥१२

यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । रुद्राः॑ । ऋ॒भु॒क्ष॒णः॒ । दमे॑ ।

उ॒त । प्रऽचे॑तसः । मदे॑ ॥१२

यूयम् । हि । स्थ । सुऽदानवः । रुद्राः । ऋभुक्षणः । दमे ।

उत । प्रऽचेतसः । मदे ॥१२

“उत अपि च हे “सुदानवः शोभनदाना हे "रुद्राः रुद्रपुत्राः। पादादित्वादामन्त्रितनिघाताभावः । हे “ऋभुक्षणः महान्तः उरुतेजस्का वा ईदृशा हे मरुतः “यूयं “हि खलु “दमे यज्ञगृहे "मदे मदकरे सोमे पीते सति “प्रचेतसः “स्थ प्रकृष्टज्ञाना भवथ ॥


आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसम् ।

इय॑र्ता मरुतो दि॒वः ॥१३

आ । नः॒ । र॒यिम् । म॒द॒ऽच्युत॑म् । पु॒रु॒ऽक्षुम् । वि॒श्वऽधा॑यसम् ।

इय॑र्त । म॒रु॒तः॒ । दि॒वः ॥१३

आ । नः । रयिम् । मदऽच्युतम् । पुरुऽक्षुम् । विश्वऽधायसम् ।

इयर्त । मरुतः । दिवः ॥१३

हे “मरुतः “नः अस्माकं “रयिं धनं “दिवः द्युलोकात् “आ “इयर्त आगमयत । 'ऋ गतौ' इत्यस्मादन्तर्भावितण्यर्थात् जौहोत्यादिकाल्लोटि तस्य ‘तप्तनप्तन' इति तबादेशः । ‘ अनुदात्ते च' इत्यभ्यस्ताद्युदात्तत्वम् । कीदृशं रयिम् । “मदच्युतं मदं स्रवन्तं यद्वा शात्रवस्य मदस्य च्यावयितारं “पुरुक्षुं बहुनिवासं बहुभिः स्तूयमानं वा “विश्वधायसं विश्वेषां सर्वेषामस्मदीयानां धारणाय पोषणाय पर्याप्तम् ॥


अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वम् ।

सु॒वा॒नैर्म॑न्दध्व॒ इन्दु॑भिः ॥१४

अधि॑ऽइव । यत् । गि॒री॒णाम् । याम॑म् । शु॒भ्राः॒ । अचि॑ध्वम् ।

सु॒वा॒नैः । म॒न्द॒ध्वे॒ । इन्दु॑ऽभिः ॥१४

अधिऽइव । यत् । गिरीणाम् । यामम् । शुभ्राः । अचिध्वम् ।

सुवानैः । मन्दध्वे । इन्दुऽभिः ॥१४

हे शुभ्राः शोभमाना मरुतः “गिरीणां पर्वतानाम् “अधीव उपरीव “यत् यदा “यामं युष्मदीयं रथम् “अचिध्वं गमनसाधनैरश्वादिभिः उपचितं कुरुथ तदानीं “सुवानैः अभिषूयमाणैः “इन्दुभिः सोमैः “मन्दध्वे मादयध्वे ॥


ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्य॑ः ।

अदा॑भ्यस्य॒ मन्म॑भिः ॥१५

ए॒ताव॑तः । चि॒त् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ ।

अदा॑भ्यस्य । मन्म॑ऽभिः ॥१५

एतावतः । चित् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः ।

अदाभ्यस्य । मन्मऽभिः ॥१५

"मर्त्यः मनुष्यः स्तोता “मन्मभिः स्तोत्रैः “सुम्नं सुखं धनं वा “एषां मरुतां स्वभूतं "भिक्षेत याचेत । इदानीं गणाभिप्रायेणैकवदाह। “एतावतश्चित् यत्परिमाणस्य च “अदाभ्यस्य केनापि हिंसितुमशक्यस्य मरुद्गणस्य सुम्नं भिक्षेत ॥ एतच्छब्दात् यत्तदेतेभ्यः' इति परिमाणेऽर्थे वतुप् । ‘ आ सर्वनाम्नः' इत्यात्वम् ॥ ॥ २० ॥


ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभि॑ः ।

उत्सं॑ दु॒हन्तो॒ अक्षि॑तम् ॥१६

ये । द्र॒प्साःऽइ॑व । रोद॑सी॒ इति॑ । धम॑न्ति । अनु॑ । वृ॒ष्टिऽभिः॑ ।

उत्स॑म् । दु॒हन्तः॑ । अक्षि॑तम् ॥१६

ये । द्रप्साःऽइव । रोदसी इति । धमन्ति । अनु । वृष्टिऽभिः ।

उत्सम् । दुहन्तः । अक्षितम् ॥१६

“ये मरुतः “द्रप्साइव उदबिन्दव इव “रोदसी द्यावापृथिव्यौ “वृष्टिभिः वर्षणैः “अनु “धमन्ति अनुगच्छन्ति साकल्येन व्याप्नुवन्ति । यद्वा । अनुध्माते उच्छ्वसितावयवे कुर्वन्ति । किं कुर्वन्तः । “अक्षितम् अक्षीणमुदकम् “उत्सं मेघं दुहन्तः पूरयन्तो मेघादवाङ्मुखं पातयन्तः। दुहेः ‘लक्षणहेत्वोः' (पा. सू. ३. २. १२६) इति हेतौ शतृप्रत्ययः । यत एवं दुहन्ति ततो रोदसी अनुधमन्तीत्यर्थः ॥


उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभि॑ः ।

उत्स्तोमै॒ः पृश्नि॑मातरः ॥१७

उत् । ऊं॒ इति॑ । स्वा॒नेभिः॑ । ई॒र॒ते॒ । उत् । रथैः॑ । उत् । ऊं॒ इति॑ । वा॒युऽभिः॑ ।

उत् । स्तोमैः॑ । पृश्नि॑ऽमातरः ॥१७

उत् । ऊं इति । स्वानेभिः । ईरते । उत् । रथैः । उत् । ऊं इति । वायुऽभिः ।

उत् । स्तोमैः । पृश्निऽमातरः ॥१७

“स्वानेभिः स्वानैः शब्दैर्मरुतः “उत् “ईरते उद्गच्छन्ति । ‘स्वन शब्दे'। ‘स्वनहसोर्वा ' (पा. सू. ३. ३. ६२ ) इत्यपो विकल्पितत्वात् पक्षे घञ् । ‘कर्षात्वतः' इत्यन्तोदात्तत्वम् । ‘ बहुलं छन्दसि' इति भिस ऐसभावः। “उ इति पूरणः । तथा “रथैः रथप्रमुखैः वाहनैश्चोदीरते। “पृश्निमातरः --- ॥


येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृत॑म् ।

रा॒ये सु तस्य॑ धीमहि ॥१८

येन॑ । आ॒व । तु॒र्वश॑म् । यदु॑म् । येन॑ । कण्व॑म् । ध॒न॒ऽस्पृत॑म् ।

रा॒ये । सु । तस्य॑ । धी॒म॒हि॒ ॥१८

येन । आव । तुर्वशम् । यदुम् । येन । कण्वम् । धनऽस्पृतम् ।

राये । सु । तस्य । धीमहि ॥१८

"येन आत्मीयेन रक्षणेन "तुर्वशम् एतत्संज्ञं "यदुम् एतत्संज्ञं च राजर्षिम् "आव यूयं रक्षितवन्तः स्थ । अवतेर्लिटि मध्यमबहुवचने रूपमेतत् । “येन च “धनस्पृतं धनकामं "कण्वम् ऋषिं रक्षितवन्तः स्थ “तस्य युष्मदीयं रक्षणं “राये धनार्थं “सु “धीमहि शोभनं ध्यायाम ॥


इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिष॑ः ।

वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः ॥१९

इ॒माः । ऊं॒ इति॑ । वः॒ । सु॒ऽदा॒न॒वः॒ । घृ॒तम् । न । पि॒प्युषीः॑ । इषः॑ ।

वर्धा॑न् । का॒ण्वस्य॑ । मन्म॑ऽभिः ॥१९

इमाः । ऊं इति । वः । सुऽदानवः । घृतम् । न । पिप्युषीः । इषः ।

वर्धान् । काण्वस्य । मन्मऽभिः ॥१९

हे "सुदानवः शोभनदाना मरुतः “घृतं "न घृतमिव "पिप्युषीः वर्धयित्र्यः शरीरपुष्टिहेतुभूताः "इमाः इदानीं प्रदीयमानाः "इषः अन्नानि सोमलक्षणानि "काण्वस्य कण्वगोत्रस्य मम संबन्धिभिः “मन्मभिः स्तोत्रैः सार्धं "वः युष्मान् "वर्धान् वर्धयन्तु ॥ वृधेर्ण्यन्तात् लेटि रूपमेतत् । "उ इति पूरणः ॥


क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः ।

ब्र॒ह्मा को व॑ः सपर्यति ॥२०

क्व॑ । नू॒नम् । सु॒ऽदा॒न॒वः॒ । मद॑थ । वृ॒क्त॒ऽब॒र्हि॒षः॒ ।

ब्र॒ह्मा । कः । वः॒ । स॒प॒र्य॒ति॒ ॥२०

क्व । नूनम् । सुऽदानवः । मदथ । वृक्तऽबर्हिषः ।

ब्रह्मा । कः । वः । सपर्यति ॥२०

मरुदागमनस्य विलम्बमसहमान ऋषिरनया वितर्कयति । "सुदानवः शोभनदाना हे "वृक्तबर्हिषः । वृक्तं वृक्णं छिन्नं बर्हिर्येषां यागाय । यद्वा । बर्हिरिति यज्ञनाम । वृक्तः प्रवृक्तो यज्ञो येषां ते तथोक्ताः । हे ईदृशा मरुतः “क्व कुत्र देशे "नूनम् इदानीं "मदथ माद्यथ । मदी हर्षे '। व्यत्ययेन शप् । “कः च “ब्रह्मा ब्राह्मणः स्तोता “वः युष्मान् “सपर्यति परिचरति । किंकारणं बहुशः स्तुतैरपि भवद्भिरिदानीं नागम्यत इति न जानीमः ॥ ॥ २१ ॥


न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे॑भिर्वृक्तबर्हिषः ।

शर्धाँ॑ ऋ॒तस्य॒ जिन्व॑थ ॥२१

न॒हि । स्म॒ । यत् । ह॒ । वः॒ । पु॒रा । स्तोमे॑भिः । वृ॒क्त॒ऽब॒र्हि॒षः॒ ।

शर्धा॑न् । ऋ॒तस्य॑ । जिन्व॑थ ॥२१

नहि । स्म । यत् । ह । वः । पुरा । स्तोमेभिः । वृक्तऽबर्हिषः ।

शर्धान् । ऋतस्य । जिन्वथ ॥२१

पूर्वया वितर्क्य इदानीं निश्चिनोति । हे "वृक्तबर्हिषः प्रवृक्तयज्ञका मरुतः "नहि “ष्म तन्न खलु संभवति । “वः यूयं “पुरा अस्मत्तः पूर्वमेव कृतैः स्तोमैरन्यदीयैः स्तोत्रैः “ऋतस्य उदकस्य सत्यस्य यज्ञस्य वा संबन्धिनः “शर्धान् आत्मीयानि बलानि “जिन्वथ प्रीणयथ इति “यद्ध यत्खलु तन्न संभवत्येव । अतः शीघ्रमागच्छतेत्यर्थः। यद्वा । वृक्तबर्हिष इत्यृत्विङ्नाम । हे ऋत्विजः वः युष्माकं संबन्धिभिः स्तोमेभिः स्तोत्रैर्ऋतस्य यज्ञस्य संबन्धिनो यागार्हाञ्छर्धान् मारुतानि बलानि पुरा अन्येभ्यः स्तोतृभ्यः पूर्वं यद्यस्मात्कारणाज्जिन्वथ यूयं प्रीणयथ। जिविः प्रीणनार्थः । तस्मादन्यदीयैः स्तोत्रैः नहि ष्म न खलु ते मरुतो वशीभवन्तीत्यर्थः ॥


प्रवर्ग्ये महावीरे पयसोरासिक्तयोः सतोः ‘समु त्ये महतीरपः' इत्येषानुवक्तव्याः । सूत्र्यते हि - आसिक्तयोः समु त्ये महतीरप इति महावीरमादायोत्तिष्ठत्सु ' (आश्व. श्रौ. ४. ७) इति ।।

समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य॑म् ।

सं वज्रं॑ पर्व॒शो द॑धुः ॥२२

सम् । ऊं॒ इति॑ । त्ये । म॒ह॒तीः । अ॒पः । सम् । क्षो॒णी इति॑ । सम् । ऊं॒ इति॑ । सूर्य॑म् ।

सम् । वज्र॑म् । प॒र्व॒ऽशः । द॒धुः॒ ॥२२

सम् । ऊं इति । त्ये । महतीः । अपः । सम् । क्षोणी इति । सम् । ऊं इति । सूर्यम् ।

सम् । वज्रम् । पर्वऽशः । दधुः ॥२२

“त्ये ते पूर्वोक्तगुणा मरुतः “महतीः बह्वीः “अपः वृष्टयुदकानि "समु “दधुः संदधति । ओषध्यादिभिः संयोजयन्ति । यद्वा । घर्मकाले सूर्यरश्मिभिराहृता उपरि सम्यग्धारयन्ति ॥ ‘ बृहन्महतोरुपसंख्यानम् ' इति महतः परस्य ङीप उदात्तत्वम् ।' ऊडिदम् ' इत्यादिना अप्शब्दात्परः शस् उदात्तः ।। तथा “क्षोणी क्षोण्यौ द्यावापृथिव्यौ च ते मरुतः “सं दधुः । यथा स्वे स्वे स्थानेऽवतिष्ठेते तथा धारयन्ति । सूत्रात्मना वायुना सर्वं जगद्धार्यते । तथा च श्रूयते - वायुर्वै गोतम तत्सूत्रं वायुना वै गोतम सूत्रेणायं च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति ' (बृ. उ. ३. ७. २) इति । तथा "सूर्यं सर्वस्य प्रेरकमादित्यं चान्तरिक्षे "सं दधुः सम्यग्धारयन्ति । उशब्दः समुच्चये। ईदृशास्ते मरुतः "वज्रम् आत्मीयमायुधं "पर्वशः पर्वणि पर्वणि वृत्रस्य सर्वेष्ववयवसंबन्धिषु हननार्थं "सं दधुः समयूयुजन् ।।


वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिन॑ः ।

च॒क्रा॒णा वृष्णि॒ पौंस्य॑म् ॥२३

वि । वृ॒त्रम् । प॒र्व॒ऽशः । य॒युः॒ । वि । पर्व॑तान् । अ॒रा॒जिनः॑ ।

च॒क्रा॒णाः । वृष्णि॑ । पौंस्य॑म् ॥२३

वि । वृत्रम् । पर्वऽशः । ययुः । वि । पर्वतान् । अराजिनः ।

चक्राणाः । वृष्णि । पौंस्यम् ॥२३

"अराजिनः राज्ञा केनचित्स्वामिनानधिष्ठिताः। यद्वा । राजा स्वामी अस्य न विद्यत इत्यराजेन्द्रः । तद्युक्तः । "वृष्णि वीर्यवत् पौस्यं बलं "चक्राणाः कुर्वाणा मरुतः "वृत्रम् आवरकमसुरं मेघं वा "पर्वशः पर्वणि पर्वणि भेदेन "वि "ययुः विशिष्टं वधमगमयन् । तथा “पर्वतान् गिरींश्च विशिष्टं वधं प्रापयन् ॥


अनु॑ त्रि॒तस्य॒ युध्य॑त॒ः शुष्म॑मावन्नु॒त क्रतु॑म् ।

अन्विन्द्रं॑ वृत्र॒तूर्ये॑ ॥२४

अनु॑ । त्रि॒तस्य॑ । युध्य॑तः । शुष्म॑म् । आ॒व॒न् । उ॒त । क्रतु॑म् ।

अनु॑ । इन्द्र॑म् । वृ॒त्र॒ऽतूर्ये॑ ॥२४

अनु । त्रितस्य । युध्यतः । शुष्मम् । आवन् । उत । क्रतुम् ।

अनु । इन्द्रम् । वृत्रऽतूर्ये ॥२४

“त्रितस्य आप्त्यस्यैतत्संज्ञस्य "युध्यतः शत्रून् संप्रहरतो राजर्षेः "शुष्मं परेषां शोषकं बलं मरुतः "अनु "आवन् साहाय्यार्थमन्वगच्छन् । यद्वा । अनुगुणमरक्षन् । "उत अपि च "क्रतुं तदीयं कर्म चारक्षन् । अपि च “वृत्रतूर्ये वृत्रवधार्थे संग्रामे "इन्द्रं च "अनु आवन् अरक्षन् ॥


वि॒द्युद्ध॑स्ता अ॒भिद्य॑व॒ः शिप्रा॑ः शी॒र्षन्हि॑र॒ण्ययी॑ः ।

शु॒भ्रा व्य॑ञ्जत श्रि॒ये ॥२५

वि॒द्युत्ऽह॑स्ताः । अ॒भिऽद्य॑वः । शिप्राः॑ । शी॒र्षन् । हि॒र॒ण्ययीः॑ ।

शु॒भ्राः । वि । अ॒ञ्ज॒त॒ । श्रि॒ये ॥२५

विद्युत्ऽहस्ताः । अभिऽद्यवः । शिप्राः । शीर्षन् । हिरण्ययीः ।

शुभ्राः । वि । अञ्जत । श्रिये ॥२५

विद्युद्धस्ताः विद्योतमानायुधबाहवः "अभिद्यवः अभिगतदीप्तयः “शुभ्राः शोभमाना मरुतः “शीर्षन् शीर्ष्णि शिरस्यात्मीयेषु शिरःसु “हिरण्ययीः हिरण्मयीः स्वर्णमयानि “शिप्राः शिरस्त्राणानि “श्रिये शोभार्थं “व्यञ्जत व्यञ्जयन्ति । व्यक्तीकुर्वन्ति । धारयन्तीत्यर्थः ॥ ॥ २२ ॥


उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया॑तन ।

द्यौर्न च॑क्रदद्भि॒या ॥२६

उ॒शना॑ । यत् । प॒रा॒ऽवतः॑ । उ॒क्ष्णः । रन्ध्र॑म् । अया॑तन ।

द्यौः । न । च॒क्र॒द॒त् । भि॒या ॥२६

उशना । यत् । पराऽवतः । उक्ष्णः । रन्ध्रम् । अयातन ।

द्यौः । न । चक्रदत् । भिया ॥२६

हे मरुतः "उशनाः । व्यत्ययेन प्रथमा । उशनसा काव्येनर्षिणा स्तूयमाना यूयम् । यद्वा । उशनःशब्दात् ‘सुपां सुलुक्' इति जसः सुः ॥ उशनसः स्तोतॄन् कामयमाना यूयम् "उक्ष्णः सेक्तुः कामानां वर्षितुरात्मीयस्य रथस्य वृष्टिहेतोरन्तरिक्षस्य वा "रन्ध्रं मध्यं "परावतः दूरदेशात् "यत् यदा “अयातन अगच्छत ॥ यातेर्लङि मध्यमबहुवचनस्य ‘तप्तनप्तनथनाश्च इनि तनादेशः ।। तदानीं “द्यौर्न । अत्र द्युशब्देन तत्रत्यो जनसंघो लक्ष्यते । द्युलोके वर्तमानो जनसंघ इव पार्थिवमपि सर्वं भूतजातं "भिया युष्मद्वेगजनितथा भीत्या "चक्रदत् अशब्दयत् अकम्पत वा ॥


आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः ।

देवा॑स॒ उप॑ गन्तन ॥२७

आ । नः॒ । म॒खस्य॑ । दा॒वने॑ । अश्वैः॑ । हिर॑ण्यपाणिऽभिः ।

देवा॑सः । उप॑ । ग॒न्त॒न॒ ॥२७

आ । नः । मखस्य । दावने । अश्वैः । हिरण्यपाणिऽभिः ।

देवासः । उप । गन्तन ॥२७

हे देवासः दानादिगुणयुक्ता मरुतः "नः अस्माकं "मखस्य यज्ञस्य "दावने दानाय । ददातेरौणादिको भावे वनिः । "हिरण्यपाणिभिः स्वर्णमयपादैः स्वर्णालंकृतैर्हितरमणीयपादैर्वा “अश्वैः “आ “उप "गन्तन उपागच्छत प्राप्नुत ।। गमेर्लोटि छान्दसः शपो लुक् । 'तप्तनप्तनथनाश्च ' इति तनबादेशः । अत एव ङित्त्वाभावादनुनासिकलोपो न क्रियते ॥


यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः ।

यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ॥२८

यत् । ए॒षा॒म् । पृष॑तीः । रथे॑ । प्रष्टिः॑ । वह॑ति । रोहि॑तः ।

यान्ति॑ । शु॒भ्राः । रि॒णन् । अ॒पः ॥२८

यत् । एषाम् । पृषतीः । रथे । प्रष्टिः । वहति । रोहितः ।

यान्ति । शुभ्राः । रिणन् । अपः ॥२८

“एषां मरुतां "रथे "पृषतीः पृषद्भिः श्वेतबिन्दुभिर्युक्ता मृग्यः "यत् यदा वहन्ति यदा च "प्रष्टिः प्राशुः शीघ्रगामी । यद्वा । प्रमुखे युज्यमानः सन् । "रोहितः पृषतः पृषद्भिर्युक्तो मृगः “वहति तदानीं “शुभ्राः शोभमाना मरुतः “यान्ति गच्छन्ति । तेषां गमने च सति “अपः उदकानि वृष्टिलक्षणानि “रिणन् अरिणन् अगच्छन् । सर्वत्र प्रवहन्ति ॥ ‘ री गतिरेषणयोः । क्रैयादिकः । प्वादीनां ह्रस्वः'। छान्दसोऽडभावः। समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' (पा. सू. ८. १. १८. ५) इति वचनादत्र पूर्वपदस्य वाक्यान्तरगतत्वात् तिङ्ङतिङः ' इति निघाताभावः ॥


सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति ।

य॒युर्निच॑क्रया॒ नर॑ः ॥२९

सु॒ऽसोमे॑ । श॒र्य॒णाऽव॑ति । आ॒र्जी॒के । प॒स्त्य॑ऽवति ।

य॒युः । निऽच॑क्रया । नरः॑ ॥२९

सुऽसोमे । शर्यणाऽवति । आर्जीके । पस्त्यऽवति ।

ययुः । निऽचक्रया । नरः ॥२९

“सुषोमे शोभनसोमयुक्ते "आर्जीके । ऋजीका नाम देशाः । तत्संबन्धिनि “शर्यणावति कुरुक्षेत्रस्य जघनार्धे शर्यणावत्संज्ञे सरसि “पस्त्यावति । पस्त्यम् इति गृहनाम । यज्ञगृहोपेते सोमपानाय “नरः नेता मरुतः “निचक्रया नीचीनचक्रया अवाङ्मुखं प्रवर्तमानया रथकट्यया “ययुः यान्ति गच्छन्ति । यातेश्छान्दसो लिट् । यद्वा । नरो नेतार ऋत्विज उक्तगुणविशिष्टे शर्यणावति मरुद्यागाय सोममाहर्तुं निचक्रया नीचीनचक्रया शकट्या ययुः गच्छन्ति ।।


क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् ।

मा॒र्डी॒केभि॒र्नाध॑मानम् ॥३०

क॒दा । ग॒च्छा॒थ॒ । म॒रु॒तः॒ । इ॒त्था । विप्र॑म् । हव॑मानम् ।

मा॒र्डी॒केभिः॑ । नाध॑मानम् ॥३०

कदा । गच्छाथ । मरुतः । इत्था । विप्रम् । हवमानम् ।

मार्डीकेभिः । नाधमानम् ॥३०

हे "मरुतः "इत्था इत्थम् अनेन प्रकारेण "हवमानम् आह्वयन्तं स्तुवन्तं "नाधमानं याचमानं “विप्रं मेधाविनं स्तोतारं मां “कदा कस्मिन् काले "मार्डीकेभिः सुखहेतुभिर्धनैः सार्धं "गच्छाथ गच्छथ । विलम्बं मा कृषत शीघ्रमागच्छतेति भावः ॥ ॥ २३ ॥


कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन ।

को व॑ः सखि॒त्व ओ॑हते ॥३१

कत् । ह॒ । नू॒नम् । क॒ध॒ऽप्रि॒यः॒ । यत् । इन्द्र॑म् । अज॑हातन ।

कः । वः॒ । स॒खि॒ऽत्वे । ओ॒ह॒ते॒ ॥३१

कत् । ह । नूनम् । कधऽप्रियः । यत् । इन्द्रम् । अजहातन ।

कः । वः । सखिऽत्वे । ओहते ॥३१

हे "कधप्रियः कथया स्तुत्या प्रीयमाणाः । ‘ कथ वाक्यप्रबन्धने ' । अस्माद्भावे 'चिन्तिपूजि । (पा. सू. ३. ३. १०५) इत्यादिना अङ् । ततष्टाप् । उत्तरपदे ‘ ङ्यापोः संज्ञाच्छन्दसोः ' (पा. सू. ६. ३.६३) इति ह्रस्वत्वम् । धत्वं छान्दसम् । ईदृशा हे मरुतः वृत्रेण सह युध्यमानम् "इन्द्रं "नूनं सत्यम् "अजहातन पर्यत्यजतेति "यत् एतत् तत् "कद्ध कदा खलु कस्मिन् काले जातम् । न कदाचिदपीत्यर्थः । तथा च ब्राह्मणं - मरुतो हैनं नाजहुः प्रहर भगवो जहि वीरयस्व ' (ऐ. बा. ३. २० ) इति । ' वृत्रस्य त्वा श्वसथादीषमाणाः' (ऋ. सं. ८. ९६.७) इत्यादि च निगमान्तरम् । यत एवमतः कारणात् "वः सुष्माकं "सखित्वे । व्यत्ययेन सप्तमी । सखिभावं "कः स्तोता "ओहते याचते । यद्वा । वहते प्राप्नोति । ईदृशमनपायं युष्मत्सखित्वं दुर्लभमित्यर्थः ॥


स॒हो षु णो॒ वज्र॑हस्तै॒ः कण्वा॑सो अ॒ग्निं म॒रुद्भि॑ः ।

स्तु॒षे हिर॑ण्यवाशीभिः ॥३२

स॒हो इति॑ । सु । नः॒ । वज्र॑ऽहस्तैः । कण्वा॑सः । अ॒ग्निम् । म॒रुत्ऽभिः॑ ।

स्तु॒षे । हिर॑ण्यऽवाशीभिः ॥३२

सहो इति । सु । नः । वज्रऽहस्तैः । कण्वासः । अग्निम् । मरुत्ऽभिः ।

स्तुषे । हिरण्यऽवाशीभिः ॥३२

"वज्रहस्तैः वज्रबाहुभिः “हिरण्यवाशीभिः । हिरण्मयी वाशी तक्षणसाधनमायुधं येषामस्ति तादृशैः । “मरुद्भिः "सहो सहैव वर्तमानम् "अग्निं "नः अस्मदीया हे "कण्वासः कण्वाः स्तोतारः कण्वगोत्रा वा ऋषयः यूयं "स्तुषे स्तुध्वम् । यद्वा । न इति प्रथमार्थे द्वितीया । नः वयं कण्वगोत्राः ।। ‘ अस्मदो द्वयोश्च' (पा. सू. १. २. ५९ ) इत्येकस्मिन् बहुवचनम्। सविशेषणस्य प्रतिषेधः ' (का. १. २. ५९. १) इति तु व्यत्ययेन प्रवर्तते । स्तुषे स्तुवे ॥ स्तौतेरुत्तमैकवचने ‘सिब्बहुलम्' इति सिप् ॥


ओ षु वृष्ण॒ः प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ ।

व॒वृ॒त्यां चि॒त्रवा॑जान् ॥३३

ओ इति॑ । सु । वृष्णः॑ । प्रऽय॑ज्यून् । आ । नव्य॑से । सु॒वि॒ताय॑ ।

व॒वृ॒त्याम् । चि॒त्रऽवा॑जान् ॥३३

ओ इति । सु । वृष्णः । प्रऽयज्यून् । आ । नव्यसे । सुविताय ।

ववृत्याम् । चित्रऽवाजान् ॥३३

“वृष्णः वर्षितॄन् अभीष्टफलदान् "प्रयज्यून् प्रकर्षेण यष्टव्यान् "चित्रवाजान् विचित्रगमनान् विचित्रबलान् विचित्रधनान् वा एवंभूतान् मरुतः "सु सुषु “ओ आ उ “ववृत्यां आवर्तयामि। अस्मदभिमुखं यथा गच्छन्ति तथा करोमि । अपि च "नव्यसे नवीयसे नवतराय अत्यन्तं प्रशस्ताय “सुविताय सुष्ठु प्राप्तव्याय धनाय च तान् “आ ववृत्याम् आवर्तयामि ॥


गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः ।

पर्व॑ताश्चि॒न्नि ये॑मिरे ॥३४

गि॒रयः॑ । चि॒त् । नि । जि॒ह॒ते॒ । पर्शा॑नासः । मन्य॑मानाः ।

पर्व॑ताः । चि॒त् । नि । ये॒मि॒रे॒ ॥३४

गिरयः । चित् । नि । जिहते । पर्शानासः । मन्यमानाः ।

पर्वताः । चित् । नि । येमिरे ॥३४

मरुत्सु आगच्छत्सु "गिरयश्चित् गिरयोऽपि शिलोच्चया अपि "पर्शानासः पीड्यमानाः । यद्वा । मरुद्भिः स्पृश्यमानाः । अत एव "मन्यमानाः अभिमन्यमाना बाध्यमानाः सन्तः “नि "जिहते नितरां गच्छन्ति । मरुद्वेगेन स्थानात् प्रच्यवन्ते । तथा “पर्वताश्चित् पर्ववन्तो मेघा अपि तदीयेन गमनेन “नि "येमिरे नियम्यन्ते । यद्वा । गिरयः क्षुद्राः शिलोच्चया महान्तः पर्वताः ॥


आक्ष्ण॒यावा॑नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः ।

धाता॑रः स्तुव॒ते वय॑ः ॥३५

आ । अ॒क्ष्ण॒ऽयावा॑नः । व॒ह॒न्ति॒ । अ॒न्तरि॑क्षेण । पत॑तः ।

धाता॑रः । स्तु॒व॒ते । वयः॑ ॥३५

आ । अक्ष्णऽयावानः । वहन्ति । अन्तरिक्षेण । पततः ।

धातारः । स्तुवते । वयः ॥३५

“अक्ष्णयावानः अक्ष्णं व्याप्तं गच्छन्तः । यद्वा । अक्ष्णश्चक्षुषोऽपि शीघ्रं यान्तीत्यक्ष्णयावानः । यातेः ‘आतो मनिन्' इति वनिप् । ईदृशा अश्वाः "अन्तरिक्षेण आकाशमार्गेण “पततः गच्छतो मरुतः “आ “वहन्ति आनयन्ति । यद्वा । पतत इत्यश्वानां विशेषणम् । अन्तरिक्षे नभसि पततो गच्छन्तः । छान्दसो नुमभावः । किं कुर्वन्तः । "स्तुवते स्तोत्रं कुर्वते जनाय “वयः अन्नं “धातारः विधातारः कुर्वाणाः ॥


अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो॑ अ॒र्चिषा॑ ।

ते भा॒नुभि॒र्वि त॑स्थिरे ॥३६

अ॒ग्निः । हि । जनि॑ । पू॒र्व्यः । छन्दः॑ । न । सूरः॑ । अ॒र्चिषा॑ ।

ते॒ । भा॒नुऽभिः॑ । वि । त॒स्थि॒रे॒ ॥३६

अग्निः । हि । जनि । पूर्व्यः । छन्दः । न । सूरः । अर्चिषा ।

ते । भानुऽभिः । वि । तस्थिरे ॥३६

“अग्निर्हि अग्निः खलु “अर्चिषा तेजसा "पूर्व्यः सर्वेषु देवेषु मुख्यः "जानि अजायत । ‘ दीपजन (पा. सू. ३. १. ६१) इत्यादिना कर्तरि लुङि च्लेश्चिणादेशः । तत्र दृष्टान्तः । "छन्दः उपच्छन्दनीयः "सूरः “न सूर्य इव। तदनन्तरं "ते पूर्वोक्तगुणा मरुतः “भानुभिः दीप्तिभिः "वि “तस्थिरे विविधमवतिष्ठन्ते । अग्निमारुते ह्यग्निः पूर्वं स्तूयते पश्चान्मरुतः । तदपेक्षया च पूर्वोत्तरयोरर्धर्चयोः क्रमेणाग्निर्मरुतश्च स्तूयन्ते ॥ ॥ २४ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७&oldid=220776" इत्यस्माद् प्रतिप्राप्तम्