ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४२

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ४१ ब्रह्माण्डपुराणम्
अध्यायः ४२
[[लेखकः :|]]
मध्यभागः, अध्यायः ४३ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
एवं संभ्रामितो रामो गणाधीशेन भूपते ।
हर्षशोकसमाविष्टो विचिन्त्यात्मपराभवम् ॥ २,४२.१ ॥

गणेशं चाभितो वीक्ष्य निर्विकारमवस्थितम् ।
क्रोधाविष्टो भृशं भूत्वा प्राक्षिपत्स्वपरश्वधम् ॥ २,४२.२ ॥

गणेशस्त्वभिवीक्ष्याथ पित्रा दत्तं परश्वधम् ।
अमोघं कर्त्तुकामस्तु वामे तं दशनेऽग्रहीत् ॥ २,४२.३ ॥

स तु दन्तः कुठारेण विच्छिन्नो भूतलेऽपतत् ।
भुवि शोणितसंदिग्धो वज्राहत इवाचलः ॥ २,४२.४ ॥

दन्तपातेन विद्वस्ता साब्धिद्वीपधरा धरा ।
चकंपे पृथिवीपाल लोकास्त्रासमुपागताः ॥ २,४२.५ ॥

हाहाकारो महानासी द्देवानां दिवि पश्यताम् ।
कार्त्तिकेयादयस्तत्र चुक्रुशुर्भृशमातुराः ॥ २,४२.६ ॥

अथ कोलाहलं श्रुत्वा दन्तपातध्वनिं तथा ।
पार्वतीशङ्करौ तत्र समाजग्मतुरीश्वरौ ॥ २,४२.७ ॥

हेरम्बं पुरतो दृष्ट्वा वक्रतुण्डैकदन्तिनम् ।
पप्रच्छ स्कन्दं पार्वती किमेतदिति कारणम् ॥ २,४२.८ ॥

स तु पृष्टस्तदा मात्रा सेनानीः सर्वमादितः ।
वृत्तान्तं कथयामास मात्रे रामस्य शृण्वतः ॥ २,४२.९ ॥

सा श्रुत्वोदन्तमखिलं जगतां जननी नृप ।
उवाच शङ्करं रुष्टा पार्वती प्राणनायकम् ॥ २,४२.१० ॥

पार्वत्युवाच
अयं ते भार्गवः शंभो शिष्यः पुत्रः समोऽभवत् ।
त्वत्तोलब्ध्वा परं तेजो वर्म त्रैलोक्यजिद्विभो ॥ २,४२.११ ॥

कार्त्तवीर्यार्जुनं संख्ये जितवानूर्जितं नृपम् ।
स्वकार्यं साधयित्वा तु प्रादात्तुभ्यं च दक्षिणाम् ॥ २,४२.१२ ॥

यत्ते सुतस्य दशन कुठारेण न्यपातयत् ।
अनेनैव कृतार्थस्त्वं भविष्यसि न संशयः ॥ २,४२.१३ ॥

त्वमिमं भार्गवं शम्भो रक्षान्तेवासिसत्तमम् ।
तव कार्याणि सर्वाणि साधयिष्यति सद्गुरोः ॥ २,४२.१४ ॥

अह नैवात्र तिष्ठामि यत्त्वया विमता विभो ।
पुत्राभ्यां सहिता यास्ये पितुः स्वस्य निकेतनम् ॥ २,४२.१५ ॥

संतो भुजिष्यातनयं सत्कुर्वन्त्यात्मपुत्रवत् ।
भवता तु कृतोनैव सत्कारो वचसापि हि ॥ २,४२.१६ ॥

आत्मनस्तनयस्यास्य ततो यास्यामि दुःखिता ।
वसिष्ठ उवाच
एतच्छ्रुत्वा तु वचनं पार्वत्या भगवान्भवः ॥ २,४२.१७ ॥

नोवाच किञ्चिद्वचनं साधु वासाधु भूपते ।
सस्मार मनसा कृष्णं प्रणतक्लेशनाशनम् ॥ २,४२.१८ ॥

गोलोकनाथं गोपीशं नानानुनयकोविदम् ।
स्मृतमात्रोऽथ भगवान् केशवः प्रणतार्त्तिहा ।
आजगाम दयासिंधुर्भक्तवश्योऽखिलेश्वरः ॥ २,४२.१९ ॥

मेघश्यामो विशदवदनो रत्नकेयूरहारो विद्युद्वासा मकरसदृशे कुण्डले संदधानः ।
बर्हापीडं मणिगणयुतं बिभ्रदीषत्स्मितास्यो गोपीनाथो गदितसुयशाः कौस्तुभोद्भासिवक्षाः ॥ २,४२.२० ॥

राधया सहितः श्रीमान् श्रीदाम्ना चापराजितः ॥ २,४२.२१ ॥

मुष्णंस्तेजांसि सर्वेषां स्वरुचा ज्ञानवारिधिः ।
अथैनमागतं दृष्ट्वा शिवः संहृष्टमानसः ॥ २,४२.२२ ॥

प्रणिपत्य यथान्यायं पूजयामास चागतम् ।
प्रवेश्याभ्यन्तरे वेश्मराधया सहितं विभुम् ॥ २,४२.२३ ॥

रत्नसिंहासने नम्ये सदारं स न्यवेशयत् ।
थ तत्र गता देवी पार्वती तनयान्विता ॥ २,४२.२४ ॥

ननाम चरणान्प्रभ्वोः पुत्राभ्यां सहिता मुदा ।
थ रामोऽपि तत्रैव गत्वा नमितकन्धरः ॥ २,४२.२५ ॥

पार्वत्याश्चरणोपान्ते पपाताकुलमानसः ।
सा यदा नाभ्यनन्दत्तं भार्गवं प्रणतं पुरः ॥ २,४२.२६ ॥

तदोवाच जगन्नाथः पार्वतीं प्रीणयन्गिरा ॥ २,४२.२७ ॥

श्रीकृष्म उवाच
अयि नगनं दिनि निन्दितचन्द्रमुखि त्वमिमं जमदग्निसुतम् ।
नय निजहस्तसरोजसमर्पितम्स्तकमङ्कमनन्तगुणे ॥ २,४२.२८ ॥

भवभयहारिणि शंभुविहारिणि कल्मषनाशिनि कुंभिगते ।
तव चरणे पतितं सततं कृतकिल्बिषमप्यव देहि वरम् ॥ २,४२.२९ ॥

श्रुणु देवि महाभागे वेदोक्तं वचनं मम ।
यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः ।
विनायकस्ते तनयो महात्मा महतां महान् ॥ २,४२.३० ॥

यं कामः क्रोध उद्वेगो भयं नाविशते कदा ।
वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥ २,४२.३१ ॥

नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः ।
यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥ २,४२.३२ ॥

प्रमथानां गणा ये च नानारूपा महाबलाः ।
तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः ॥ २,४२.३३ ॥

भूतानि च भविष्याणि वर्त्तमानानि यानि च ।
ब्रह्माण्डान्यखिलान्येव यस्मिंल्लंबोदरः स तु ॥ २,४२.३४ ॥

यः स्थिरो देवयोगेन च्छिन्नं संयोजितं पुनः ।
गजस्य शिरसा देवितेन प्रोक्तो गजाननः ॥ २,४२.३५ ॥

चतुर्थ्यामुदितश्चन्द्रो दर्भिणा शप्त आतुरः ।
अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः ॥ २,४२.३६ ॥

शप्तः पुरा सप्तभिस्तु मुनिभिः संक्षयं गतः ।
जातवेदा दीपितोऽभूद्येनासौशूर्पकर्मकः ॥ २,४२.३७ ॥

पुरा देवासुरे युद्धे पूजितो दिविषद्गणैः ।
विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः ॥ २,४२.३८ ॥

अद्यायं देवि रामेण कुठारेण निपात्य च ।
दशनं दैवतो भद्रे ह्येकदन्तः कृतोऽमुना ॥ २,४२.३९ ॥

भविष्यत्यथ पर्याये ब्रह्मणो हरवल्लभे ।
वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः ॥ २,४२.४० ॥

एवं तवास्य पुत्रस्य संति नामानि पार्वति ।
स्मरणात्पापहारीणि त्रिकालानुगतान्यपि ॥ २,४२.४१ ॥

अस्मात्त्रयोदशीकल्पात्पूर्वस्मिन्दशमीभवे ।
मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने ॥ २,४२.४२ ॥

जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि च ।
यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे ॥ २,४२.४३ ॥

संकष्टे काम्यसिद्ध्यर्थं पूजयेद्यो गजाननम् ।
तस्य सर्वाणि कार्याणि सिद्ध्यन्त्येव न संशयः ॥ २,४२.४४ ॥

वसिष्ठ उवाच
इत्युक्तं तु समाकर्ण्य कृष्णेन सुमहात्मना ।
पार्वती जगतां नाथा विस्मितासीच्छुभानना ॥ २,४२.४५ ॥

यदा नैवोत्तरं प्रादात्पार्वती शिवसन्निधौ ।
तदा राधाब्रवीद्देवीं शिवरूपा सनातनी ॥ २,४२.४६ ॥

श्रीराधोवाच ।
प्रकृतिः पुरुषश्चोभावन्योन्याश्रयविग्रहौ ।
द्विधा भिन्नौ प्रकाशेते प्रपञ्चेऽस्मिन् यथा तथा ॥ २,४२.४७ ॥

त्वं चाहमावयोर्देवि भेदो नैवास्ति कश्चन ।
विष्णुस्त्वमहमेवास्मि शिवो द्विगुणतां गतः ॥ २,४२.४८ ॥

शिवस्य हृदये विष्णुर्भवत्या रूपमास्थितः ।
मम रूपं समास्थाय विष्णोश्च हृदये शिवः ॥ २,४२.४९ ॥

एष रामो महाभागे वैष्णवः शैवतां गतः ।
गणेशोऽयं शिवः साक्षाद्वैष्णवत्वं समास्थितः ॥ २,४२.५० ॥

एतयोरोवयोः प्रभवोश्चापि भेदो न दृश्यते ।
एवामुक्त्वा तु सा राधा क्रोडे कृत्वा गजाननम् ॥ २,४२.५१ ॥

मूर्ध्न्युपाघ्राय पस्पर्श स्वहस्तेन कपोलके ।
स्पृष्टमात्रे कपोले तु क्षतं पूर्त्तिमुदागतम् ॥ २,४२.५२ ॥

पार्वती मुप्रसन्नाभूदनुनीताथ राधया ।
पादयोः पतितं राममुत्थाप्य निजपाणिना ॥ २,४२.५३ ॥

क्रोडीचकार सुप्रीता मूर्ध्न्यु पाघ्राय पार्वती ।
एवं तयोस्तु सत्कारं दृष्ट्वा रामगणेशयोः ॥ २,४२.५४ ॥

कृष्णः स्कन्दमुपाकृष्य स्वाङ्के प्रेम्णा न्यवेशयत् ।
अथ शंभुरपि प्रीतः श्रीदामानं पस्थितम् ॥ २,४२.५५ ॥

स्वोत्संगे स्थापयामास प्रेम्णा मत्कृत्य मानदः ॥ २,४२.५६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२॥