ऋग्वेदः सूक्तं ८.५३
← सूक्तं ८.५२ | ऋग्वेदः - मण्डल ८ सूक्तं ८.५३ मेध्यः काण्वः। |
सूक्तं ८.५४ → |
दे. इन्द्रः। प्रगाथः ( )। |
उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।
पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ॥१॥
य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे ।
तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥२॥
आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः ।
ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः ॥३॥
विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु ।
शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥४॥
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।
आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥५॥
आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् ।
प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक् ॥६॥
यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते ।
वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ॥७॥
अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः ।
त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम् ॥८॥
भाष्यम्
'उपमं त्वा' इत्यष्टर्चं पञ्चमं सूक्तं काण्वस्य मेध्यस्यार्षम् । अनुक्रान्तं च-- 'उपमं त्वष्टौ मेध्यः' इति । अयुजां बृहती छन्दः । युजां सतोबृहती छन्दः । विनियोगः सूत्रादवगन्तव्यः ।।
उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणा॑म् ।
पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥१
उ॒प॒ऽमम् । त्वा॒ । म॒घोना॑म् । ज्येष्ठ॑म् । च॒ । वृ॒ष॒भाणा॑म् ।
पू॒र्भित्ऽत॑मम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गो॒ऽविद॑म् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥१
उपऽमम् । त्वा । मघोनाम् । ज्येष्ठम् । च । वृषभाणाम् ।
पूर्भित्ऽतमम् । मघवन् । इन्द्र । गोऽविदम् । ईशानम् । रायः । ईमहे ॥ १ ॥
हे मघवन् धनवन्निन्द्र मघोनां धनवतां मध्ये उपमं उपमाभूतं वृषभाणां कामवर्षितॄणां मध्ये ज्येष्ठमतिशयेन प्रशस्यं च त्वा त्वां रायः गवाश्वादिधनानि ईमहे याचामहे वयम् । कीदृशं त्वाम् । पूर्भित्तमम् अतिशयेन शत्रुपुरां भेत्तारमत एव गोविदं गवां लम्भयितारम् ईशानं सर्वविद्यानां नियन्तारम् । ' ईशानः सर्वविद्यानाम् ' (तै, आ. १०.४७) इति श्रुतेः ।।
य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे ।
तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे ॥२
यः । आ॒युम् । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । अर्द॑यः । व॒वृ॒धा॒नः । दि॒वेऽदि॑वे ।
तम् । त्वा॒ । व॒यम् । हरि॑ऽअश्वम् । श॒तऽक्र॑तुम् । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ॥२
यः । आयुम् । कुत्सम् । अतिथिऽग्वम् । अर्दयः । ववृधानः । दिवेऽदिवे ।
तम् । त्वा । वयम् । हरिऽअश्वम् । शतक्रतुम् । वाजऽयन्तः । हवामहे ॥ २ ॥
हे इन्द्र यस्त्वं दिवेदिवे प्रतिदिनं वावृधानः स्तुत्यः अतिशयेन वर्धमानः सन् आयुम् एतन्नामानमृषिम् उत्सम् एतत्संज्ञमृषिम् अतिथिग्वम् एतत्संज्ञमृषिं च अर्दयः वरप्रदाने (°प्रदानेन) पीडयसि । ते आत्मानम् अलं मन्यमानाः वारयन्ति । त्वं तु हठात् अभीष्टवरं याचते(याचत ) इत्युक्त्वा तान् क्लेशयसीत्यर्थः । तं तादृशं हर्यश्वं हरिसंज्ञौ अश्वौ यस्य तादृशं शतक्रतुं बहुकर्माणं त्वा त्वाम् वाजवन्तः( ०यन्तः)अन्नकामा वयं यजमानाः हवामहे आह्वयामः ।।
आ नो॒ विश्वे॑षां॒ रसं॒ मध्वः॑ सिञ्च॒न्त्वद्र॑यः ।
ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतीन्द॑वः ॥३
आ । नः॒ । विश्वे॑षाम् । रस॑म् । मध्वः॑ । सि॒ञ्च॒न्तु॒ । अद्र॑यः ।
ये । प॒रा॒ऽवति॑ । सु॒न्वि॒रे । जने॑षु । आ । ये । अ॒र्वा॒ऽवति॑ । इन्द॑वः ॥३
आ। नः । विश्वेषाम् । रसम् । मध्वः । सिञ्चन्तु । अद्रयः ।
ये। पराऽवति । सुन्विरे । जनेषु । आ । ये । अर्वाऽवति । इन्दवः ॥ ३ ॥
विश्वेषां सर्वेषां नोऽस्माकं संबन्धिनः अद्रयः । तास्थ्यात्तिच्छब्द्यम् । अद्रिप्रभवास्ते सोमाः मध्वः मधुरम् । कर्मणि षष्ठी। रसमात्मीयं द्रवमासिञ्चन्तु कार्त्स्न्येन क्षरन्तु । इन्द्रार्थमिति शेषः । ते के। ये इन्दवः सोमाः परावति दूरदेशे वर्तमानाः । जनेषु यजमानलक्षणेषु निमित्तेषु आ सुन्विरे अभिमुख्येन अभिषुता ऋत्विाग्भिः । ये च इन्दवः अर्वावति समीपदेशे वर्तमानाः सुन्विरे अभिषुतास्ते सर्वेऽपि मिलित्वा इन्द्रार्थं स्वरसं सिञ्चन्त्वित्यर्थः ।।
विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्व॒न्त्वा वसु॑ ।
शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ॥४
विश्वा॑ । द्वेषां॑सि । ज॒हि । च॒ । अव॑ । च॒ । आ । कृ॒धि॒ । विश्वे॑ । स॒न्व॒न्तु॒ । आ । वसु॑ ।
शीष्टे॑षु । चि॒त् । ते॒ । म॒दि॒रासः॑ । अं॒शवः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ ॥४
विश्वा । द्वेषांसि । जहि । च । अव । च। आ । कृधि । विश्वे । सन्वन्तु । आ । वसु ।
शीष्टेषु । चित् । ते । मदिरासः । अंशवः । यत्र । सोमस्य । तृम्पसि ॥ ४ ॥ ॥ २२ ॥
हे इन्द्र विश्वा विश्वानि सर्वाणि द्वेषांसि अस्माकममित्राणि जहि नाशय । किंचास्मान् अव रक्ष । आ च कृधि आ समन्तात् प्रशस्तान् कुरु च । किंच विश्वे सर्वे जनाः वसु धनम् आ सन्वन्तु आभिमुख्येन ददतु । अस्मभ्यमिति शेषः । अथ च यत्र येष्वस्मासु स्थितस्य सोमस्य तृम्पसि पानेन तृप्तो भवसि तेषु शीष्टेषु विशिष्टेष्वस्मासु वर्तमानाः अंशवः सोमाः ते चित् तवैव मदिरासः मादकाः सन्तु । नेतरस्य कस्यचित् ॥ ॥ २२ ।।
इन्द्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभिः॑ ।
आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभिः॑ ॥५
इन्द्र॑ । नेदी॑यः । आ । इत् । इ॒हि॒ । मि॒तऽमे॑धाभिः । ऊ॒तिऽभिः॑ ।
आ । श॒म्ऽत॒म॒ । शम्ऽत॑माभिः । अ॒भिष्टि॑ऽभिः । आ । सु॒ऽआ॒पे॒ । स्वा॒पिऽभिः॑ ॥५
इन्द्र । नेदीयः । आ । इत् । इहि । मितऽमेधाभिः । ऊतिऽभिः ।
आ। शम्ऽतम । शम्ऽतमाभिः । अभिष्टिऽभिः । आ । सुऽआपे । स्वापिऽभिः ॥ ५ ॥
हे इन्द्र परमेश्वर त्वं मितमेधाभिः मिताः परिच्छिन्नाः मेधाः अनुग्रहबुद्धयो याभिस्ताभिरनुग्रहसहिताभिः ऊतिभिः रक्षाभिः सह नेदीय इत् अन्तिकतममेव एहि आगच्छ । किंच हे शंतम सुखतमेन्द्र शंतमाभिरभिष्टिभिः अभितः प्रियाभिश्च ऊतिभिः एहि । अथ च हे स्वापे सुतरामाप्तेन्द्र स्वापिभिः शोभना आपयः आप्ता बन्धवः यासु ताभिरूतिभिरेहि । उपसर्गवशाद्योग्याक्रियाध्याहारः ।।
आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गम् ।
प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिन॒ः क्रतुं॑ पुन॒त आ॑नु॒षक् ॥६
आ॒जि॒ऽतुर॑म् । सत्ऽप॑तिम् । वि॒श्वऽच॑र्षणिम् । कृ॒धि । प्र॒ऽजासु॑ । आऽभ॑गम् ।
प्र । सु । ति॒र॒ । शची॑भिः । ये । ते॒ । उ॒क्थिनः॑ । क्रतु॑म् । पु॒न॒ते । आ॒नु॒षक् ॥६
आजिऽतुरम् । सत्ऽपतिम् । विश्वऽचर्षणिम् । कृधि । प्रजासु । आऽभगम् ।
प्र । सु । तिर । शचीभिः । ये। ते । उक्थिनः । क्रतुम् । पुनते । आनुषक् ॥ ६ ॥
हे इन्द्र त्वं प्रजासु अस्मत्पुत्रपौत्रादिषु आभगम् आभिमुख्येन भगं भजनीयं धनं कृधि कुरु । कीदृशम् । आजितुरं संग्रामे त्वरमाणम् । जित्वरमित्यर्थः । सत्पतिं सतां पालकं विश्वचर्षणिम् । विश्वाः सर्वाश्चर्षणयो मनुष्या दासदासीलक्षणा यस्मिन् तम् । किंच ये यजमानाः उक्थिनः स्तुतिमतस्ते तव आनुषक् अनुषक्तम् । त्वया संगतमित्यर्थः । क्रतुं कर्मविशेषं पुनते कुर्वते तानस्मान् शचीभिः धनप्रदानादिकर्माभिः सु सुतरां प्र तिर प्रवर्धय । प्रपूर्वस्तिरतिवर्धनार्थः ।।
यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते ।
व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे ॥७
यः । ते॒ । साधि॑ष्ठः । अव॑से । ते । स्या॒म॒ । भरे॑षु । ते॒ ।
व॒यम् । होत्रा॑भिः । उ॒त । दे॒वहू॑तिऽभिः । स॒स॒ऽवांसः॑ । म॒ना॒म॒हे॒ ॥७
यः । ते। साधिष्ठः । अवसे । ते । स्याम । भरेषु । ते ।
वयम् । होत्राभिः । उत । देवहूतिऽभिः । ससऽवांसः । मनामहे ॥ ७ ॥
हे इन्द्र यः अस्मद्गणः अवसे रक्षणाय ते तव साधिष्ठः अतिशयेन योऽस्ति ( ) तद्गणगतस्ते वयं भरेषु संग्रामेषु ते तव संबन्धिनः स्याम भवेम । संगते त्वत्पालनीया भवेमेत्यर्थः । उतापि च हे इन्द्र ससवांसः हविर्लक्षणान्नवन्तः । ससमित्यन्ननाम ‘नेमः ससम्' इत्यन्ननामसु पाटोत् । तादृशा वयं यजमानाः देवहूतिभिः । देवानिन्द्रादीन् हवन्ति ता देवहूतयः । ताभिः होत्राभिः वाग्भिः स्तुतिलक्षणाभिः त्वां मनामहे स्तुमः । होत्रेति वाङ्नाम ' ऋक् होत्रा गीः' इति वाङ्नामसु पाठात् ॥
अ॒हं हि ते॑ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभिः॑ ।
त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे॑ मथी॒नाम् ॥८
अ॒हम् । हि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । वा॒ज॒ऽयुः । आ॒जिम् । यामि॑ । सदा॑ । ऊ॒तिऽभिः॑ ।
त्वाम् । इत् । ए॒व । तम् । अमे॑ । सम् । अ॒श्व॒ऽयुः । ग॒व्युः । अग्रे॑ । म॒थी॒नाम् ॥८
अहम् । हि । ते । हरिऽवः । ब्रह्म । वाजऽयुः । आजिम् । यामि । सदा । ऊतिऽभिः ।
त्वाम् । इत् । एव । तम् । अमे । सम् । अश्वऽयुः । गव्युः । अग्रे । मथीनाम् ॥८॥ ॥२३॥
हे हरिवः हरिसंज्ञकाश्वोपेतेन्द्र ते त्वदीयः योऽहं मेध्य ऋषिः वाजयुः अन्नकामः सन् ब्रह्म अन्नमुद्दिश्य सदा सर्वदा ऊतिभिः त्वत्कृताभिः रक्षाभिः सह आजिं संग्रामं यामि प्राप्नोमि । हीति प्रसिद्धम् । त्वामेव सम् अमे संगतो भवामि । संग्रामे त्वामेवाश्रयामि । नेतरं कंचनेत्यर्थः । एवेत्यनर्थको निपातः ॥ ॥ २३ ॥
टिप्पणी
८.५३.५ इन्द्र नेदीय इति
इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तं मरुत एव स्वापयो नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हैवैनं तं नाजहुस्तस्मादेषोऽच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति। - ऐब्रा. ३.१६
मण्डल ८ | ||||||
---|---|---|---|---|---|---|