ऋग्वेदः सूक्तं ८.२८
← सूक्तं ८.२७ | ऋग्वेदः - मण्डल ८ सूक्तं ८.२८ मनुर्वैवस्वतः |
सूक्तं ८.२९ → |
दे. विश्वे देवाः। गायत्री, ४ पुरउष्णिक् |
ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् ।
विदन्नह द्वितासनन् ॥१॥
वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः ।
पत्नीवन्तो वषट्कृताः ॥२॥
ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् ।
पुरस्तात्सर्वया विशा ॥३॥
यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् ।
अरावा चन मर्त्यः ॥४॥
सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम् ।
सप्तो अधि श्रियो धिरे ॥५॥
सायणभाष्यम्
' ये त्रिंशति ' इति पञ्चर्चमष्टमं सूक्तम् । अत्रानुक्रान्तं - ये त्रिंशति पञ्चोपान्त्या पुरउष्णिक ' इति । मनुर्ऋषिः । प्राग्वत्सप्रीयपरिभाषया गायत्री छन्दः । उपान्त्या पुरउष्णिक् । पूर्ववत् विश्वे देवा देवता । तृतीये छन्दोमे वैश्वदेवशस्त्रे ये त्रिंशति ' इत्येतत्सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च - 'ये त्रिंशतीति वैश्वदेवम्' (आश्व. श्रौ. ८. ११) इति ॥
ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् ।
वि॒दन्नह॑ द्वि॒तास॑नन् ॥१
ये । त्रिं॒शति॑ । त्रयः॑ । प॒रः । दे॒वासः॑ । ब॒र्हिः । आ । अस॑दन् ।
वि॒दन् । अह॑ । द्वि॒ता । अ॒स॒न॒न् ॥१
ये । त्रिंशति । त्रयः । परः । देवासः । बर्हिः । आ । असदन् ।
विदन् । अह । द्विता । असनन् ॥१
मनुराह । "त्रिंशति त्रिंशत्संख्यायाः "परः परस्तात् "त्रयः । त्रयस्त्रिंशद्देवता इत्यर्थः । ये “देवासः देवाः “बर्हिः अस्मदीयज्ञसंबन्धिनि बर्हिषि हविःस्वीकरणार्थम् “आसदन् आसीदन्तु अथानन्तरं "विदन् ते देवा अस्मान् हविषां प्रदातॄनिति जानन्तु । ततः "द्विता द्विधा द्विप्रकारम् "असनन् अस्मभ्यं धनं पश्वादिकं च प्रयच्छन्तु । यद्वा । द्विता द्वैधम् । अनेन पौनःपुन्यं लक्ष्यते । पुनःपुनरस्मभ्यं धनादिकं ददत्वित्यर्थः ॥ वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नय॑ः ।
पत्नी॑वन्तो॒ वष॑ट्कृताः ॥२
वरु॑णः । मि॒त्रः । अ॒र्य॒मा । स्मद्रा॑तिऽसाचः । अ॒ग्नयः॑ ।
पत्नी॑ऽवन्तः । वष॑ट्ऽकृताः ॥२
वरुणः । मित्रः । अर्यमा । स्मद्रातिऽसाचः । अग्नयः ।
पत्नीऽवन्तः । वषट्ऽकृताः ॥२
"वरुणः वरणीयः संभजनीयः “मित्रः स्तोतॄणां यष्टॄणां च धनादिदानेन मित्रभूतः "अर्यमा स्तोत्रकारिणे धनं प्रापयन् यद्वा सततं गच्छन् एतन्नामकास्त्रयो देवाः "स्मद्रातिषाचः । स्मत् सुमच्छोभना रातिः हविष्प्रदानं येषामस्तीति स्मद्रातयो यजमानाः । तान् सचन्ते धनादिप्रदानेन सेवन्त इति तथोक्ताः । यद्वा । कल्याणं यथा भवति तथा हविषां दातॄन् सचन्त इति । ते तादृशाः “पत्नीवन्तः देवपत्नीसहिताः “अग्नयः अङ्गनशीला नानाविधा अग्नयः “वषट्कृताः । मया ‘ सोमस्याग्ने वीहि वौषट् ' (आश्व. श्रौ. ५. ५) इत्यादिना स्वाहाकृताः । सुहुता इत्यर्थः ॥
ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् ।
पु॒रस्ता॒त्सर्व॑या वि॒शा ॥३
ते । नः॒ । गो॒पाः । अ॒पा॒च्याः । ते । उद॑क् । ते । इ॒त्था । न्य॑क् ।
पु॒रस्ता॑त् । सर्व॑या । वि॒शा ॥३
ते । नः । गोपाः । अपाच्याः । ते । उदक् । ते । इत्था । न्यक् ।
पुरस्तात् । सर्वया । विशा ॥३
“ते वरुणादयो देवाः "सर्वया सर्वेण "विशा अनुचरवर्गेण सह “अपाच्याः । अपाची प्रतीची। ततः "नः अस्माकं “गोपाः गोपायितारो भवन्तु । “ते एव "उदक् उदीच्याः । ‘ अञ्चेर्लुक् ' इति पञ्चम्यर्थे विहितस्यास्तातेर्लुक् । ततोऽपि अस्माकं रक्षका भवन्तु । "इत्था इति शब्देनोर्ध्वा दिशं दक्षिणां च निर्दिशति । इत्थमनेन पूर्वोक्तेन प्रकारेणोर्ध्वाया दक्षिणस्याश्च दिशः "ते देवा अस्माकं पालयितारो भवन्तु । तथा "न्यक् नीच्या दिशः । अत्रापि पूर्ववदस्तातेर्लुक्। अधस्तादेवाप्यस्माकं त्रातारो भवन्तु । किंच "पुरस्तात् प्राच्या दिशश्च ते देवा अस्माकं गोपायितारो भवन्तु ॥
यथा॒ वश॑न्ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् ।
अरा॑वा च॒न मर्त्य॑ः ॥४
यथा॑ । वश॑न्ति । दे॒वाः । तथा॑ । इत् । अ॒स॒त् । तत् । ए॒षा॒म् । नकिः॑ । आ । मि॒न॒त् ।
अरा॑वा । च॒न । मर्त्यः॑ ॥४
यथा । वशन्ति । देवाः । तथा । इत् । असत् । तत् । एषाम् । नकिः । आ । मिनत् ।
अरावा । चन । मर्त्यः ॥४
“देवाः द्योतमानाः सर्वे देवाः "यथा “वशन्ति यथा कामयन्ते । वश कान्तौ ।' संप्रसारणाच्च' इति पूर्वरूपस्य छन्दसि विकल्पितत्वाद्यणादेशः । "तथेत् यथोशन्ति तथैव "असत् तद्भवत्येव । तदेवाह । "एषां देवानां "तत् कामनं "नकिः न कश्चिदपि “मिनत् हिनस्ति । ‘ मीङ् हिंसायाम् '। लेटि रूपम् । मीनातेर्निगमे ' इति ह्रस्वत्वम् । कथं देवानामभिलषितं तथा भवतीति चेत् तदाह । "अरावा । यदि देवाः कस्यचिदप्यदातारं मनुष्यं कामयेरन् तदा अरावा अदाता । “चन इत्यप्यर्थे । अदातापि “मर्त्यः मनुष्य उशद्भ्यो देवेभ्यो हवींषि प्रयच्छति । तस्मात्तेषां यत्कामनं तत्तथा भवत्येवेत्यर्थः ॥
स॒प्ता॒नां स॒प्त ऋ॒ष्टय॑ः स॒प्त द्यु॒म्नान्ये॑षाम् ।
स॒प्तो अधि॒ श्रियो॑ धिरे ॥५
स॒प्ता॒नाम् । स॒प्त । ऋ॒ष्टयः॑ । स॒प्त । द्यु॒म्नानि॑ । ए॒षा॒म् ।
स॒प्तो इति॑ । अधि॑ । श्रियः॑ । धि॒रे॒ ॥५
सप्तानाम् । सप्त । ऋष्टयः । सप्त । द्युम्नानि । एषाम् ।
सप्तो इति । अधि । श्रियः । धिरे ॥५
अत्र पुरातनी कथा । इन्द्रसमानं पुत्रमिच्छन्त्या अदितेः (?) गर्भस्य केनचित्कारणेनेन्द्रेण सप्तधा भिन्नत्वात् स गर्भः सप्तगणात्मकोऽभवत्। ततो मरुतः संपन्नाः । सप्तगणा वै मरुतः । (तै. सं. २. २. ११. १ ) इति श्रुतेः । एषा कथा ‘ इदं पित्रे मरुतामुच्यते वचः' ( ऋ. सं. १.११४.६ ) इत्यस्मिन् वर्गे सप्रपञ्चेनाभ्यधाथि । तथा चास्या ऋचोऽयमर्थः । "सप्तानां मरुतां गणानां "सप्त सप्तसंख्याकाः “ऋष्टयः आयुधविशेषा विभिन्नाः सन्ति । तथा “सप्त सप्तसंख्याकानि “द्युम्नानि द्योतमानानि कुण्डलादीन्याभरणानि । द्युम्नान्यन्नानि वा । “एषां गणानां विभिन्नानि सन्ति । ततः सप्त मरुतां गणाः “सप्तो सप्तैव सप्तविधाः "श्रियः सकला दीप्तीः "अधि "धिरे । परस्परमधिकं दधिरे ॥ ॥ ३५ ।।
मण्डल ८ | ||||||
---|---|---|---|---|---|---|