ऋग्वेदः सूक्तं ८.९७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.९७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.९६ ऋग्वेदः - मण्डल ८
सूक्तं ८.९७
रेभः काश्यपः
सूक्तं ८.९८ →
दे. इन्द्रः। बृहती, १०, १३ अतिजगती, ११-१२ उपरिष्टाद्बृहती, १४ त्रिष्टुप्, १५ जगती

तु. अथर्ववेदः २०.५४, २०.५५


या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः ।
स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥१॥
यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥२॥
य इन्द्र सस्त्यव्रतोऽनुष्वापमदेवयुः ।
स्वैः ष एवैर्मुमुरत्पोष्यं रयिं सनुतर्धेहि तं ततः ॥३॥
यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाँ आ विवासति ॥४॥
यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि ।
यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि ॥५॥
स नः सोमेषु सोमपाः सुतेषु शवसस्पते ।
मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥६॥
मा न इन्द्र परा वृणग्भवा नः सधमाद्यः ।
त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥७॥
अस्मे इन्द्र सचा सुते नि षदा पीतये मधु ।
कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते ॥८॥
न त्वा देवास आशत न मर्त्यासो अद्रिवः ।
विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत ॥९॥
विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥१०॥
समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये ।
स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥११॥
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥१२॥
तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१३॥
त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै ।
त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा ॥१४॥
तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि ।
कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥१५॥


सायणभाष्यम्

या इन्द्र इति पञ्चदशर्चं चतुर्थं सूक्तं काश्यपस्य रेभस्यार्षमैन्द्रम् । दशम्यतिजगती द्वापञ्चाशदक्षरा। एकादशीद्वादश्यावुपरिष्टाद्बृहत्यौ त्र्यष्टकान्तद्वादशकवत्यौ। त्रयोदश्यतिजगती । चतुर्दशी त्रिष्टुप् । पञ्चदशी जगती । शिष्टा बृहत्यः । तथा चानुक्रम्यते- या इन्द्र पञ्चोना रेभः काश्यपो बार्हतमतिजगत्युपरिष्टाद्बृहत्यावतिजगती त्रिष्टुब्जगतीत्यन्ततः' इति । सूक्तविनियोगो लैङ्गिकः । महाव्रते निष्केवल्ये बार्हततृचाशीतौ ' या इन्द्र' इत्यादिका नवर्चः । तथैव पञ्चमारण्यके सूत्र्यते ' या इन्द्र भुज आभर इति नव सूददोहाः' (ऐ. आ. ५. २. ४) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो वैकल्पिकानुरूपतृचस्य ' या इन्द्र' इत्यादिके द्वे द्वितीयातृतीये । सूत्र्यते च--- तमिन्द्रं जोहवीमि या इन्द्र भुज आभर इत्येका द्वे च' (आश्व. श्रौ. ७. ४) इति ॥


या इ॑न्द्र॒ भुज॒ आभ॑र॒ः स्व॑र्वाँ॒ असु॑रेभ्यः ।

स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥१

याः । इ॒न्द्र॒ । भुजः॑ । आ । अभ॑रः । स्वः॑ऽवान् । असु॑रेभ्यः ।

स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिषः ॥१

याः । इन्द्र । भुजः । आ । अभरः । स्वःऽवान् । असुरेभ्यः ।

स्तोतारम् । इत् । मघवन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिषः ॥ १ ॥

ऋषिरिन्द्रं प्रार्थयते । हे इन्द्र स्वर्वान् सुखवान् स्वर्गवान् वा । अथवा स्वःशब्दः सर्वपर्यायः । सर्वं भूतजातम् । आत्मन एवोत्पन्नत्वात्तद्वान् । एवंगुणस्त्वं याः यानि भुजः भोक्तव्यानि धनानि असुरेभ्यः बलवद्भ्यो राक्षसेभ्यः आभरः आहरः तान् हत्वाहृतवानसि। हग्रहोः' इति भकारादेशः । अत एव हे मघवन् धनवन्निन्द्र अस्य । अन्वादेशेऽशादेशः । एतस्याहृतस्य धनस्य दानेन स्तोतारमित् तव स्तोत्रकारिणमेव वर्धय वृद्धिमन्तं कुरु। ये च अन्ये यष्टारः त्वे त्वदर्थं वृक्तबर्हिषः स्तीर्णबर्हिषो भवन्ति अतस्तांश्च धनेन वर्धय ॥


यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् ।

यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥२

यम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् ।

यज॑माने । सु॒न्व॒ति । दक्षि॑णाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥२

यम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् ।

यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥ २ ॥

हे इन्द्र त्वं यम् अश्वं गमनसाधनान् हरीन् गाम् अग्निहोत्रकर्मणि पयःप्रदानेनोपकारिका गाः अव्ययं व्ययरहितमविनश्वरं भाग भजनीयं धनम्। सर्वत्रैकत्वमविवक्षितम् । एतान् शत्रुभ्य आहृत्य दधिषे बिभर्षि तं सर्वं सुन्वति सोमाभिषवं कुर्वति दक्षिणावति यज्ञ ऋत्विग्भ्यो दक्षिणादेयत्वेन तद्वति यजमाने यागं कुर्वाणे तस्मिन् त्वं धेहि। सर्वत्र धनादिदानं मा कुर्वित्याह। मा पणौ ।' पण व्यवहारे'। द्रव्यव्यवहारादयष्टा जनः पणिः । तस्मिन्नेतत् सर्वं मा देहि ॥


य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।

स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥३

यः । इ॒न्द्र॒ । सस्ति॑ । अ॒व्र॒तः । अ॒नु॒ऽस्वाप॑म् । अदे॑वऽयुः ।

स्वैः । सः । एवैः॑ । मु॒मु॒र॒त् । पोष्य॑म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् । ततः॑ ॥३

यः । इन्द्र । सस्ति । अव्रतः । अनुऽस्वापम् । अदेवऽयुः ।

स्वैः । सः । एवैः । मुमुरत् । पोष्यम् । रयिम् । सनुतः । धेहि। तम् । ततः ॥ ३ ॥

हे इन्द्र अदेवयुः देवान् युष्मानकामयमानः अव्रतः व्रतरहितः कर्मरहितो भूत्वा अनुस्वापम् अनुवृत्तस्वप्नं यथा भवति तथा यः सस्ति स्वपिति । ‘षस स्वापे'। आदादिकः । सः जनः स्वैः आत्मीयैः एवैः गमनैरेव पोष्यं पोषणयं रयिं स्वीयं धनं मुमुरत् मारयतु विनाशयतु । अमार्गैर्द्यूतादिभिस्तस्य धनं नश्यतु न तु देवानां हविष्प्रदानेनेति । ततः त्वं तम् अयष्टारं जनम् । सनुतरित्यन्तर्हितनाम । सनुतः अन्तर्हिते कर्मरहिते कस्मिश्चिद्देशे धेहि स्थापय ॥


यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।

अत॑स्त्वा गी॒र्भिर्द्यु॒गदि॑न्द्र के॒शिभिः॑ सु॒तावाँ॒ आ वि॑वासति ॥४

यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् ।

अतः॑ । त्वा॒ । गीः॒ऽभिः । द्यु॒ऽगत् । इ॒न्द्र॒ । के॒शिऽभिः॑ । सु॒तऽवा॑न् । आ । वि॒वा॒स॒ति॒ ॥४

यत् । शक्र । असि । पराऽवति । यत् । अर्वाऽवति । वृत्रऽहन् ।

अतः । त्वा । गीःऽभिः । द्युऽगत् । इन्द्र । केशिऽभिः । सुतऽवान्। आ । विवासति ॥४॥

हे शक्र शत्रुहननसमर्थेन्द्र यत् यदा परावति विप्रकृष्टेऽतिदूरे द्युलोके देशे असि विद्यसे हे वृत्रहन् वृत्रस्य हन्तरिन्द्र यत् यदि अर्वावति अर्वाचीने तस्मादधस्तात्स्थिते तदपेक्षया समीपे देशेऽन्तरिक्षे भवसि तस्मादपि अतः अस्माद्भूलोकाद्वा द्युगत् ।' गम्लृ गतौ'। क्विपि 'गमः क्वौ' इत्यनुनासिकलोपः । तुक् ।' सुपां सुलुक्' इति लुक् । द्युलोकं प्रति गच्छद्भिः स्वभासा सर्वतो गच्छद्भिः केशिभिः केशवद्भिर्हरिभिरिव स्थिताभिः गीर्भिः स्तुतिभिः वा त्वां सुतवान् अभिषुतसोमवान् यजमानः आ विवासति । आत्मीयं यज्ञं प्रत्यागमयति त्वामेतैः स्तोत्रैः परिचरतीति वा ॥


यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ ।

यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥५

यत् । वा॒ । असि॑ । रो॒च॒ने । दि॒वः । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ ।

यत् । पार्थि॑वे । सद॑ने । वृ॒त्र॒ह॒न्ऽत॒म॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒हि॒ ॥५

यत् । वा। सि । रोचने । दिवः । समुद्रस्य । अधि । विष्टपि ।

यत् । पार्थिवे । सदने । वृत्रहन्ऽतम । यत् । अन्तरिक्षे । आ । गहि ॥ ५ ॥

हे इन्द्र यद्वा यदि वा दिवः द्युलोकस्य रोचने दीपनशीले स्थाने भवसि । यद्वा समुद्रस्य मध्ये अधि अधिगते विष्टपि विष्टपे तत्संबद्धे कस्मिंश्चित् स्थाने भवसि । हे वृत्रहन्तम अतिशयेन वृत्रस्यासुरस्य पापस्य वा हन्तरिन्द्र यत् यदि वा पार्थिवे पृथिव्यां भवे सदने स्थाने विद्यसे । यदि वा अन्तरिक्षे तस्मिँल्लोके वर्तसे । यत्रकुत्र भवसि तथाप्यस्मदीयं यज्ञं प्रति आ गहि आगच्छ ॥ ॥ ३६॥


स न॒ः सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते ।

मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥६

सः । नः॒ । सोमे॑षु । सो॒म॒ऽपाः॒ । सु॒तेषु॑ । श॒व॒सः॒ । प॒ते॒ ।

मा॒दय॑स्व । राध॑सा । सू॒नृता॑ऽवता । इन्द्र॑ । रा॒या । परी॑णसा ॥६

सः । नः । सोमेषु । सोमऽपाः । सुतेषु । शवसः । पते ।

मादयस्व । राधसा । सुनृताऽवता । इन्द्र। राया। परीणसा ॥ ६ ॥

हे सोमपाः सोमस्य पातः हे शवसस्पते बलस्य पालयितः इन्द्र सः पूर्वोक्तलक्षणस्त्वं सुतेषु अस्माभिरभिषुतेषु सोमेषु नः अस्मान् राधसा बलसाधनेनान्नेन सूनृतावता अनृतरहितत्वोपेतेन । यद्वा । सूनृतेति वाङ्नाम । शोभनवाक्ययुक्तेन । अनेन पुत्रादिकं लक्ष्यते । पुत्रोपेतेनान्नेन । परीणसा । बहुनामैतत् । बहुना राया धनेन च नोऽस्मान् मादयस्व मोदय । सोमस्य प्रदातृभ्योऽस्मभ्यमन्नपुत्रधनादिकं देहीत्यर्थः ॥


मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ ।

त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥७

मा । नः॒ । इ॒न्द्र॒ । परा॑ । वृ॒ण॒क् । भव॑ । नः॒ । स॒ध॒ऽमाद्यः॑ ।

त्वम् । नः॒ । ऊ॒ती । त्वम् । इत् । नः॒ । आप्य॑म् । मा । नः॒ । इ॒न्द्र॒ । परा॑ । वृ॒ण॒क् ॥७

मा । नः । इन्द्र । परा । वृणक् । भव । नः । सधऽमाद्यः ।

त्वम् । नः । ऊती । त्वम् । इत् । नः । आप्यम् । मा। नः । इन्द्र। परा। वृणक् ॥ ७ ॥

हे इन्द्र नः हविषां प्रदातॄनस्मान् मा परा वृणक् मा परित्याक्षीः । 'वृजी वर्जने'। रौधादिकः । लङि रूपम् । तदेवाह । त्वं नः अस्माकं सोमेन सधमाद्यः सधमादनशीलः भव। किंच हे इन्द्र नः अस्मान् त्वम् एव ऊती ऊत्यां स्थापथ । यद्वा । ऊती। व्यत्ययेन कर्तरि क्तिचि वा निपातितः । त्वमेवास्माकं रक्षिता खलु । तथा त्वमित् । इदवधारणे । त्वमेव अस्माकम् आप्यं ज्ञातेयम् । त्वमेव बन्धुरित्यर्थः । अत एव मा न इन्द्र परा वृणक् इत्येष गतार्थः ॥


अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।

कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥८

अ॒स्मे इति॑ । इ॒न्द्र॒ । सचा॑ । सु॒ते । नि । स॒द॒ । पी॒तये॑ । मधु॑ ।

कृ॒धि । ज॒रि॒त्रे । म॒घ॒ऽव॒न् । अवः॑ । म॒हत् । अ॒स्मे इति॑ । इ॒न्द्र॒ । सचा॑ । सु॒ते ॥८

अस्मे इति । इन्द्र । सचा । सुते । नि । सद। पीतये । मधु ।

कृधि । जरित्रे । मघऽवन् । अवः । महत् । अस्मे इति । इन्द्र। सचा । सुते ॥ ८ ॥

हे इन्द्र अस्मे अस्माभिः.सचा सह सुते अभिषुते सोमे नि षद अस्मदीये यज्ञे निषीद । किमर्थम् । मधु पीतये मधुनः । ‘सुपां सुलुक्' इति ङसो लुक् । मदकरस्य सोमस्य पीतये पानाय । किंच हे मघवन् धनवन् इन्द्र महत् अवः रक्षणं जरित्रे कृधि कुरु। कस्मिन् सति । अस्मे इन्द्र सचा सुते इति व्याख्यातः पादः ॥


न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।

विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥९

न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ । न । मर्त्या॑सः । अ॒द्रि॒ऽवः॒ ।

विश्वा॑ । जा॒तानि॑ । शव॑सा । अ॒भि॒ऽभूः । अ॒सि॒ । न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ ॥९

न । त्वा । देवासः । आशत । न । मर्त्यासः । अद्रिऽवः ।

विश्वा । जातानि । शवसा । अभिऽभूः । असि । न । त्वा । देवासः । आशत ॥ ९ ॥

हे अद्रिवः वज्रवन्निन्द्र त्वा त्वां देवासः त्वदन्ये सर्वे देवाः न आशत । स्वकर्मणा स्वबलेन वा न व्याप्नुवन्ति । न मर्त्यासः मर्त्या मनुष्याश्च न व्याप्नुवन्ति । कुत एतदवसीयते तदाह । विश्वा विश्वानि सर्वाणि जातानि भूतजातानि शवसा स्वबलेनैव अभिभूरसि । अभिभावुकोऽसि भवसि । तस्मात् न त्वा देवास आशत इति गतार्थः ॥


चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘विश्वाः पृतनाः' इति वैकल्पिकः स्तोत्रियः । सूत्रितं च--- विश्वाः पृतना अभिभूतरं नरं तमिन्द्रं जोहवीमि' (आश्व. श्रौ. ७. ४) इति ॥

विश्वा॒ः पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।

क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥१०

विश्वाः॑ । पृत॑नाः । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजूः । त॒त॒क्षुः॒ । इन्द्र॑म् । ज॒ज॒नुः । च॒ । रा॒जसे॑ ।

क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥१०

विश्वा: । पृतनाः । अभिऽभूतरम् । नरम् । सऽजूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे।

क्रत्वा । वरिष्ठम् । वरे । आऽमुरिम् । उत । उग्रम् । ओजिष्ठम्। तवसम्। तरस्विनम् ॥१०॥

विश्वाः सर्वा व्याप्ता वा पृतनाः । 'पृङ् व्यायामे'। व्याप्रियन्त इति पृतनाः सेनाः । सजू परस्परं संगताः सत्यः अभिभूतरं शत्रूणामत्यर्थमभिभवितारं नरं सर्वस्य नेतारम् इन्द्रं ततक्षुः । आयुधादिभिस्तीक्ष्णीकुर्वन्ति । आयुधवन्तमश्ववन्तं च चक्रुरित्यर्थः । यद्वा पृतना इति संग्रामनाम । व्याप्रियन्तेऽत्रेति पृतनाः संग्रामाः । सर्वानेव संग्रामानभिभावुकमिन्द्रं स्तोतारोऽन्योन्यं संगताः स्तुतिभिस्तीक्ष्णमकुर्वन् । स्तुते सति बलवान् भवतीति । यद्वा । यष्टारो हविष्प्रदानेन वीर्यवन्तं कुर्वन्तीति । किंच स्तोतारः राजसे । राजतेस्तुमर्थेऽसेप्रत्ययः । आत्मनो विराजनार्थं प्रकाशनार्थं सूर्यात्मानम् इन्द्रं जजनुः जनयामासुः । स्तोत्रं यज्ञे प्रादुरभावयन्नित्यर्थः । उत अपि च क्रत्वा स्वीयवृत्रवधादिकर्मणैव वरिष्ठम् उरुतरम् आमुरिं शत्रूणामाभिमुख्येन मारयितारमिन्द्रं वरे वरणीये धने स्तोतारश्चक्रुः । आत्मनां धनलाभार्थं स्तुवन्तीत्यर्थः । कीदृशम् । उग्रम् उद्गूर्णबलमत एव ओजिष्ठम् ओजस्वितमं तवसं प्रवृद्धं तरस्विनं संग्रामे शत्रुवधार्थं वेगवन्तमिन्द्रं धनार्थं स्तुवन्ति ॥ ॥ ३७ ॥


समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ ।

स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥११

सम् । ई॒म् । रे॒भासः॑ । अ॒स्व॒र॒न् । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ।

स्वः॑ऽपतिम् । यत् । ई॒म् । वृ॒धे । धृ॒तऽव्र॑तः । हि । ओज॑सा । सम् । ऊ॒तिऽभिः॑ ॥११

सम् । ईम् । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये ।

स्वःऽपतिम् । यत् । ईम् । वृधे । धृतऽव्रतः । हि । ओज॑सा । सम् । ऊतिऽभिः ॥ ११ ॥

रेभासः । ‘रेभृ शब्दे' । शब्दयितारः स्तोतारः । यद्वा । रेभासः कश्यपपुत्रा रेभा एतन्नामका ऋषयः । ईम् एनम् इन्द्रं सम् अस्वरन् सम्यगशब्दयन् समस्तुवन् । किमर्थम् । सोमस्य पीतये सोमपानाय । किंच स्वर्पतिं स्वर्गस्य पालयितारं धनस्य स्वामिनं वा ईम् एनमिन्द्रं यत् यदा वृधे हविर्भिर्वर्धनाय संस्तुवन्ति तदा धृतव्रतः धृतकर्मेन्द्रः ओजसा बलेन स्तोतृभिः ऊतिभिः मरुद्भिः पालनैश्च सह संगच्छते। स्तुतिभिर्बलं मरुद्भिः पालनं चेन्द्रस्य भवतीत्यर्थः ॥


ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।

सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विन॒ः समृक्व॑भिः ॥१२

ने॒मिम् । न॒म॒न्ति॒ । चक्ष॑सा । मे॒षम् । विप्राः॑ । अ॒भि॒ऽस्वरा॑ ।

सु॒ऽदी॒तयः॑ । वः॒ । अ॒द्रुहः॑ । अपि॑ । कर्णे॑ । त॒र॒स्विनः॑ । सम् । ऋक्व॑ऽभिः ॥१२

नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । अभिऽस्वरा ।

सुऽदीतयः । वः । अद्रुहः । अपि । कर्णे। तरस्विनः । सम् । ऋक्वऽभिः ॥ १२ ॥

नेमिम् । अरान् यथा नेमिर्व्याप्नोति तद्वत् सर्वं व्याप्नुते । तादृशं नमनशीलमिन्द्रं चक्षसा दर्शनमात्रेणैव नमन्ति। काश्यप रेभाः स्तोतारो वा नमस्कुर्वन्ति । ततः विप्राः मेधाविनः मेषम् । इन्द्रो मेषो भूत्वा मेधातिथिं स्वर्गमनयत् । तस्मात् मेधातिथेर्मेषभूतमिन्द्रम् अभिस्वरा अभिस्वरणेन स्तोत्रेण प्रणमन्ति। इदानीं यजमानः स्तोतॄनाह । अपि च सुदीतयः शोभनदीप्तयः अद्रुहः कस्याप्यद्रोग्धारः वः यूयम्। छन्दसो वसादेशः । तरस्विनः कर्मसु स्तोत्रेषु वा त्वरायुक्ताः सन्त इन्द्रस्य कर्णे श्रोत्रसमीपे ऋक्वभिः अर्चनायुक्तैर्मन्त्रैः। यद्वा । ऋचो बह्व्यो येषु सन्ति तैः शस्त्रादिभिः । संस्तुत । इन्द्रो यथा युष्मदीयानि स्तोत्रशस्त्रादीनि शृणोति तथा सम्यगभिष्टुतेत्यर्थः ॥


पूर्वोक्त एव शस्त्रे वैकल्पिकस्यानुरूपतृचस्य 'तमिन्द्रम्' इत्याद्या । सूत्रमुदाहृतम् ॥

तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।

मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥१३

तम् । इन्द्र॑म् । जो॒ह॒वी॒मि॒ । म॒घऽवा॑नम् । उ॒ग्रम् । स॒त्रा । दधा॑नम् । अप्र॑तिऽस्कुतम् । शवां॑सि ।

मंहि॑ष्ठः । गीः॒ऽभिः । आ । च॒ । य॒ज्ञियः॑ । व॒वर्त॑त् । रा॒ये । नः॒ । विश्वा॑ । सु॒ऽपथा॑ । कृ॒णो॒तु॒ । व॒ज्री ॥१३

तम् । इन्द्रम् । जोहवीमि । मघऽवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिऽस्कुतम् । शवांसि ।

मंहिष्ठः । गी:ऽभिः । आ। च । यज्ञियः । ववर्तत् । राये । नः । विश्वा । सुऽपथा । कृणोतु । वज्री ॥ १३ ॥

तं पूर्वोक्तगुणोपेतम् इन्द्रं जोहवीमि । यष्टाहं पुनःपुनराह्वयामि । ह्वयतेः अभ्यस्तस्य च इति संप्रसारणम् । कीदृशम् । मघवानं मंहनीयधनवन्तम् उग्रम् उद्गूर्णबलं सत्रा सत्यं यथार्थमेव शवांसि बलानि दधानम् अत एव अप्रतिष्कुतं शत्रुभिरप्रतिरोधनीयमाह्वयामि । किंच मंहिष्ठः पूज्यतमो दातृतमो वा यज्ञियः यज्ञार्ह इन्द्रः गीर्भिः अस्मदीयाभिः स्तुतिभिः आ ववर्तत् च यज्ञेष्वाभिमुख्येन वर्ततां च । वर्ततेर्ण्य॑न्तस्य चङि रूपम्। 'चवायोगे प्रथमा' इति न निघातः । ‘चङयन्यतरस्याम्' इति स्वरः । ततः वज्री वज्रवानिन्द्रः नः अस्माकं राये धनाय विश्वा विश्वानि सर्वाण्येव सुपथा सुमार्गाणि कृणोतु च करोतु । धनं सर्वदिक्स्थमस्मान् प्राप्नोत्वित्यर्थः ॥


त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।

त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥१४

त्वम् । पुरः॑ । इ॒न्द्र॒ । चि॒कित् । ए॒नाः॒ । वि । ओज॑सा । श॒वि॒ष्ठ॒ । श॒क्र॒ । ना॒श॒यध्यै॑ ।

त्वत् । विश्वा॑नि । भुव॑नानि । व॒ज्रि॒न् । द्यावा॑ । रे॒जे॒ते॒ इति॑ । पृ॒थि॒वी इति॑ । च॒ । भी॒षा ॥१४

त्वम् । पुरः । इन्द्र । चिकित् । एनाः । वि । ओज॑सा । शविष्ठ । शक्र । नाशयध्यै ।

त्वत् । विश्वानि । भुवनानि । वज्रिन् । द्यावा । रेजेते इति । पृथिवी इति । च । भीषा ।।१४।।

हे शविष्ठ बलवत्तम अत एव हे शक्र शत्रुहननसमर्थ हे इन्द्र त्वम् एनाः । अन्वादेशे । एतानि पुरः शम्बरस्य पुराणि ओजसा स्वीयेनैव तेजसा वि नाशयध्य विनाशयितुं चिकित् ज्ञाता भवसि । नशेर्ण्य॑न्ताच्छध्यैप्रत्ययः । पुनरपि सामर्थ्यं प्रशंसति । हे वज्रिन् वज्रवन्निन्द्र विश्वानि सर्वाणि भुवनानि भूतजातानि त्वत् त्वत्तो भीत्या कम्पन्ते । तथा द्यावापृथिवी । 'दिवो द्यावा' इति द्यावादेशः । आद्युदात्तश्च । पृथिवी ङीषन्तत्वेनान्तोदात्तः । 'देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम् । विप्रकर्षस्तु छान्दसः । द्यावापृथिवी च भीषा त्वत्तो भीत्या रेजेते कम्पेते । ' अरेजेतां रोदसी' (ऋ. सं. १. ३१. ३ ) इति निगमः । सर्वे त्वदधीना इत्यर्थः ।


तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ ।

क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥१५

तत् । मा॒ । ऋ॒तम् । इ॒न्द्र॒ । शू॒र॒ । चि॒त्र॒ । पा॒तु॒ । अ॒पः । न । व॒ज्रि॒न् । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ । भूरि॑ ।

क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ । वि॒श्वऽप्स्न्य॑स्य । स्पृ॒ह॒याय्य॑स्य । रा॒ज॒न् ॥१५

तत् । मा । ऋतम् । इन्द्र। शूर । चित्र । पातु। अपः । न । वज्रिन्। दुःऽइता । अति । पर्षि भूरि ।

कदा । नः । इन्द्र। रायः । । दशस्येः । विश्वऽप्स्न्यस्य । स्पृहयाय्यस्य । राजन् ॥ १५॥

हे शूर बलवन् चित्र चायनीय विविधरूप वा। ‘इन्द्रो मायाभिः पुरुरूप ईयते' (ऋ. सं. ६. ४७. १८) इत्यादिषु दृष्टत्वात् । बहुविधरूप हे इन्द्र तत् प्रशस्तं त्वदीयम् ऋतं सत्यं मा मां पातु सर्वतो रक्षतु । किंच हे वज्रिन् वज्रवन्निन्द्र भूरि । सुपो लुक् । भूरीणि बहूनि दुरिता दुरितानि पापानि अति पर्षि अतीत्य पारय । तत्र दृष्टान्तः । अपो न यथा नाविक उदकानि मनुष्यान् पारयति तद्वदस्मान् पापानि पारय । हे राजन् दीप्यमान हे इन्द्र विश्वप्स्न्यस्य । प्स इति रूपनाम । रूपे साधु प्स्यम् । नकारोपजनश्छान्दसः । बहुरूपं तत् स्पृहयाय्यस्य सर्वैः स्पृहणीयं रायः । 'क्रियाग्रहणम्' इति संप्रदानसंज्ञा । ‘चतुर्थ्यर्थे बहुलम्' इति षष्ठी । तद्धनं नः अस्मभ्यम् आ आभिमुख्येन कदा दशस्येः कस्मिन् काले प्रयच्छेः । तदा तव स्वभूतं सत्यं मा रक्षतु । मह्यं धनं दत्वा कर्माणि च मयानुष्ठाप्य मां पापरहितं कुर्वित्यर्थः ॥ ॥ ३८ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये षष्ठाष्टके षष्ठोऽध्यायः ॥


[सम्पाद्यताम्]

टिप्पणी

अस्य सूक्तस्य ऋषि रेभः काश्यपः एवं छन्दं बृहती अस्ति। गवामयनसंवत्सरसत्रे मध्यमाह्नस्य संज्ञा विषुवत् अह भवति। पृथिव्योपरि या विषुवत् रेखा अस्ति, तस्मिन् भूभागे सूर्यस्य रश्मीनां पतनं ऋजुतमः भवति। अस्य तथ्यस्य विनियोजनं अध्यात्मक्षेत्रे अपि यथावत् अस्ति। विषुवत् अह्नस्य कृत्येषु बृहती छन्दः भवति। प्रस्तुते सूक्ते अपि बृहती छन्दः अस्ति, किं अयं संकेतं यत् अयं सूक्तमपि विषुवान् अहस्य भागमस्ति। किन्तु नायं सत्यं। कारणं। उपनिषदेषु चेतनायाः द्विभागौ स्तः - प्राणः एवं रयि (आदित्यो ह वै प्राणो रयिरेव चन्द्रमा -प्रश्नोपनिषत् १.५)। अयं सूक्तं रयितः, चन्द्रमातः सम्बद्धमस्ति। शिवपुराणे ५.३६.२४ रैभ्य - रैवत शब्दयोः एक्यस्य कथनमस्ति। इतेभ्यः परि, तमिन्द्रं जोहवीमि (ऋचा ८.९७.१३) सामवेदे ४६० सामरूपेण प्रकटयति, यस्य ऋषिः प्राकृतगाने रेवत्प्रजापतिः अस्ति। रेवत् अर्थात् रयिवत्। अध्यात्मसाधने चन्द्रमसः मार्गं मंदगत्या आरोहणस्य मार्गमस्ति। अस्य संकेतं सूक्तस्य प्रथमऋचातः अपि प्राप्तं भवति - या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः। हे स्वर्वान् इन्द्र, त्वं असुरेभ्यः सकाशात् यं भोजनं प्राप्तवानसि - -। भोजनस्य यः भागः असुरेषु प्राप्तो भवति, तस्य भोजनस्य प्राप्तिः देवेभ्यः कर्तुं अपेक्षा अस्ति।

ऋषिरूपेण रेभः काश्यपस्य उल्लेखतः किमन्यत् ग्रहणं कर्तुं शक्यमस्ति। अथर्ववेदे २०.१२७.४ कथनमस्ति - वच्यस्य रेभ वच्यस्व वृक्षे न पक्वे शकुनः । अयं संकेतं यत् रेभस्य स्थित्यां व्यावहारिके जीवने शकुनानां अनुभूतिः भवति। रेभस्य जनने का प्रक्रिया अस्ति। भागवतपुराणे ६.६.४ उल्लेखमस्ति यत् धर्मस्य एका भार्या लम्बा अस्ति यस्य पुत्रः विद्योतः एवं पौत्रः स्तनयित्नुरस्ति। एवं प्रकारेण, यदा रेभस्य, शकुनस्य जननं भवति, तत् मेघेषु स्तनयित्नोः रूपमस्ति। ब्रह्माण्डपुराणे २.३.४२.३४ लम्बोदरशब्दस्य निरुक्तिः उपलब्धा अस्ति। अनेनानुसारेण, यः भूतं, भविष्यं, वर्तमानं आत्मसात् करोति, सः लम्बोदरः। एवंप्रकारेण, केवलं रेभः, शकुनः पर्याप्तं न भवति, अपितु यदा रेभस्य व्याप्तिः भूते, भविष्ये एवं वर्तमाने भवति, तत् संतोषजनकः अस्ति।

चतुर्थ्यां ऋचि उल्लेखमस्ति - यच्छक्रासि परावति यदर्वावति वृत्रहन्। पुराणेषु रैभ्य ऋषेः उल्लेखाः सन्ति ( द्र. पुराणेषु रैभ्यस्य संदर्भाः )। रैभ्य अर्थात् रेभस्य जननाय उपयुक्तं तन्त्रम्, चेतना। स्कन्द पुराणे ३.१.३३.२५ कथा अस्ति यत् रैभ्यस्य ज्येष्ठः - कनिष्ठः पुत्रौ कस्यचित् राज्ञस्य यज्ञस्य निष्पन्ने रतौ स्तः। केनापि कारणेन ज्येष्ठः पुत्रः परावसुः स्वपितुः रैभ्यस्य हननं करोति। तदा परावसुः स्वं अनुजं अर्वावसुं निर्देशं ददाति यत् त्वं पितुः हननस्य प्रायश्चित्तं कुरु। राज्ञः यज्ञस्य निष्पादनं सः स्वयं करिष्यति। अनुजस्य सामर्थ्यं यज्ञनिष्पादनस्य नास्ति। अयं कथनं चक्षुरुन्मीलकः अस्ति। यथा श्रौतयज्ञे संवत्सरसत्रे अभिजित् - विश्वजितौ अयनौ भवतः, एवंप्रकारेण स्मृतौ परावसु - अर्वावसुः भवतः। जैमिनीये ब्राह्मणे गवामयनसत्रस्य आरम्भे कथनमस्ति यत् यदा सूर्यस्य तेजः अत्यन्तं प्रखरमभवत्, तदा तस्य ये रश्मयः पराः आसन्, तासां शान्त्यै आदित्यस्योपरि सोमस्य स्थापनं क्रियमाणमस्ति। ये अर्वाञ्चः रश्मयः आसन्, तासां शान्त्यर्थं अन्तरिक्षे वायोः प्रवाहं क्रियमाणमस्ति।

पुराणेषु रैभ्यः गयातीर्थे गत्वा पितॄणां तर्पणादिकं करोति (वराहपुराणम् , लक्ष्मीनारायणसंहिता १.५२७)। तेन सः स्मृतिसर्गस्य, सनकादेः मार्गस्य प्राप्तिं करोति।

८.९७.७ मा न इन्द्र परा वृणक् इति

आञ्जिगस्य सामनी द्वे

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९७&oldid=313898" इत्यस्माद् प्रतिप्राप्तम्