ऋग्वेदः सूक्तं ८.५४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.५४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ८.५३ ऋग्वेदः - मण्डल ८
सूक्तं ८.५४
मातरिश्वा काण्वः।
सूक्तं ८.५५ →
दे. इन्द्रः, ३-४ विश्वे देवाः। प्रगाथः - (विषमा बृहती, समा सतोबृहती)।

एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः ।
ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः ॥१॥
नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे ।
यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥२॥
आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम् ॥३॥
पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः ।
आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥४॥
यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम ।
तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥५॥
आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो ।
वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे ॥६॥
सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् ।
अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् ॥७॥
वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।
महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय ॥८॥

भाष्यम्

'एतत्ते' इति अष्टर्चं षष्ठं सूक्तं काण्वस्य मातरिश्वानस्यार्षमैन्द्रम् (मातरिश्वन आर्षमैन्द्रम् )। अनुक्रम्यते च- 'एतत्ते मातरिश्वा नो विश्व इति वैश्वदेवः प्रगाथः' इति । तृतीयाचतुर्थ्यौ विश्वेदेवदेवताके । अन्यासां षण्णामिन्द्रो देवता । अयुजां बृहती छन्दः युजां सतोबृहती छन्दः । विनियोगः सूत्रादवगन्तव्यः ॥


ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ।

ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभिः॑ ॥१

ए॒तत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ ।

ते । स्तोभ॑न्तः । ऊर्ज॑म् । आ॒व॒न् । घृ॒त॒ऽश्चुत॑म् । पौ॒रासः॑ । न॒क्ष॒न् । धी॒तिऽभिः॑ ॥१

एतत् । ते । इन्द्र। वीर्यम् । गीःऽभिः । गृणन्ति । कारवः ।।

ते । स्तोभन्तः । ऊर्जम् । आवन् । घृतऽश्चुतम् । पौरासः । नक्षन् । धीतिऽभिः ॥ १ ॥

हे इन्द्र ये कारवः स्तोतारः ते तव संबन्धि एतत् दृश्यमानं वृष्ट्यादिलक्षणसामर्थ्यं गीर्भिः स्तुतिरूपाभिर्वाग्भिः गृणन्ति स्तुवन्ति ते स्तोभन्तः स्तोतारः ऊर्जम् अन्नम् आवन् प्राप्नुवन्ति । किंच ते पौरासः पुरे भवाः स्तोतारः धीतिभिरङ्गुलीभिः घृतश्चुतं घृतस्राविणं गवादिगणं नक्षन् व्याप्नुवन्ति । त्वदनुग्रहात् गवादिपशून् अङ्गुलीभिः सर्वदा दुहन्तीत्यर्थः ॥


नक्ष॑न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मन्द॑से ।

यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्व ॥२

नक्ष॑न्ते । इन्द्र॑म् । अव॑से । सु॒ऽकृ॒त्यया॑ । येषा॑म् । सु॒तेषु॑ । मन्द॑से ।

यथा॑ । स॒म्ऽव॒र्ते । अम॑दः । यथा॑ । कृ॒शे । ए॒व । अ॒स्मे इति॑ । इ॒न्द्र॒ । म॒त्स्व॒ ॥२

नक्षन्ते । इन्द्रम् । अवसे । सुऽकृत्यया । येषाम् । सुतेषु । मन्दसे ।

यथा । सम्ऽवर्ते । अमदः । यथा । कुशे । एव । अस्मे इति । इन्द्र । मत्स्व ॥ २ ॥

हे इन्द्र येषां यजमानानां संबन्धिषु सुतेष्वभिषुतेषु सोमेषु निभातेषु (निपीतेषु ) त्वं मन्दसे हृष्यसि ते यजमानाः अवसे अन्नाय रक्षणाय वा सुकृत्यया शोभनेन सोमाभिषवकर्मणा इन्द्रं परमेश्वरं त्वां नक्षन्ते व्याप्नुवन्ति । नक्षतिर्व्याप्तिकर्मा ‘इन्वति नक्षति ' इति व्याप्तिकर्मसु पाठात् । अन्नाद्यर्थं त्वामाश्रयन्त इत्यर्थः । अतो हे इन्द्र यथा येन प्रकारेण संवर्ते एतन्नामके ऋषौ यजमाने सति अमदः हृष्टवानसि यथा च कृशे एतन्नाम्नि यजमाने अमदः एव एवमनेन प्रकारेण अस्मे अस्मासु काण्वेषु मत्स्व हृष्टो भव सोमपानादिनेति शेषः ।।


आ नो॒ विश्वे॑ स॒जोष॑सो॒ देवा॑सो॒ गन्त॒नोप॑ नः ।

वस॑वो रु॒द्रा अव॑से न॒ आ ग॑मञ्छृ॒ण्वन्तु॑ म॒रुतो॒ हव॑म् ॥३

आ । नः॒ । विश्वे॑ । स॒ऽजोष॑सः । देवा॑सः । गन्त॑न । उप॑ । नः॒ ।

वस॑वः । रु॒द्राः । अव॑से । नः॒ । आ । ग॒म॒न् । शृ॒ण्वन्तु॑ । म॒रुतः॑ । हव॑म् ॥३

आ। नः । विश्वे । सऽजोषसः । देवासः । गन्तन । उप । नः ।।

वसवः । रुद्राः । अवसे । नः । आ । गमन् । शृण्वन्तु । मरुतः । हवम् ॥ ३ ॥

सजोषसः सह जुषमाणाः विश्वे देवासः सर्वे देवाः नोऽस्माकं यज्ञमुद्दिश्येति शेषः । नोऽस्माकमुप समीपे आ गन्तन आगच्छन्तु । किंच वसवोऽष्टौ रुद्रा एकादश च नोऽस्माकमवसे रक्षणाय आ गमन् आगच्छन्तु । मरुतः एकोनपञ्चाशत्संख्याका देवास्तु हवमस्मत्कृतं स्तोत्रं शृण्वन्तु ।।


पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यव॑न्तु स॒प्त सिन्ध॑वः ।

आपो॒ वात॒ः पर्व॑तासो॒ वन॒स्पतिः॑ शृ॒णोतु॑ पृथि॒वी हव॑म् ॥४

पू॒षा । विष्णुः॑ । हव॑नम् । मे॒ । सर॑स्वती । अव॑न्तु । स॒प्त । सिन्ध॑वः ।

आपः॑ । वातः॑ । पर्व॑तासः । वन॒स्पतिः॑ । शृ॒णोतु॑ । पृ॒थि॒वी । हव॑म् ॥४

पूषा । विष्णुः । हवनम् । मे। सरस्वती । अवन्तु । सप्त । सिन्धवः ।

आपः । वातः । पर्वतासः । वनस्पतिः। शृणोतु । पृथिवी । हवम् ॥ ४ ॥ ॥ २४ ॥

पूषा पोषको देवः विष्णुर्व्यापको देवः सरस्वती । सर इत्युदकनाम । तद्वती देवी च एते सर्वे मे मम मातरिश्वानस्य (मातरिश्वनः ) ऋषेः हवनमाह्वानम् । स्तोत्रमिति यावत् । अवन्तु शृण्वन्तु । अवतिरत्र श्रवणकर्मा ।' अव रक्षणगति' इत्यस्मिन् सूत्रे () तस्य श्रवणाभिधानात् । किंच सप्त सप्तसंख्याकाः सिन्धवो गङ्गाद्या नद्य आपः जलाभिमानिन्यो देवताः वातो वायुः पर्वतासः पर्ववतां मेर्वादीनामभिमानिनो देवाश्च मे हवनम् अवन्तु शृण्वन्तु । अथ च वनस्पतिः वनानां पातारः पालको (पालका) देवाः पृथिवी च देवी मे हवं स्तोत्रं शृणोतु ।। ॥ २४ ॥


यदि॑न्द्र॒ राधो॒ अस्ति॑ ते॒ माघो॑नं मघवत्तम ।

तेन॑ नो बोधि सध॒माद्यो॑ वृ॒धे भगो॑ दा॒नाय॑ वृत्रहन् ॥५

यत् । इ॒न्द्र॒ । राधः॑ । अस्ति॑ । ते॒ । माघो॑नम् । म॒घ॒व॒त्ऽत॒म॒ ।

तेन॑ । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे । भगः॑ । दा॒नाय॑ । वृ॒त्र॒ऽह॒न् ॥५

यत् । इन्द्र । राधः । अस्ति । ते । माघोनम् । मघवत्तम ।।

तेन । नः । बोधि । सधऽमाद्यः । वृधे । भगः । दानाय । वृत्रऽहन् ॥ ५ ॥

हे मघवत्तम अतिशयेन धनवन्निन्द्र ते तव स्वभूतं माघोनं मघवत्स्वामिकं यत् प्रसिद्ध राधः धनमस्ति भवति तेन राधसा धनेन हे वृत्रहन् वृत्रहन्तरिन्द्र त्वं दानार्थं वृधे वर्धनार्थं च नोऽस्मान् पात्रभूतान् बोधि बुध्यस्व । तद्धनदानेन अस्मान् समृद्धान् कर्तुं जानीहीत्यर्थः । कीदृशस्त्वम् । सधमाद्यः सहमादनयोग्यः भगो भजनीयश्च ।।


आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो ।

वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥६

आजि॑ऽपते । नृ॒ऽप॒ते॒ । त्वम् । इत् । हि । नः॒ । वाजे॑ । आ । व॒क्षि॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।

वी॒ती । होत्रा॑भिः । उ॒त । दे॒ववी॑तिऽभिः । स॒स॒ऽवांसः॑ । वि । शृ॒ण्वि॒रे॒ ॥६

आजिऽपते । नृऽपते । त्वम् । इत् । हि। नः । वाजे । आ । वक्षि । सुक्रतो इति सुक्रतो ।

वीती । होत्रभिः । उत। देववीतिऽभिः । ससऽवांसः । वि । श्रृण्विरे ॥ ६ ॥

हे आजिपते संग्रामपालक हे नेतृपते (नृपते ) नेतॄणां सैनिकानां पालक हे सुक्रतो शोभनकर्मवन्निन्द्र, त्वमित् त्वमेव नोऽस्मान् वाजे संग्रामे आवक्षि आवहसि प्रापयसि । त्वत्साहाय्येन वयं धनार्थं संग्रामं गन्तुमुत्सहामह इत्यर्थः । कीदृशस्त्वम् । होत्राभिः स्तुतिलक्षणाभिः वाग्भिः सह। वीती अशनवान् स्तुतिभिः प्रोत्सहमानो हविरत्तेत्यर्थः । उतापि च ससवांसः हविर्लक्षणान्नवन्तो यजमानाः


सन्ति॒ ह्य१॒॑र्य आ॒शिष॒ इन्द्र॒ आयु॒र्जना॑नाम् ।

अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ॥७

सन्ति॑ । हि । अ॒र्ये । आ॒ऽशिषः॑ । इन्द्रे॑ । आयुः॑ । जना॑नाम् ।

अ॒स्मान् । न॒क्ष॒स्व॒ । म॒घ॒ऽव॒न् । उप॑ । अव॑से । धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् ॥७

सन्ति । हि। अर्ये । आऽशिषः । इन्द्रे । आयुः । जनानाम् ।

अस्मान् । नक्षस्व । मघवन् । उप । अवसे । धुक्षस्व । पिप्युषीम् । इषम् ॥ ७ ॥

हे परमेश्वर हि यस्मात् जनानां जायमानानां यजमानानामस्माकं स्वभूतमायुः चरुपुरोडाशाद्यन्नम् आशिषः गवाश्वाद्यैश्वर्याणि च अर्ये जगत्स्वामिनि इन्द्रे परमेश्वरे त्वयि सन्ति समर्पितानि भवन्ति । अतो हे मघवन् धनवन्निन्द्र अस्मान् यजमानान् उप नक्षस्व समीपे व्याप्नुहि । आत्मीयत्वेन स्वसमीपे कुर्वित्यर्थः । किंचास्माकमवसे रक्षणाय पिप्युषीम् अतिशयेन पालयित्रीम् इषमन्नं धुक्षस्व प्रपूरय देहीत्यर्थः ।।


व॒यं त॑ इन्द्र॒ स्तोमे॑भिर्विधेम॒ त्वम॒स्माकं॑ शतक्रतो ।

महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क॑ण्वाय॒ नि तो॑शय ॥८

व॒यम् । ते॒ । इ॒न्द्र॒ । स्तोमे॑भिः । वि॒धे॒म॒ । त्वम् । अ॒स्माक॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

महि॑ । स्थू॒रम् । श॒श॒यम् । राधः॑ । अह्र॑यम् । प्रस्क॑ण्वाय । नि । तो॒श॒य॒ ॥८

वयम् । ते । इन्द्र । स्तोमेभिः । विधेम । त्वम् । अस्माकम् । शतक्रतो इति शतक्रतो ।

महि । स्थूरम् । शशयम् । राधः । अह्रयम् । प्रस्र्कण्वाय । नि । तोशय ॥ ८ ॥ ॥२५॥

हे इन्द्र वयं यजमानाः ते त्वदीयाः स्मः । त्वं चास्माकमसि । 'त्वमस्माकं तवस्मसि' (ऋ. सं. ८. ९२. ३२) इति श्रुतेः । अतः हे शतक्रतो बहुकर्मवन्निन्द्र स्तोमेभिः स्तोत्रैः विधेम परिचरेम त्वाम् । यस्मात्त्वदीया वयं तस्मात्त्वं प्रस्कण्वाय कण्वपुत्राय मह्यं मातरिश्वनाय ( मातरिश्वने ) राधो धनं नि तोशय नियमेन देहि । तदेव राधो विशिनष्टि । महि महत् पूज्यं स्थूरं स्थूलम् । प्रौढमित्यर्थः । शशयं देवब्राह्मणादिशरीरे शयानं तैरुपभोग्यमित्यर्थः । अह्रयं लज्जारहितम् । पापवर्त्मना लब्धं धनं हि लज्जासहितं भवति । इदं तु न तथा । ईश्वरानुग्रहलब्धत्वात्तस्येत्यर्थः ॥ ॥ २५ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.५४&oldid=209006" इत्यस्माद् पुनः प्राप्तिः