ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५१

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ५० ब्रह्माण्डपुराणम्
अध्यायः ५१
[[लेखकः :|]]
मध्यभागः, अध्यायः ५२ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सगर उवाच
कुशलं मम सर्वत्र महर्षे नात्र संशयः ।
यस्य मे त्वमनुध्याता शमं भार्गवसत्तमः ॥ २,५१.१ ॥

यस्तथा शिक्षितः पूर्वमस्त्रे शस्त्रे च सांप्रतम् ।
सोऽहं कथमशक्तः स्यां सकलारिविनिग्रहे ॥ २,५१.२ ॥

त्वं मे गुरुः सुहृद्दैवं बन्धुर्मित्रं च केवलम् ।
न ह्यन्यमभिजानामि त्वामृते पितरं च मे ॥ २,५१.३ ॥

त्वयोपदिष्टेनास्त्रेण सकला भूभृतो मया ।
विजिता यदनुस्मृत्या शक्तिः सा तपसस्तव ॥ २,५१.४ ॥

तपसा त्वं जगत्सर्वं पुनासि परिपासि च ।
स्रष्टुं संहर्त्तुमपि च शक्नोष्येव न संशयः ॥ २,५१.५ ॥

महाननन्यसामान्यप्रभावस्तपसश्च ते ।
इह तस्यैकदेशोऽपि दृश्यते विस्मयप्रदः ॥ २,५१.६ ॥

पश्यसिंहासने बाल्यादुपेत्य मृगपोतकः ।
पिबत्यंभः शनैर्ब्रह्मन्निःशङ्कं ते तपोवने ॥ २,५१.७ ॥

धयत्यत्रातिविस्रंभात्कृशापि हरिणी स्तनम् ।
करोति मृगशृङ्गाग्रे गण्डकण्डूयनं रुरुः ॥ २,५१.८ ॥

नवप्रसूतां हरिणीं हत्वा वृत्त्यै वनान्तरे ।
व्याघ्री त्वत्तपसावासे सैव पुष्णाति तच्छिशून् ॥ २,५१.९ ॥

गजं द्रुतमनुद्रुत्य सिंहो यस्मादिदं वनम् ।
प्रविष्टोऽनुसरन्तौ त्वद्भयादेकत्र तिष्ठतः ॥ २,५१.१० ॥

नकुलस्त्वाशुमार्जारमयूरशशपन्नगाः ।
वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः ॥ २,५१.११ ॥

सृगाला गवयागावो हरिणा महिषास्तथा ।
वनेऽत्र सहजं वैरं हित्वा मैत्रीमुपागताः ॥ २,५१.१२ ॥

एवंविधा तपःशक्तिर्लोकविस्मयदायिनी ।
न क्वापि दृश्यते ब्रह्मंस्त्वामृते भुवि दुर्लभा ॥ २,५१.१३ ॥

अहं तु त्वत्प्रसादेन विजित्य वसुधामि माम् ।
रिपुभिः सह विप्रर्षे स्वराज्यं समुपागतः ॥ २,५१.१४ ॥

वश्यामात्यस्त्रिवर्गेऽपि यथायोग्यकृतादरः ।
त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयम् ॥ २,५१.१५ ॥

एवं प्रवर्त्तमानस्य मम राज्येऽवतिष्ठतः ।
भवद्दिदृक्षा संजाता सापेक्षा भृगुपुङ्गव ॥ २,५१.१६ ॥

किं त्वद्य मयि पर्याप्तमनपत्यतयैव मे ।
पितृपिण्डप्रदानेन सह संरक्षणं भुवः ॥ २,५१.१७ ॥

तदिदं दुःशमत्यर्थमनिवार्यं मनोगतम् ।
नानयोऽपहर्त्तां लोकंऽस्मिन्ममेति त्वामुपागतः ॥ २,५१.१८ ॥

इत्युक्तः सगरेणाथ स्थित्वा सोऽतर्मनाः क्षणम् ।
उवाच भगवानौर्वः सनिदेशमिदं वचः ॥ २,५१.१९ ॥

नियम्य सह भार्याभ्यां किञ्चित्कालमिहावस ।
अवाप्स्यति ततोऽभीष्टं भवान्नात्र विचारमा ॥ २,५१.२० ॥

स च तत्रावसत्प्रीतस्तच्छुश्रूषापरायमः ।
पत्नीभ्यां सह धर्मात्मा भक्तियुक्तश्चिरं तदा ॥ २,५१.२१ ॥

राजपत्न्यौ च ते तस्य सर्वकालमतन्द्रिते ।
मुनेरतनुतां प्रीतिं विनयाचारभक्तिभिः ॥ २,५१.२२ ॥

भक्त्या शुश्रूषया चैव तयोस्तुष्टो महामुनिः ।
राजपत्न्यौ समाहूय इदं वचनम ब्रवीत् ॥ २,५१.२३ ॥

भवत्यौ वरमस्मत्तो व्रियतां काममीप्सितम् ।
दास्यामि तं न संदेहो यद्यपि स्यात्सुदुर्ल्लभम् ॥ २,५१.२४ ॥

ततः प्रणम्यशिरसा तेऽप्युभे तं महामुनिम् ।
ऊचतुर्भगवान्पुत्रान्कामयावेति सादरम् ॥ २,५१.२५ ॥

ततस्ते भगवानाह भवतीभ्यां मया पुनः ।
राज्ञश्चप्रियकामेन वरो दत्तोऽयमीप्सितः ॥ २,५१.२६ ॥

पुत्रवत्यौ महाभागे भवत्यौ मत्प्रसादतः ।
भवेतां ध्रुवमन्यच्च श्रूयतां वचनं मम ॥ २,५१.२७ ॥

पुत्रो भविष्यत्येकस्यामेकः सोऽनतिधार्मिकः ।
तथापि तस्य कल्पान्तं संभूतिश्च भविष्यति ॥ २,५१.२८ ॥

षष्टिः पुत्रसहस्राणामपरस्यां च जायते ।
अकृतार्थाश्च ते सर्वे विनङ्क्ष्यन्त्यचिरादिव ॥ २,५१.२९ ॥

एवंविधगुणेपेतो वरौ दत्तौ मया युवाम् ।
अभीप्सितं तु यद्यस्याः स्वेच्छया तत्प्रकीर्त्यताम् ॥ २,५१.३० ॥

एवमुक्ते तु मुनिना वैदर्भ्यान्वयवर्द्धनम् ।
वरयामास तनयं पुत्रानन्यास्तथा परा ॥ २,५१.३१ ॥

इति दत्त्वा वरं राज्ञे सगराय महामुनिः ।
सभार्यामनुमान्यैनं विससर्ज पुरीं प्रति ॥ २,५१.३२ ॥

मुनिना समनुज्ञातः कृत कृत्यो महीपतिः ।
रथमारुह्य वेगेन सप्रियः प्रययौ पुरीम् ॥ २,५१.३३ ॥

स प्रविश्य पुरीं रम्यां त्दृष्टपुष्टजनावृताम् ।
आनन्दितः पौरजनै रेमे परमया मुदा ॥ २,५१.३४ ॥

एतस्मिन्नेव काले तु राजपत्न्यावुभे नृप ।
राज्ञे प्रावोचतां गर्भं मुदा परमया युते ॥ २,५१.३५ ॥

ववृधे च तयोर्गर्भः शुक्लपक्षे यथोडुराट् ।
सह संतोषसंपत्त्या पित्रोः पौरजनस्य च ॥ २,५१.३६ ॥

संपूर्णे तु ततः काले मुहूर्ते केशिनीशुभे ।
असूयताग्निगर्भाभं कुमारममितद्युतिम् ॥ २,५१.३७ ॥

जातकर्मादिकं तस्य कृत्वा चैव यथाविधि ।
असमञ्चस इत्येव नाम तस्या करोन्नृपः ॥ २,५१.३८ ॥

सुमतिश्चापि तत्काले गर्भालाबमसूयत ।
संप्रसूतं तु तं त्यक्तं दृष्ट्वा राजाकरोन्मनः ॥ २,५१.३९ ॥

तज्ज्ञात्वा भगवानौर्वस्तत्रागच्छद्यदृच्छया ।
सम्यक्संभावितो राज्ञा तमुवाच त्वरान्वितः ॥ २,५१.४० ॥

गर्भालाबुरयं राजन्न त्यक्तुं भवतार्हति ।
पुत्राणां षष्टिसाहस्रबीजभूतो यतस्तव ॥ २,५१.४१ ॥

तस्मात्तत्सकलीकृत्य घृतकुंभेषु यत्नतः ।
निःक्षिप्य सपिधानेषु रक्षणीयं पृथक्पृथक् ॥ २,५१.४२ ॥

सम्यगेवं कृते राजन्भवतो मत्प्रसादतः ।
यथोक्तसंख्या पत्राणां भविष्यति न संशयः ॥ २,५१.४३ ॥

काले पूर्णे ततः कुम्भान्भित्त्वा निर्यान्ति ते पृथक् ।
एवं ते षष्टिसाहस्रं पुत्राणां जायते नृप ॥ २,५१.४४ ॥

इत्युक्त्वा भगवानौर्वस्तत्रैवान्तरधाद्विभुः ।
राजा च तत्तथा चक्रे यथौर्वेण समीरितम् ॥ २,५१.४५ ॥

ततः संवत्सरे पूर्णे घृतकुंभात्क्रमेण ते ।
भित्त्वाभित्त्वा पुनर्जज्ञुः सहसैवानुवासरम् ॥ २,५१.४६ ॥

एवं क्रमेण संजातास्तनयास्ते महीपते ।
ववृधुः संघशो राजन्षष्टिसाहस्रसंख्याया ॥ २,५१.४७ ॥

अपृथग्धर्मचरणा महाबलपराक्रमाः ।
बभूवुस्ते दुराधर्षाः क्रूरात्मानो विशेषतः ॥ २,५१.४८ ॥

स नातिप्रीतिमांस्तेषु राजा मतिमतां वरः ।
केशिनीतनयं त्वेकं बहुमान सुतं प्रियम् ॥ २,५१.४९ ॥

विवाहं विधिवत्तस्मै कारयामास पार्थिवः ।
सचाप्यानन्दयामास स्वगुणैः सुहृदोऽखिलान् ॥ २,५१.५० ॥

एवं प्रवर्त मानस्य केशिनीतनयस्य तु ।
अजायत सुतः श्रीमानंशुमानिति विश्रुतः ॥ २,५१.५१ ॥

स बाल्य एव मतिमानुदारैः स्वगुणैर्भृशम् ।
प्रीणयामास सुत्दृदः स्वपितामहमेव च ॥ २,५१.५२ ॥

एतस्मिन्नन्तरे राज्ञस्तस्य पुत्रोऽसमञ्जसः ।
आविष्टो नष्टचेष्टोऽभूत्स पिशाचेन केन चित् ॥ २,५१.५३ ॥

स तु कश्चिदभूद्वैश्यः पूर्वजन्मनि धर्मवित् ।
कस्याचिद्विषये राज्ञः प्रभूतधनधान्यवान् ॥ २,५१.५४ ॥

स कदाचिदरण्येषु विचरन्निधिमुत्तमम् ।
दृष्ट्वा ग्रहीतुमारेभे वणिग्लोभवरिप्लुतः ॥ २,५१.५५ ॥

ततस्तद्रक्षकोऽभ्येत्य पिशाचः प्राह तं तदा ।
क्षुधितोऽहं चिरादस्मिन्निवसन्निधिपालकः ॥ २,५१.५६ ॥

तस्मात्तत्परिहाराय मम दत्त्वा गवामिषम् ।
कामतः प्रतिगृह्णीष्व निधिमेनं ममाज्ञया ॥ २,५१.५७ ॥

सतस्मै तत्परिश्रुत्य दास्यामीति गवामिषम् ।
आदत्त च निधिं तं तु पिशाचेनानुमोदितः ॥ २,५१.५८ ॥

न प्रादाच्च ततो मौढ्यात्तस्मै यत्तत्प्रतिश्रुतम् ।
प्रतिश्रुताप्रदानोत्थरोषं न श्रद्दधे नृप ॥ २,५१.५९ ॥

तमेवं सुचिरं कालं प्रतीक्ष्याशनकाङ्क्षया ।
अपनीतधनः सोऽपि ममार व्यथितः क्षुधा ॥ २,५१.६० ॥

वैश्योऽपि बालो मरणं संप्राप्य सगरस्य तु ।
बभूव काले केशिन्यां तनयोऽन्वयवर्द्धनः ॥ २,५१.६१ ॥

अशरीरः पिशाचेऽपि पूर्ववैरमनुस्मरन् ।
वायुभूतोऽविशद्देहं राजपुत्रस्य भूपते ॥ २,५१.६२ ॥

तेनाविष्टस्ततः सोऽपि क्रूरचित्तोऽभवत्तदा ।
मतिविभ्रंशमासाद्य मुहुस्तेन बलात्कृतः ॥ २,५१.६३ ॥

असमञ्जसत्वं नगरे चक्रे सोऽपि नृशंसवत् ।
बालांश्च यूनः स्थविरान्योषितश्च सदा खलः ॥ २,५१.६४ ॥

हत्वाहत्वा प्रचिक्षेप सरय्वामतिनिर्दयः ।
ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम् ॥ २,५१.६५ ॥

बहुशो निकृतास्तेन गत्वा राज्ञे व्यजिज्ञापन् ।
राजा च तदुपश्रुत्य तमाहूय प्रयत्नतः ॥ २,५१.६६ ॥

वारयामास बहुधा दुःखेन महतान्वितः ।
बहुशः प्रतिषिद्धोऽपि पित्रा तेन महात्मना ॥ २,५१.६७ ॥

जले तप्ते च संतप्ताः संबभूवुर्यथा यवाः ।
नाशकत्तं यदा पापाद्विनिवर्त्तयितुं नृपः ॥ २,५१.६८ ॥

लोकापवादभीरुत्वाद्विषयानत्यजत्तदा ॥ २,५१.६९ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरचरितेऽसमञ्जसत्यागो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१॥