ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः २४ ब्रह्माण्डपुराणम्
अध्यायः २५
[[लेखकः :|]]
मध्यभागः, अध्यायः २६ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
ततस्त द्रक्तियोगेन स प्रीतात्मा जगत्पतिः ।
प्रत्यक्षमगमत्तस्य सर्वैः सह मरुद्गणैः ॥ २,२५.१ ॥

तं दृष्ट्वा देवदेवेशं त्रिनेत्रं चन्द्रशेखरम् ।
वृषेन्द्रवाहनं शंभुं भूतकोटिसमन्वितम् ॥ २,२५.२ ॥

ससंभ्रमं समुत्थाय हर्षेणाकुललोचनः ।
प्रणाममकरोद्भक्त्या शर्वाय भुवि भार्गवः ॥ २,२५.३ ॥

उत्थायोत्थाय देवेशं प्रणम्य शिरसासकृत् ।
कृताञ्जलिपुटो रामस्तुष्टाव च जगत्पतिम् ॥ २,२५.४ ॥

राम उवाच
नमस्ते देवदेवेश नमस्ते परमेश्वर ।
नमस्ते जगतो नाथ नमस्ते त्रिपुरान्तक ॥ २,२५.५ ॥

नमस्ते सकलाध्यक्ष नमस्ते भक्तवत्सल ।
नमस्ते सर्वभूतेश नमस्ते वृषभध्वज ॥ २,२५.६ ॥

नमस्ते सकलाधीश नमस्ते करुणाकर ।
नमस्ते सकलावास नमस्ते नीललोहित ॥ २,२५.७ ॥

नमः सकलदेवारिगणनाशाय शूलिने ।
कपालिने नमस्तुभ्यं सर्वलोकैकपालिने ॥ २,२५.८ ॥

श्मशानवासिने नित्यं नमः कैलासवासिने ।
नमोऽस्तु पाशिने तुभ्यं कालकूटविषाशिने ॥ २,२५.९ ॥

विभवेऽमरवन्द्याय प्रभवे ते स्वयंभुवे ।
नमोऽखिलजगत्कर्मसाक्षिभूताय शंभवे ॥ २,२५.१० ॥

नमस्त्रिपथ गाफेनभासिगार्द्धन्दुमौलिने ।
महाभोगीन्द्रहाराय शिवाय परमात्मने ॥ २,२५.११ ॥

भस्मसंच्छन्नदेहाय नमोर्ऽकाग्नीन्दुचक्षुषे ।
कपर्दिने नमस्तुभ्यमन्धकासुरमर्द्दिने ॥ २,२५.१२ ॥

त्रिपुरध्वंसिने दक्षयज्ञविध्वंसिने नमः ।
गिरिजाकुचकाश्मीरविरञ्जितमहोरसे ॥ २,२५.१३ ॥

महादेवाय मह ते नमस्ते कृत्तिवाससे ।
योगिध्येयस्वरूपाय शिवायाचिन्त्यतेजसे ॥ २,२५.१४ ॥

स्वभक्तहृदयांभोजकर्णिकामध्यवर्त्तिने ।
सकलागमसिद्धान्तसाररूपाय ते नमः ॥ २,२५.१५ ॥

नमो निखिलयोगेन्द्रबोधनायामृतात्मने ।
शङ्करायाखिलव्याप्तमहिम्ने परमात्मने ॥ २,२५.१६ ॥

नमः शर्वाय शान्ताय ब्रह्मणे विश्वरुपिणे ।
आदिमध्यान्तहीनाय नित्यायाव्यक्तमूर्त्तये ॥ २,२५.१७ ॥

व्यक्ताव्यक्तस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
नमो वेदान्तवेद्याय विश्वविज्ञानरूपिणे ॥ २,२५.१८ ॥

नमः सुरासुरश्रेणिमौलिपुष्पार्चिताङ्घ्रये ।
श्रीकण्ठाय जगद्धात्रे लोककर्त्रे नमोनमः ॥ २,२५.१९ ॥

रजोगुणात्मने तुभ्यं विश्वसृष्टिविधायिने ।
हिरण्यगर्भरूपाय हराय जगदादये ॥ २,२५.२० ॥

नमो विश्वात्मने लोकस्थितिव्या पारकारिणे ।
सत्त्वविज्ञानरुपाय पराय प्रत्यगात्मने ॥ २,२५.२१ ॥

तमोगुणविकाराय जगत्संहारकारिणे ।
क्ल्पान्ते रुद्ररूपाय परापर विदे नमः ॥ २,२५.२२ ॥

अविकाराय नित्याय नमः सदसदात्मने ।
बुद्धिबुद्धिप्रबोधाय बुद्धीन्द्रियविकारिणे ॥ २,२५.२३ ॥

वस्वादित्यमरुद्भिश्च साध्यरुद्राश्विभेदतः ।
यन्मायाभिन्नमतयो देवास्तस्मै नमोनमः ॥ २,२५.२४ ॥

अविकारमजं नित्यं सूक्ष्मरूपमनौपमम् ।
तव यत्तन्न जानन्ति योगिनोऽपि सदामलाः ॥ २,२५.२५ ॥

त्वामविज्ञाय दुर्ज्ञेयं सम्यग्ब्रह्मादयोऽपि हि ।
संसरन्ति भवे नूनं न तत्कर्मात्मकाश्चिरम् ॥ २,२५.२६ ॥

यावन्नोपैति चरणौ तवाज्ञानविघातिनः ।
तावद्भ्रमति संसारे पण्डितोऽचेतनोऽपि वा ॥ २,२५.२७ ॥

स एव दक्षः स कृती स मुनिः स च पण्डितः ।
भवतश्चरणांभोजे येन बुद्धिः स्थिरीकृता ॥ २,२५.२८ ॥

सुसूक्ष्मत्वेन गहनः सद्भावस्ते त्रयीमयः ।
विदुषामपि मूढेन स मया ज्ञायते कथम् ॥ २,२५.२९ ॥

अशब्दगोजरत्वेन महिम्नस्तव सांप्रतम् ।
स्तोतुमप्यनलं सम्यक्त्वा महं जडधीर्यतः ॥ २,२५.३० ॥

तस्मादज्ञानतो वापि मया भक्त्यैव संस्तुतः ।
प्रीतश्च भव देवेश ननु त्वं भक्तवत्सलः ॥ २,२५.३१ ॥

वसिष्ठ उवाच
इति स्तुतस्तदा तेन भक्त्या रामेण शङ्करः ।
मेघगंभीरया वाचा तमुवाच हसन्निव ॥ २,२५.३२ ॥

भगवानुवाच
रामाहं सुप्रसन्नोऽस्मि शोर्ंयशालितया तव ।
तपसा मयि भक्त्या च स्तोत्रेण च विशेषतः ॥ २,२५.३३ ॥

वरं वरय तस्मात्त्वं यद्यदिच्छसि चेतसा ।
तुभ्यं तत्तदशेषेण दास्याम्यहमशेषतः ॥ २,२५.३४ ॥

वसिष्ठ उवाच
इत्युक्तो देवदेवेन तं प्रणम्य भृगूद्वहः ।
कृताञ्जलिपुटो भूत्वा राजन्निदमुवाच ह ॥ २,२५.३५ ॥

यदि देव प्रसन्नस्त्वं वारर्हेऽस्मि च यद्यहम् ।
भवतस्तदभीप्सामि हेतुमस्त्राण्यशेषतः ॥ २,२५.३६ ॥

अस्त्रे शस्त्रे च शास्त्रे च न मत्तोऽभ्यधिको भवेत् ।
लोकेषु मांरणेजेता न भवेत्त्वत्प्रसादतः ॥ २,२५.३७ ॥

वसिष्ठ उवाच
तथेत्युक्त्वा ततः शंभुरस्त्रशस्त्राण्यशेषतः ।
ददौ रामाय सुप्रीतः समन्त्राणि क्रमान्नृप ॥ २,२५.३८ ॥

सप्रयोगं ससंहारमस्त्रग्रामं चतुर्विधम् ।
प्रसादाभिमुखो रामं ग्राहयामास शङ्करः ॥ २,२५.३९ ॥

असंगवेगं शुभ्राश्वं सुध्वजं च रथोत्तमम् ।
इषुधी चाक्षयशरौ ददौ रामाय शङ्करः ॥ २,२५.४० ॥

अभेद्यमजरं दिव्यं दृढज्यं विजयं धनुः ।
सर्वशस्त्रसहं चित्रं कवचं च महाधनम् ॥ २,२५.४१ ॥

अजेयत्वं च युद्धेषु शौर्यं चाप्रतिमं भुवि ।
स्वेच्छया धारणे शाक्तिं प्राणानां च नराधिप ॥ २,२५.४२ ॥

ख्यातिं च बीजमेत्रेण तन्नाम्ना सर्वलौकिकीम् ।
तपः प्रभावं च महत्प्रददौ भार्गवाय सः ॥ २,२५.४३ ॥

भक्ति चात्मनि रामाय दत्त्वा राजन्यथोचिताम् ।
सहितः सकलैर्भूतैश्चामरैश्चन्द्रशेखरः ॥ २,२५.४४ ॥

तेनैव वपुषा शंभुः क्षिप्रमन्तरधाद्धरः ।
कृतकृत्यस्ततो रामो लब्ध्वा सर्वमभीप्सितम् ॥ २,२५.४५ ॥

अदृश्यतां गते शर्वे महोदरमुवाच ह ।
महोदर मदर्थे त्वमिदं सर्वमशेषतः ॥ २,२५.४६ ॥

रथचापादिकं तावत्परिरक्षितुमर्हसि ।
यदा कृत्यं ममैतेन तदानीं त्वं मया स्मृतः ।
रथचापादिकं सर्वं प्रहिणु त्वं मदन्तिकम् ॥ २,२५.४७ ॥

वसिष्ठ उवाच
तथेत्युक्त्वा गते तस्मिन्भृगुवर्यो महोदरे ।
कृतकृत्यो गुरुजनं द्रष्टुं गन्तुमियेष सः ॥ २,२५.४८ ॥

गच्छन्नथ तदासौ तु हिमाद्रिवनगह्वरे ।
विवेश कन्दरं रामो भाविकर्मप्रचोदितः ॥ २,२५.४९ ॥

स तत्र ददृशे बालं धृतप्राणमनुद्रुतम् ।
व्याघ्रेण विप्रतनयं रुदन्तं भीतभीतवत् ॥ २,२५.५० ॥

दृष्ट्वानुकंपहृदयस्तत्परित्राणकातरः ।
तिष्ठतिष्ठेति तं व्याघ्रं वदन्नुच्चैरथान्वयात् ॥ २,२५.५१ ॥

तमनुद्रुत्य वेगेन चिरादिव भृगूद्वहः ।
आससाद वने घोरं शार्दूलमतिभीषणम् ॥ २,२५.५२ ॥

व्याघ्रेणानुद्रुतः सोऽपि पलायन्वनगह्वरे ।
निपपात द्विजसुतस्त्रस्तः प्राणभयातुरः ॥ २,२५.५३ ॥

रामोऽपि क्रोधरक्ताक्षो विप्रपुत्रपरीप्सया ।
तृणमूलं समादाय कुशास्त्रेणाभ्यमन्त्रयत् ॥ २,२५.५४ ॥

तावत्तरक्षुर्बलवानाद्रवत्पतितं द्विजम् ।
दृष्ट्वा ननादसुभृशं रोदसी कम्पयन्निव ॥ २,२५.५५ ॥

दग्ध्वा त्वस्त्राग्निना व्याघ्रं प्रहरन्तं नखाङ्कुरैः ।
अकृतव्रणमेवाशु मोक्षयामास तं द्विजम् ॥ २,२५.५६ ॥

सोऽपि ब्रह्माग्निनिर्दग्धदेहः पाप्मा नभस्तले ।
गान्धर्वं वपुरास्थाय राममाहेति सादरम् ॥ २,२५.५७ ॥

विप्रशापेन भोपूर्वमहं प्राप्तस्तरक्षुताम् ।
गच्छामि मोचितः शापात्त्वयाहमधुना दिवम् ॥ २,२५.५८ ॥

इत्युक्त्वा तु गते तस्मिन्रामो वेगेन विस्मितः ।
पतितं द्विजपुत्रं तं कृपया व्यवपद्यत ॥ २,२५.५९ ॥

माभैरेवं वदन्वाणीमारादेव द्विजात्मजम् ।
परमृशत्तदङ्गानि शनैरुज्जीवयन्नृप ॥ २,२५.६० ॥

रामेणोत्थापितश्चैवं स तदोन्मील्य लोचने ।
विलोकयन्ददर्शाग्रे भृगुश्रेष्ठमवस्थितम् ॥ २,२५.६१ ॥

भस्मीकृतं च शार्दूलं दृष्टवा विस्मयमागतः ।
गतभीराह कस्त्वं भोः कथं वेह समागतः ॥ २,२५.६२ ॥

केन वायं निहन्तुं मामुद्यतो भस्मसात्कृतः ।
तरक्षुर्भीषणाकारः साक्षान्मृत्युरिवापरः ॥ २,२५.६३ ॥

भयसंमूढमनमो ममाद्यापि महामते ।
हतेऽपि तस्मिन्नखिला भान्ति वै तन्मया दिशः ॥ २,२५.६४ ॥

त्वामेव मन्ये सकलं पिता माता सुत्दृद्गुरू ।
परमापदमापन्नं त्वं मां समुपजीवयन् ॥ २,२५.६५ ॥

आसीन्मुनिवरः कश्चिच्छान्तो नाम महातपाः ।
पुत्रस्तस्यास्मि तीर्थार्थी शालग्राममयासिषम् ॥ २,२५.६६ ॥

तस्मात्संप्रस्थितश्शैलं दिदृक्षुर्गन्धमादनम् ।
नानामुनिगणैर्जुष्टं पुण्यं बदरिकाश्रमम् ॥ २,२५.६७ ॥

गन्तुकामोऽपहायाहं पन्थानं तु हिमाचले ।
प्रविशन्गहनं रम्यं प्रदेशालोकनाकुलम् ॥ २,२५.६८ ॥

दिशंप्राचीं समुद्दिश्य क्रोशमात्रमयासिषम् ।
ततो दिष्टवशेनाहं प्राद्रवं भयपीडितः ॥ २,२५.६९ ॥

पतितश्च त्वया भूयोभूमेरुत्थापितोऽधुना ।
पित्रेव नितरां पुत्रः प्रेम्णात्यर्थं दयालुना ।
इत्येष मम वृत्तान्तः साकल्येनोदितस्तव ॥ २,२५.७० ॥

वसिष्ठ उवाच
इति पृष्टस्तदा तेन स्ववृत्तान्तमशेषतः ।
कथयामास राजेन्द्र रामस्तस्मै यथाक्रमम् ॥ २,२५.७१ ॥

ततस्तौ प्रीतिसंयुक्तौ कथयन्तौ परस्परम् ।
स्थित्वा नातिचिरं कालमथ गन्तुमियेष सः ॥ २,२५.७२ ॥

अन्वीयमानस्तेनाथ रामस्तस्माद्गुहामुखात् ।
निष्क्रम्यावसथं पित्रोः संप्रतस्थे मुदान्वितः ॥ २,२५.७३ ॥

अकृतव्रण एवासौ व्याघ्रेण भुवि पातितः ।
रामेण रक्षितश्चाभुद्यस्माद्ध्याघ्रं विनिघ्नता ॥ २,२५.७४ ॥

तस्मात्तदेव नामास्य बभूव प्रथितं भुवि ।
विप्रपुत्रस्य राजेन्द्र तदेतत्सोऽकृतव्रणः ॥ २,२५.७५ ॥

तदा प्रभृति रामस्य च्छायेवातपगा भुवि ।
बभूव मित्रमत्यर्थं सर्वावस्थासु पार्थिव ॥ २,२५.७६ ॥

स तेनानुगतो राजन्भृगोरासाद्य सन्निधिम् ।
दृष्ट्वा ख्यातिं च सोऽभ्येत्य विनयेनाभ्यवादयत् ॥ २,२५.७७ ॥

स ताभ्यां प्रियमाणाभ्यामाशीर्भिरभिनन्दितः ।
दिनानि कतिचित्तत्र न्यवसत्तत्प्रियेप्सया ॥ २,२५.७८ ॥

ततस्तयोरनुमते च्यवनस्य महामुनेः ।
आश्रमं प्रतिचक्राम शिष्यसंघैः समावृतम् ॥ २,२५.७९ ॥

नियन्त्रितान्तः करणं तं च संशान्तमानसम् ।
सुकन्याचापि तद्भार्यामवन्दत महामनाः ॥ २,२५.८० ॥

ताभ्यां च प्रीतियुक्ताभ्यां रामः समभिनन्दितः ।
और्वाश्रमं समापेदे द्रष्टुकामस्तपोनिधिम् ॥ २,२५.८१ ॥

तं चाभिवाद्य मेधावी तेन च प्रतिनन्दितः ।
उवास तत्र तत्प्रीत्या दिनानि कतिचिन्नृप ॥ २,२५.८२ ॥

विसृष्टस्तेन शनकैरृचीकभवनं मुदा ।
प्रतस्थे भार्गवः श्रीमानकृतव्रणसंयुतः ॥ २,२५.८३ ॥

अवन्दत पितुः पित्रोर्नत्वा पादौ पृथक्पृथक् ।
तौ च तं नृप संहर्षाच्चाशिषा प्रत्यनन्दताम् ॥ २,२५.८४ ॥

पृष्टश्च ताभ्यामखिलं निजवृत्तमुदारधीः ।
कथयामास राजेन्द्र यथावृत्तमनुक्रमात् ॥ २,२५.८५ ॥

स्थित्वा दिनानि कतिचित्तत्रापि तदनुज्ञया ।
जगामावसथं पित्रोर्मुदा परमया युतः ॥ २,२५.८६ ॥

अभ्येत्य पितरौ राजन्नासी नावाश्रमोत्तमे ।
अवन्दत तयोः पादौ यथावद्भृगुनन्दन ॥ २,२५.८७ ॥

पादप्रणामावनतं समुत्थाप्य च सादरम् ।
आश्लिष्य नेत्रसलिलैर्नन्दन्तौ पर्यषिञ्चताम् ॥ २,२५.८८ ॥

आशीर्भिरभिनन्द्याङ्के समारोप्य सुहुर्मुखम् ।
विक्षन्तौ तस्य चाङ्गानि परिस्पृश्यापतुर्मुदम् ॥ २,२५.८९ ॥

अपृच्छताञ्च तौ रामं कलेनैतावता त्वया ।
किं कृतं पुत्र को वायं कुत्र वा त्वमुपस्थितः ॥ २,२५.९० ॥

कथं सह सकाशे त्वमास्थितो वात्र वागतः ।
त्वयेतदखिलं वत्स कथ्यतां तथ्यमावयोः ॥ २,२५.९१ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने भार्गवचरिते पञ्चविंशतितमोऽध्यायः ॥ २५॥