ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३८
← मध्यभागः, अध्यायः ३७ | ब्रह्माण्डपुराणम् अध्यायः ३८ [[लेखकः :|]] |
मध्यभागः, अध्यायः ३९ → |
वसिष्ठ उवाच
अन्तर्द्धानं गते कृष्णे रामस्तु सुमहायशाः ।
समुद्रिक्तमथात्मानं मेने कृष्णानुभावतः ॥ २,३८.१ ॥
अकृतव्रणसंयुक्तः प्रदीप्ताग्निरिव ज्वलन् ।
समायातो भार्गवोऽसीपुरीं महिष्मतीं प्रति ॥ २,३८.२ ॥
यत्र पापहरा पुण्या नर्मदा सरितां वरा ।
पुनाति दर्शनादेव प्राणिनः पापिनो ह्यपि ॥ २,३८.३ ॥
पुरा त्रय हरेणापि निविष्टेन महात्मना ।
त्रिपुरस्य विनाशाय कृतो यत्नो महीपते ॥ २,३८.४ ॥
तत्र किं वर्ण्यते पुण्यं नृणां देवस्वरूपिणाम् ।
सदृष्ट्वा नर्मदां भूप भर्गवः कुलनन्दनः ॥ २,३८.५ ॥
नमश्चकार सुप्रीतः शत्रुसाधनतत्परः ।
नमोऽस्तु नर्मदे तुभ्यं हरदेहसमुद्भवे ॥ २,३८.६ ॥
क्षिप्रं नाशय शत्रून्मे वरदा भव शोभने ।
इत्येवं स नमस्कृत्य नर्मदां पापनाशिनीम् ॥ २,३८.७ ॥
दूतं प्रस्थापयामास कार्त्तवीर्यार्जुनं प्रति ।
दूत राजात्वया वाच्यो यदहं वच्मि तेऽनघ ॥ २,३८.८ ॥
न संदेहस्त्वया कार्यो दूतः क्वापि न बध्यते ।
यद्बलं तु समाश्रित्य जमदग्निमुनिं नृपः ॥ २,३८.९ ॥
तिरस्त्वं कृतवान्मूढ तत्पुत्रो योद्धुमागतः ।
शीघ्रं निर्गच्छ मन्दात्मन्युद्धं रामाय देहि तत् ॥ २,३८.१० ॥
भार्गवं त्वं समासाद्य गच्छ लोकान्तरं त्वरा ।
इत्येवमुक्त्वा राजानं श्रुत्वा तस्य वचस्तथा ॥ २,३८.११ ॥
शीघ्रमागच्छ भद्रं ते विलंबो नेह शस्यते ।
तेनैवमुक्तो दूतस्तु गतो हैहयभूपतिम् ॥ २,३८.१२ ॥
रामोदितं तत्सकलं श्रावयामास संसदि ।
स राजात्रेयभक्तस्तु महाबलपराक्रमः ॥ २,३८.१३ ॥
चुक्रोध श्रुत्वा वाच्यं तद्दूतमुत्तरमावहत् ।
कार्त्तवीर्य उवाच
मया भुजबलेनैव दत्तदत्तेन मेदिनी ॥ २,३८.१४ ॥
जिता प्रसह्य भूपालान्बद्ध्वानीय निजं पुरम् ।
तद्बलं मयि वर्त्तेत युद्धं दास्ये तवाधुना ॥ २,३८.१५ ॥
इत्युत्क्वा विससर्ज्जाशु दूतं हैहयभूपतिः ।
सेनाध्यक्षं समाहूय प्रोवाच वदतां वरः ॥ २,३८.१६ ॥
सज्जं कुरु महाभाग सैन्यं मे वीरसंमतः ।
योत्स्ये रामेण भृगुणा विलंबो मा भवत्विति ॥ २,३८.१७ ॥
एवमुक्तो महावीरः सेनाध्यक्षः प्रतापनः ।
सैन्यं सज्जं विधायाशु चतुरङ्ग न्यवेदयत् ॥ २,३८.१८ ॥
सैन्यं सज्जं समाकर्ण्य कार्त्तवीर्यो नृपो मुदा ।
सूतोपनीतं स्वरथमारुरोह विशांपते ॥ २,३८.१९ ॥
तस्य राज्ञः समन्तात्तु सामन्ता मण्डलेश्वराः ।
अनेकाक्षौहिणीयुक्ताः परिवार्योपतस्थिरे ॥ २,३८.२० ॥
नागास्तु कोटिशस्तत्र हयस्यन्दनपत्तयः ।
असंख्याता महाराज सैन्ये सागरसन्निभे ॥ २,३८.२१ ॥
दृश्यन्ते तत्र भूपाला नानावंशसमुद्भवाः ।
महावीरा महाकाया नानायुद्धविशारदाः ॥ २,३८.२२ ॥
नानाशस्त्रास्त्रकुशला नानावाहगता नृपाः ।
नानालङ्कारसंयुक्ता मत्ता दानविभूषिताः ॥ २,३८.२३ ॥
महामात्रकृतेद्देशा भान्ति नागा ह्यनेकशः ।
नानाज्ञातिसमुत्पन्ना हयाः पवनरंहसः ॥ २,३८.२४ ॥
प्लवन्तो भान्ति भूपाल सादिभिः कृतशिक्षणाः ।
स्यन्दनानि सुदीर्घाणि जवनाश्वयुतानि च ॥ २,३८.२५ ॥
चक्रनिर्घोषयुक्तानि प्रावृण्मेघोपमानि च ।
पदातयस्तु राजन्ते खड्गचर्मधरा नृप ॥ २,३८.२६ ॥
अहंपूर्वमहंपूर्वमित्यहंपूर्वकान्विताः ।
यदा प्रचलितं सैन्यं कार्त्तवीर्यार्जुनस्य वै ॥ २,३८.२७ ॥
तदा प्राच्छादितं व्योम रजसा च दिशो दश ।
नानावादित्रनिर्घोषैर्हयानां ह्रेषितैस्तथा ॥ २,३८.२८ ॥
गजानां बृंहितै राजन्व्याप्तं गगनमण्डलम् ।
मार्गे ददर्श राजेन्द्रो विपरीतानि भूपते ॥ २,३८.२९ ॥
शकुनानि रणे तस्य मृत्युदौत्यकराणि च ।
मुक्तकेशां छिन्ननासां रुदतीं च दिगंबराम् ॥ २,३८.३० ॥
कृष्णवस्त्रपरीधानां वनितां स ददर्श ह ।
कुचैलं पतितं भग्नं नग्नं काषायवाससम् ॥ २,३८.३१ ॥
अङ्गहीनं ददर्शासौ नरं दुःशितमानसम् ।
गोधां च शशकं शल्यं रिक्तकुम्भं सरीमृपम् ॥ २,३८.३२ ॥
कार्पासं कच्छपं तैलं लवणं चास्थिखण्डकम् ।
स्वदक्षिणे शृगालं च कुर्वन्तं भैर्वं रवम् ॥ २,३८.३३ ॥
रोगिणं पुंल्कसं चैव वृषं च श्येनभल्लुकौ ।
दृष्ट्वापि प्रययौ योद्धुं कालपाशावृतो हझात् ॥ २,३८.३४ ॥
नर्मदोत्तरतीरस्थो ह्यकृतव्रणसंयुतः ।
वटच्छायासमासीनो रामोऽपश्यदुपागतम् ॥ २,३८.३५ ॥
कार्त्तवीर्यं नृपवरं शतकोटिनृपान्वितम् ।
सहस्राक्षौहिणीयुक्तं दृष्ट्वा बभूव ह ॥ २,३८.३६ ॥
अद्य मे सिद्धिमायातं कार्यं चिरसमीहितम् ।
यद्दृष्टिगोचरो जातः कार्तवीर्यो नृपाधमः ॥ २,३८.३७ ॥
इत्येवमुक्त्वा चोत्थाय धृत्वा परशुमायुधम् ।
व्यञ्जृभतारिनाशायसिंहः क्रुद्धो यथा तथा ॥ २,३८.३८ ॥
दृष्ट्वा समुद्यतं रामं सैनिकानां वधाय च ।
चकंपिरे भृशं सर्वे मृत्योरिव शरीरिणः ॥ २,३८.३९ ॥
स यत्र यत्रानिलरंहसं भृगुश्चिक्षेप रोषेण युतः परश्वधम् ।
ततस्ततश्छिन्नभुजोरुकङ्घरा नागा हयाः शूरनरा निपेतुः ॥ २,३८.४० ॥
यथा गजेन्द्रो मदयुक्समन्ततो नालं वनं भर्द्दयति प्रधावन् ।
तथैव रामोऽपि मनोनिलौजा विमर्द्दयामास नृपस्य सेनाम् ॥ २,३८.४१ ॥
दृष्ट्वा तमित्थं प्रहरन्तमोजसा रामं रणे शस्त्रभृतां वरिष्ठम् ।
उद्यम्य चापं महदास्थितो रथं सृज्यं च कृत्वा किलमन्स्यराजः ॥ २,३८.४२ ॥
आकृष्य वाणाननलोग्रतेजसः समाकिरन्भार्गवमाससाद ।
दृष्ट्वा तमायान्तमथो महात्मा रामो गृहीत्वा धनुषं महोग्रम् ॥ २,३८.४३ ॥
वायव्यमस्त्रं विदधे रुषाप्लुतो निवारयन्मङ्गलबाणवर्षम् ।
स चापि राजातिबलो मनस्वी ससर्ज रामाय तु पर्वतास्त्रम् ॥ २,३८.४४ ॥
तस्तंभ तेनातिबलं तदस्त्रं वायव्यमिष्वस्त्रविधानदक्षः ।
रामोऽपि तत्रातिबलं विदित्वा तं मत्स्यराजं विविधास्त्रपूगैः ॥ २,३८.४५ ॥
किरन्तमाजौ प्रसभं सुमोच नारायणास्त्रं विधिमन्त्रयुक्तम् ।
नारायणास्त्रे भृगुणा प्रयुक्ते रामेण राजन्नृपतेर्वधाय ॥ २,३८.४६ ॥
दिशस्तु सर्वाः सुभृशं हि तेजसा प्रजज्वलुर्मत्स्यपतिश्चकंपे ।
रामस्तु तस्याथ विलक्ष्य कम्पं बाणैश्चतुर्भिर्निजघान वाहान् ॥ २,३८.४७ ॥
शरेण चैकेन ध्वजं महात्मा चिच्छेद चापं च शरद्वयेन ।
बाणेन चैकेन प्रसह्य सारथिं निपात्य भूमौ रथमार्द्दयत्त्रिभिः ॥ २,३८.४८ ॥
त्यक्त्वा रथं भूमिगतं च मङ्गलं परश्वधेनाशु जघान मूर्द्धनि ।
स भिन्नशीर्षो रुधिरं वमन्मुहुर्मूर्च्छामवाप्याथ ममार च क्षणात् ॥ २,३८.४९ ॥
तत्सैन्यमस्त्रेण च संप्रदग्धं विनाशमायादथ भस्मसात्क्षणात् ।
तस्मिन्निपतिते राज्ञि चन्द्रवंशसमुद्भवे ॥ २,३८.५० ॥
मङ्गले नृपतिश्रेष्ठे रामो हर्षमुपागतः ॥ २,३८.५१ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यम भागे तृतीय
उपोद्धातपादे भार्गवचरिते अष्टात्रिंशत्तमोऽध्यायः ॥ ३८॥