सामग्री पर जाएँ

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५

विकिस्रोतः तः
← मध्यभागः, अध्यायः ४ ब्रह्माण्डपुराणम्
अध्यायः ५
[[लेखकः :|]]
मध्यभागः, अध्यायः ६ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

ऋषिरुवाच
दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सर्पभूतापिशाचानां वसूनां पक्षिवीरुधाम् ॥ २,५.१ ॥
उत्पत्तिं निधनं चैव विस्तारात्कथयस्व नः ।
एवमुक्तस्तदा सूतः प्रत्युवाचर्षिसत्तमम् ॥ २,५.२ ॥
सूत उवाच
दितेः पुत्रद्वयं जज्ञे कन्या चैका महाबला ।
कश्यपस्यात्मजौ तौ तु सर्वेभ्यः पूर्वजौ स्मृतौ ॥ २,५.३ ॥
सौत्येऽहन्यतिरात्रस्य कश्यपस्याश्वमेधिकाः ।
हिरण्यकशिपुर्नाम प्रथितं पृथगासनम् ॥ २,५.४ ॥
दित्या गर्भाद्विनिःसृत्य तत्रासीनः समन्ततः ।
हिरण्यकशिपुस्तस्मात्कर्मणा तेन स समृतः ॥ २,५.५ ॥
ऋषय ऊचुः
हिरण्यकशिपोर्जन्म नाम चैव महात्मनः ।
प्रभावं चैव दैत्यस्य विस्ताराद्ब्रूहि नः प्रभो ॥ २,५.६ ॥
सूत उवाच
कश्यपस्याश्वमेधोऽभूत्पुण्ये वै पुष्करे तदा ।
ऋषिभिदेंवताभिश्च गन्धर्वैरुपशोभितः ॥ २,५.७ ॥
उत्सृष्टे स्वे च विधिना आख्यानादौ यथाविधि ।
आसनान्युपकॢप्तानि सौवर्णानि तु पञ्च वै ॥ २,५.८ ॥
कुलस्पदापि? त्रीण्यत्र कूर्चः फलकमेव च ।
मुख्यर्त्विजस्तु चत्वारस्तेषां तान्युपकल्पयन् ॥ २,५.९ ॥
कॢप्तं तत्रासनं चैकं होतुरर्थे हिरण्मयम् ।
निषसाद सगर्भोऽत्र तत्रासीनः शशंस च ॥ २,५.१० ॥
आख्यानमानुपूर्व्येण महर्षिः कश्यपो यथा ।
तं दृष्ट्वा ऋषयस्तस्य नाम कुर्वन्ति वर्द्धितम् ॥ २,५.११ ॥
हिरण्यकशिपुस्तस्मात्कर्मणा तेन स स्मृतः ।
हिरण्यक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा ॥ २,५.१२ ॥
राहोः सा जननी देवी विप्रचित्तेः परिग्रहः ।
हिरण्यकशिपुर्दैत्यश्चचार परमं तपः ॥ २,५.१३ ॥
शतं वर्षसहस्राणां निराहारो ह्यधःशिराः ।
वरयामास ब्रह्माणं तुष्टं दैत्यो वरेण तु ॥ २,५.१४ ॥
सर्वामरत्वमवधं सर्वभूतेभ्य एव हि ।
योगाद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः ॥ २,५.१५ ॥
कारयेऽहमिहैश्वर्यं बलवीर्यसमन्वितः ।
दानवास्त्वसुराश्चैव देवाश्च सह चारणैः ॥ २,५.१६ ॥
भवन्तु वशगाः सर्वे मत्समीपानुभोजनाः ।
आर्द्रशुष्कैरवध्यश्च दिवा रात्रौ तथैव च ।
एवमुक्तस्तदा ब्रह्मानुजज्ञे सांतरं वरम् ॥ २,५.१७ ॥
ब्रह्मोवाच ।
महानयं वरस्तात वृतो दितिसुत त्वया ।
एहीदानीं प्रतिज्ञानं भविष्यत्येवमेव तु ॥ २,५.१८ ॥
दत्त्वा चाभिमतं तस्मै तत्रैवान्तरधादथ ।
सोऽपि दैत्यस्तदा सर्वं जगत्स्थावरजङ्गमम् ॥ २,५.१९ ॥
महिम्ना व्याप्य संतस्थे बहुमूर्त्तिरमित्रजित् ।
स एव तपति व्योम्नि चन्द्रसूर्यत्वमास्थितः ॥ २,५.२० ॥
स एव वायुर्भूत्वा च ववौ जगति सर्वदा ।
स गोपालोऽविपालश्च कर्षकश्च स एव ह ॥ २,५.२१ ॥
स ज्ञाता सर्वलोकेषु मन्त्रव्याख्याकरस्तथा ।
नेता गोप्ता गोपयिता दीक्षितो याजकः स तु ॥ २,५.२२ ॥
तस्य देवाः सुराः सर्वे तदासन्सोमपायिनः ।
एवंप्रभावो दैत्योऽसावतो भूयो निबोधत ॥ २,५.२३ ॥
तस्मै सर्वे नमस्कारं कुर्वन्तीज्यः स एव च ।
हिरण्यकशिपोर्दैत्यैः श्लोको गीतः पुरा त्विह ॥ २,५.२४ ॥
हिरण्यकशिपू राजा यां यामाशां निरैक्षत ।
तस्यै तस्यै तदा देवा नमश्चक्रुर्महर्षिभिः ॥ २,५.२५ ॥
तस्यासीन्नरसिंहस्तु मृत्युर्विष्णुः पुरा किल ।
नरात्तु यस्माज्जन्मास्य नरमूर्त्तिश्च यत्प्रभुः ॥ २,५.२६ ॥
तस्मात्स नरसिंहो वै गीयते वेदवादिभिः ।
सागरस्य च वेलायामुच्छ्रितस्तपसो विभुः ॥ २,५.२७ ॥
शरीरं तस्य देवस्य ह्यासीद्देवमयं प्रभो ।
नाम्ना सुदर्शनं चैव विश्रुतश्च महाबलः ॥ २,५.२८ ॥
ततः स बाहुयुद्धेन दैत्येन्द्रं तं महाबलम् ।
नखैर्बिभेद संक्रुद्धो नार्द्राः शुष्का नखा इति ॥ २,५.२९ ॥
हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः ।
शंबरः शकुनिश्चैव कालनाभस्तथैव च ॥ २,५.३० ॥
महानाभः सुविक्रान्तो सुत संतापनस्तथा ।
हिरण्यक्षसुता ह्येते देवैरपि दुरासदाः ॥ २,५.३१ ॥
तेषां पुत्राश्च पौत्राश्च दैतेयाः सगणाः स्मृताः ।
स शतानि सहस्राणि निहतास्तारकामये ॥ २,५.३२ ॥
हिरण्यकशिपोः पुत्राश्चत्वारः सुमहाबलाः ।
प्रह्लादः पूर्वजस्तेषामनुह्रादस्तथापरः ॥ २,५.३३ ॥
संह्रादश्चैव ह्रादश्च ह्रादपुत्रौ निबोधत ।
सुंदो निसुन्दश्च तथा ह्रादपुत्रौ बभूवतुः ॥ २,५.३४ ॥
ब्रह्यघ्नौ तौ महावीरौ मूकस्तु ह्राददायकः ।
मारीचः सुन्दपुत्रस्तु ताडकायामजायत ॥ २,५.३५ ॥
दण्डके निहतः सोऽथ राघवेण बलीयसा ।
मूको विनिहतश्चापि कैराते सव्यसाचिना ॥ २,५.३६ ॥
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ।
उत्पन्ना महता चैव तपसा भाविताः स्वयम् ॥ २,५.३७ ॥
अरयो देवतानां ते जंभस्य शतदुन्दुभिः ।
तथा दक्षो सुरश्चण्डश्चत्वारो देत्यनायकाः ॥ २,५.३८ ॥
बाष्कलस्य सुता ह्येते कालनेमेः सुताञ्छृणु ।
ब्रह्मजित्क्रतुजिच्चैव देवान्तकनरान्तकौ ॥ २,५.३९ ॥
कालनेमिसुता ह्येते शंभोस्तु शृणुत प्रजाः ।
राजाजश्चैव गोमश्च शंभोः पुत्रौ प्रकीर्त्तितौ ॥ २,५.४० ॥
विरोचनस्य पुत्रश्च बलिरेकः प्रतापवान् ।
बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ॥ २,५.४१ ॥
तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः ।
सहस्रबाहुः श्रेष्ठोऽभूद्बाणो राजा प्रतापवान् ॥ २,५.४२ ॥
कुंभगर्त्तो दयो भोजः कुञ्चिरित्येवमा दयः ।
शकुनी पूतना चैव कन्ये द्वे तु बलेः स्मृते ॥ २,५.४३ ॥
बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
बालेया नाम विख्याता गणा विक्रान्तपौरुषाः ॥ २,५.४४ ॥
बाणस्य चैन्द्रधन्वा तु लोहिन्यामुदपद्यत ।
दितिर्विहितपुत्रा वै तोषयामास कश्यपम् ॥ २,५.४५ ॥
तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्त्वथ ।
वरेण छन्दयामास सा च वव्रे वरं तत ॥ २,५.४६ ॥
अथ तस्यै वरं प्रादात्प्रार्थितो भगवान्पुनः ।
उक्ते वरे तु मा तुष्टा दितिस्तं समभाषत ॥ २,५.४७ ॥
मारीचं कण्यपं देवी भर्त्तारं प्राञ्जलिस्तदा ।
हतपुत्रास्मि भगवन्नादित्यैस्तव सूनुभिः ॥ २,५.४८ ॥
शक्रहन्तारमिच्छमि पुत्रं दीर्घतपोऽर्जितम् ।
साहं तपश्चरिष्यामि गर्भमाधातुमर्हसि ॥ २,५.४९ ॥
पुत्रमिन्द्रवधे युक्तं त्वं मै वै दातुमर्हसि ।
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा ॥ २,५.५० ॥
प्रत्युवाच महातेजा दितिं परमदुः खितः ।
एवं भवतु गर्भे तु शुचिर्भव तपोधने ॥ २,५.५१ ॥
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ।
पूर्णं वर्षसहस्रं तु शुचिर्यदि भविष्यसि ॥ २,५.५२ ॥
पुत्रं त्रिलोकप्रवरं मन्मथं जनयिष्यसि ।
एवमुक्त्वा महातेजास्तथा समभावत्तदा ॥ २,५.५३ ॥
तामालभ्य स्वभवनं जगाम भगवानृषिः ।
गते भर्त्तरि सा देवी दितिः परमहर्षिता ॥ २,५.५४ ॥
कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ।
शक्रस्तु समुपश्रुत्य संवादं तं तयोः प्रभुः ॥ २,५.५५ ॥
कुशप्लवनमागम्य दितिं वाक्यमभाषत ।
शुश्रूषां ते करिष्यामि मानुज्ञां दातुमर्हसि ॥ २,५.५६ ॥
समिधश्चाहरिष्यामि पुष्पाणि च फलानि च ।
यथा त्वं मन्यसे वत्स सुश्रूषाभिरतो भव ॥ २,५.५७ ॥
सर्वकर्मसु निष्णात आत्मनो हितमाचर ।
वरं श्रुत्वा तु त द्वाक्यं मातुः शक्रः प्रहर्षितः ॥ २,५.५८ ॥
शुश्रूषाभिरतो भूत्वा कलुषेणान्तरात्मना ।
शुश्रूषते तु तां शक्रः सर्वकालमनुव्रतः ॥ २,५.५९ ॥
फलपुष्पाण्युपादाय समिधश्च दृढव्रतः ।
गात्रसंवाहनं काले श्रमापनयने तथा ॥ २,५.६० ॥
शक्रः सर्वेषु कालेषु दितिं परिचचार ह ।
किञ्चिच्छिष्टे व्रते देवी तुष्टा शक्रमुवाच ह ॥ २,५.६१ ॥
प्रतीताहं ते सुरश्रेष्ठ दशवर्षाणि पुत्रक ।
अवशिष्ठानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ २,५.६२ ॥
तमहं त्वत्कृते पुत्र सह धास्ये जयैषिणम् ।
त्रैलोक्यविजयं पुत्र भोक्ष्यसे सह तेन वै ॥ २,५.६३ ॥
नाहं पुत्राभिजानामि मद्भक्तिगतमानसम् ।
एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे ॥ २,५.६४ ॥
निद्रयापहृता दवी शिरः कृत्वा तु जानुनि ।
केशान्कृत्वा तु पादस्थान्सा सुष्वाप च देवता ॥ २,५.६५ ॥
अधस्ताद्यत्तु नाभेर्वै सर्वं तदशुचि स्मृतम् ।
ततस्तामशुचिं ज्ञात्वा सोंतरं तदमन्यत ॥ २,५.६६ ॥
दृष्ट्वा तु कारणं सर्वं तस्य बुद्धिरजायत ।
गर्भं निहन्तु वै देव्या स हि दोषोऽत्र दृश्यते ॥ २,५.६७ ॥
ततो विवेश दित्या वै ह्युपस्थेनोदरं वृषा ।
प्रविश्य चापि तं दृष्ट्वा गभमिन्द्रो महौजसम् ॥ २,५.६८ ॥
भीतस्तं सप्तधा गभ बिभेद रिपुमात्मनः ।
म गर्भो भिद्यमानस्तु वज्रणशतपर्वणा ॥ २,५.६९ ॥
रुरोद सुस्वरं भीमं वेपमानः पुनः पुनः ।
मारोद मारोद इति गर्भं शक्रोऽभ्यभाषत ॥ २,५.७० ॥
तं गर्भं सप्तधा कृत्वा ह्येकैकं सप्तधा पुनः ।
कुलिशेन बिभेदेन्द्रस्ततो दितिरबुध्यता ॥ २,५.७१ ॥
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
निष्पपात ततो वज्री मातुर्वचनगौरवात् ॥ २,५.७२ ॥
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।
अशुचिर्देवि सुप्तासि पादयोर्गतमूर्द्धजा ॥ २,५.७३ ॥
तदं तरमनुप्राप्य गर्भं हेतारमाहवे ।
भिन्नवानहमेतं ते बहुधा क्षन्तुमर्हसि ॥ २,५.७४ ॥
तस्मिंस्तु विफले गर्भे दितिः परमदुःखिता ।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥ २,५.७५ ॥
ममापराधाद्गर्भोऽयं यदि ते विफलीकृतः ।
नापराधोऽस्ति देवेश तव पुत्र महाबल ॥ २,५.७६ ॥
शत्रोर्वधे न दोषोऽस्ति भेतव्यं न च ते विभो ।
प्रियं तु कृतमिच्छामि श्रेयो गर्भस्य मे कुतः ॥ २,५.७७ ॥
भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि ।
वातस्कन्धानिमान्सप्त चरन्तु मम पुत्रकाः ॥ २,५.७८ ॥
मरुतस्ते तु विख्याता गतास्ते सप्तसप्तकाः ।
पृथिव्यां प्रथमस्कन्धो द्वितीयश्चापि भास्करे ॥ २,५.७९ ॥
सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ।
ग्रहेषु पञ्चमश्चैव षष्ठः सप्तर्षिमण्डले ॥ २,५.८० ॥
ध्रुवे तु सप्तमश्चैव वातस्कन्धाश्च सप्त ये ।
तानेते विचरन्त्वद्य कालेकाले ममात्मजाः ॥ २,५.८१ ॥
वातस्कन्धाधिपा भूत्वा चरन्तु मम पुत्रकाः ।
पृथिव्यां प्रथमस्कन्ध आ मेघेभ्यो य आवहः ॥ २,५.८२ ॥
चरन्तु मम पुत्रास्ते सप्त ये प्रथमे गणे ।
द्वितीयश्चापि मेघेभ्य आसूर्यात्प्रवहस्ततः ॥ २,५.८३ ॥
वातस्कन्धो हि विज्ञेयो द्वितीयश्चरतां गणः ।
सूर्यादूर्ध्वमधः सोमादुद्वहोऽथ स वै स्मृतः ॥ २,५.८४ ॥
वातस्कन्धस्तृतीयश्च पुत्राणां चरता गणः ।
सोमादूर्द्ध्वमधर्क्षेभ्यश्चतुर्थ संवहस्तु सः ॥ २,५.८५ ॥
चतुर्थो मम पुत्राणां गणस्तु चरतां विभो ।
ऋक्षेभ्यश्च तथैवोर्द्ध्वमा ग्रहाद्विवहस्तु यः ॥ २,५.८६ ॥
वातस्कन्धः पञ्चमस्तु पुत्राणां चरतां गणः ।
ग्रहेभ्य ऊर्द्ध्वमार्षिभ्यः षष्ठो ह्यनुवहश्च यः ॥ २,५.८७ ॥
वातस्कन्धस्तत्र मम पुराणां चरता गणः ।
ऋषिभ्य ऊर्द्ध्वमाध्रौवं सप्तमो यः प्रकीर्त्तितः ॥ २,५.८८ ॥
वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ।
एतान्सर्वाश्चरन्त्वन्ते कालेकाले ममात्मजाः ॥ २,५.८९ ॥
त्वत्कृतेन च नाम्ना वै भवतु मरुतस्त्विमे ।
ततस्तेषां तु नामानि मत्पुत्राणां शतक्रतो ॥ २,५.९० ॥
तद्विधैः कर्मभिश्चैव समवेहि पृथक्पृथक् ।
शक्रज्योतिस्तथा सत्यः सत्यज्योतिस्तथापरः ॥ २,५.९१ ॥
चित्रज्योतिश्च ज्योतिष्मान् सुतपश्चैत्य एव च ।
प्रथमोऽयं गणः प्रोक्तो द्वितीयं तु निबोधत ॥ २,५.९२ ॥
ऋतजित्सत्यजिश्चैव सुषेणः सेनजित्तथा ।
सुतमित्रो ह्यमित्रश्च सुरमित्रस्तथापरः ॥ २,५.९३ ॥
गण एष द्वितीयस्तु तृतीयं च निबोधत ।
धातुश्च धनदश्चैव ह्युग्रो भीमस्तथैव च ॥ २,५.९४ ॥
वरुणश्च तृतीयं च मया प्रोक्तं निबोधत ।
अभियुक्ताक्षिकश्चैव साह्वायश्च गणः स्मृतः ॥ २,५.९५ ॥
ईदृक्चैव तथान्यादृक्समरिद्द्रुमवृचक्षकाः ।
मितश्च समितश्चैव पञ्चमश्च तथा गणः ॥ २,५.९६ ॥
ईदृक्च पुरुषश्चैव नान्यादृक्समचेतनः ।
संमितः समवृत्तिश्च प्रतिहर्ता च षड्गणाः ॥ २,५.९७ ॥
यज्ञैश्चित्वास्तुवन्सर्वे तथान्ये मानुषा विशः ।
दैत्यदेवाः समाख्याताः सप्तैते सप्तसप्तकाः ॥ २,५.९८ ॥
एते ह्येकोनपञ्चाशन्मरुतो नामतः स्मृताः ।
प्रसंख्यातास्तदा ताभ्यां दित्या शक्रेण चैव वै ॥ २,५.९९ ॥
कृत्वा चैतानि नामानि दितिरिन्द्रमुवाच ह ।
वातस्कन्धांश्चरन्त्वेते भ्रतरो मम पुत्रकाः ॥ २,५.१०० ॥
विचरन्तु च भद्रं ते देवैः सह ममात्मजाः ।
तस्यास्तद्वचनं श्रुत्वा महस्राक्षः पुरन्दरः ॥ २,५.१०१ ॥
उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ।
सर्व मेतद्यथोक्तं ते भविष्यति न संशयः ॥ २,५.१०२ ॥
एवंभूता महात्मानः कुमारा लोकसंमताः ।
देवैः सह भविष्यन्ति यज्ञभाजस्तवात्म जाः ॥ २,५.१०३ ॥
तस्मात्ते मरुतो देवाः सर्वे चेन्द्रानुजा वराः ।
विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तरस्विनः ॥ २,५.१०४ ॥
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ।
जग्मतुस्त्रिदिवं त्दृष्टौ शक्रमाभूद्गतज्वरः ॥ २,५.१०५ ॥
मरुतां च शुभं जन्म शृणुयाद्यः पठेच्च वा ।
वादे विजयमाप्नोति लब्धात्मा च भवत्युत ॥ २,५.१०६ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे मरुदुत्पत्तिवर्णनंनाम पञ्चमोध्यायः।