ऋग्वेदः सूक्तं ८.५५
← सूक्तं ८.५४ | ऋग्वेदः - मण्डल ८ सूक्तं ८.५५ कृशः काण्वः। |
सूक्तं ८.५६ → |
दे. इन्द्रः, प्रस्कण्वश्च, ५ अग्निसूर्यौ। गायत्री, ५ पङ्क्तिः। |
भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति ।
राधस्ते दस्यवे वृक ॥१॥
शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते ।
मह्ना दिवं न तस्तभुः ॥२॥
शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि ।
शतं मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥३॥
सुदेवा स्थ काण्वायना वयोवयो विचरन्तः ।
अश्वासो न चङ्क्रमत ॥४॥
आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः ।
श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे ॥५॥
भाष्यम्
' भूरीत्' इति पञ्चर्चं सप्तमं सूक्तं काण्वस्य कृशस्यार्षं प्रस्कण्वदानदेवताकं गायत्रम् । अनुकान्तं च--- भूरीत् पञ्च कृशः प्रस्कण्वस्य दानस्तुतिर्गायत्रं तु तृतीयान्त्ये अनुष्टुभौ' इति । अन्त्यतृतीययोरनुष्टुप् छन्दः । अन्यासां गायत्री छन्दः । विनियोगः सूत्रादवगन्तव्यः ।।
भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति ।
राध॑स्ते दस्यवे वृक ॥१
भूरि॑ । इत् । इन्द्र॑स्य । वी॒र्य॑म् । वि । अख्य॑म् । अ॒भि । आ । अ॒य॒ति॒ ।
राधः॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ ॥१
भूरि । इत् । इन्द्रस्य । वीर्यम् । वि । अख्यम् । अभि । आ । अयति ।
राधः । ते । दस्यवे । वृक ॥ १ ॥
इन्द्रस्य समर्थस्य प्रस्कण्वस्य वीर्यं दानलक्षणसामर्थ्यं भूरीत् प्रचुरमेव सत् अभि अभितः आ अयति आभिमुख्येन प्राप्नोतीति व्यख्यं व्यज्ञासिषमहम् । ईश्वरेणाल्पमपि कृतं कर्म बहु भवत् प्रसिद्धयतीत्यर्थः । इदानीमृषिः प्रत्यक्षीकृत्याह । हे वृक शत्रुविकर्तन प्रस्कण्व ते तव संबन्धि राधो धनं दस्यवे दस्युं हन्तुं समर्थं भवतीति शेषः ।।
श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते ।
म॒ह्ना दिवं॒ न त॑स्तभुः ॥२
श॒तम् । श्वे॒तासः॑ । उ॒क्षणः॑ । दि॒वि । तारः॑ । न । रो॒च॒न्ते॒ ।
म॒ह्ना । दिव॑म् । न । त॒स्त॒भुः॒ ॥२
शतम् । श्वेतासः । उक्षणः । दिवि । तारः । न । रोचन्ते ।
मह्ना । दिवम् । न। तस्तभुः ॥२॥
हे प्रस्कण्व त्वया दत्ताः शतसंख्याकाः श्वेतासः श्वेताः शुक्लवर्णाः उक्षणः उक्षाणः रेतःसेचनसमर्था बलीवर्दा रोचन्ते दीप्यन्ते । क इव । दिवि द्युलोके तारो न तारा इव । ता यथा दिवि रोचन्ते तद्वदेते भुवीत्यर्थः । किंच मह्ना तेजसो महत्त्वे ( महत्त्वेन ) दिवं न तारा यथा द्युलोकं तस्तभुः व्याप्नुवन्ति तद्वदेते मह्ना यशसा महत्त्वेन भुवं व्याप्नुवन्ति ।
श॒तं वे॒णूञ्छ॒तं शुनः॑ श॒तं चर्मा॑णि म्ला॒तानि॑ ।
श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतम् ॥३
श॒तम् । वे॒णून् । श॒तम् । शुनः॑ । श॒तम् । चर्मा॑णि । म्ला॒तानि॑ ।
श॒तम् । मे॒ । ब॒ल्ब॒ज॒ऽस्तु॒काः । अरु॑षीणाम् । चतुः॑ऽशतम् ॥३
शतम् । वेणून् । शतम् । शुनः । शतम् । चर्माणि । म्लातानि ।
शतम् । मे। बल्बजऽस्तुकाः । अरुषीणाम् । चतुःऽशतम् ॥ ३ ॥
प्रस्कण्वः शतमपरिमितान् वेणून् मस्करान् । प्रादादिति सर्वत्र शेषः । शतं शतसंख्याकान् शुनः सारमेयान् प्रादात् । तथा शतं बहूनि म्लातानि मृदूकृतानि चर्माणि अजिनानि प्रदात् ।। किंच शतमपरिमिताः बल्बजस्तुकाः तृणपूलाः मे मह्यं कृशनाम्ने ऋषये प्रादात् । अथ च अरुषीणामारोचमानानां गवां चतुःशतं प्रादात् ॥
सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्तः॑ ।
अश्वा॑सो॒ न च॑ङ्क्रमत ॥४
सु॒ऽदे॒वाः । स्थ॒ । का॒ण्वा॒य॒नाः॒ । वयः॑ऽवयः । वि॒ऽच॒रन्तः॑ ।
अश्वा॑सः । न । च॒ङ्क्र॒म॒त॒ ॥४
सुऽदेवाः । स्थ । काण्वायनाः । वयःऽवयः । विऽचरन्तः ।
अश्वासः । न । चङ्क्रमत ।। ४ ।।
हे काण्वायनाः कण्वगोत्राः प्रस्कण्वाः वयोवयः अतिशयेन पक्षिण इव । लुप्तोपमेयम् । विचरन्तः विहायसि चरन्तः यूयं सुदेवाः स्थ कल्याणदेवाः भवथ । अतोऽस्मदाशिषा अश्वा इव चङ्क्रमत विहरत यूयम् ॥
आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रवः॑ ।
श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥५
आत् । इत् । सा॒प्तस्य॑ । च॒र्कि॒र॒न् । न । अनू॑नस्य । महि॑ । श्रवः॑ ।
श्यावीः॑ । अ॒ति॒ऽध्व॒सन् । प॒थः । चक्षु॑षा । च॒न । स॒म्ऽनशे॑ ॥५
आत् । इत् । साप्तस्य । चर्किरन् । ने। अनूनस्य । महि। श्रवः ।
श्यावीः । अतिऽध्वसन् । पथः । चक्षुषा । चन । सम्ऽनशे ॥ ५ ॥ ॥ २६ ॥
आदित् दानानन्तरमेव अनूनस्य अन्यूनस्य । सर्वोत्कृष्टस्येति यावत् । साप्तस्य एवंनाम्नः कण्वपुत्रस्य संबन्धि महि महत् श्रवः यशः न चर्किरन् न कर्तुमिच्छन्ति । तद्यशः संपादयितुं केचित् नेशते इत्यर्थः । किंच पथः धर्ममार्गात् सकाशात् अतिध्वसन् अतिशयेनाधः पतन् कृपणः पुमान् श्यावीः कपिला गाः चक्षुषा चन नेत्रेणापि संनशे सम्यक् व्याप्तुं संद्रष्टुं नेष्टे । किमुत वक्तव्यं तद्यशःसंपादने नेष्ठे इति ॥ ॥ २६ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|