ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६७

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ६६ ब्रह्माण्डपुराणम्
अध्यायः ६७
[[लेखकः :|]]
मध्यभागः, अध्यायः ६८ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

आयोः पुत्रा महात्मानः पञ्चैवासन्महाबलाः ।
स्वर्भानुत नयायां ते प्रभायां जज्ञिरे नृपाः ॥ २,६७.१ ॥

नहुषः प्रथमस्तेषां क्षत्रवृद्धस्ततः स्मृतः ।
रंभो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ २,६७.२ ॥

क्षत्रवृद्धात्मजश्चैव सुनहोत्रो महायशाः ।
सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ २,६७.३ ॥

काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ २,६७.४ ॥

ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ।
एतस्य वंशेसंभूता विचित्रैः कर्मभिर्द्विजाः ॥ २,६७.५ ॥

शलात्मजो ह्यार्ष्टिषेणः शिशिरस्तस्य जात्मजः ।
शौनकाश्चार्ष्टिषेणाश्च क्षत्रोपेता द्विजातयः ॥ २,६७.६ ॥

काश्यस्य काशिपो राजा पुत्रो दीर्घतपास्तथा ।
धन्वश्च दीर्घतपसो विद्वान्धन्वन्तरीस्ततः ॥ २,६७.७ ॥

तपसोंऽते महातेजा जातो वृद्धस्य धीमतः ।
अथैनमृषयः प्रोचुः सूतं वाक्यमिद पुनः ॥ २,६७.८ ॥

ऋषय ऊचुः
कश्च धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ।
एतद्वेदितुमिच्छामस्तन्नोब्रूहि परन्तप ॥ २,६७.९ ॥

सूत उवाच
धन्वन्तरेः संभवोऽयं श्रूयतामिह वै द्विजाः ।
स संभूतः समुद्रान्ते मथ्यमानेऽमृते पुरा ॥ २,६७.१० ॥

उत्पन्नः कलशात्पूर्वं सर्वतश्च श्रिया वृतः ।
सद्यःसंसिद्धकार्यं तं दृष्ट्वा विष्णुखस्थितः ॥ २,६७.११ ॥

अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः ।
अब्जः प्रोवाच विष्णुं तं तनयोऽस्मि तव प्रभो ॥ २,६७.१२ ॥

विधत्स्व भागं स्थानं च मम लोके सुरोत्तम ।
एवमुक्तः स दृष्ट्वा तु तथ्यं प्रोवाच स प्रभुः ॥ २,६७.१३ ॥

कृतो यज्ञविभागस्तु दैतेयैर्हि सुरैस्तथा ।
वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः ॥ २,६७.१४ ॥

न सक्यमिह होमं वै तुभ्यं कर्तुं कदायन ।
अर्वाक्सूतोऽसि हे देव तव मन्त्रो न वै प्रभो ॥ २,६७.१५ ॥

द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि ।
अणिमादियुतां सिद्धिं गतस्तत्र भविष्यसि ॥ २,६७.१६ ॥

एतेनैव शरीरेण देवत्वं प्राप्स्यसि प्रभो ।
चा (च) तुर्मन्त्रैर्घृतैर्गव्यैर्यक्ष्यन्ते त्वां द्विजातयः ॥ २,६७.१७ ॥

अथ वा त्वं पुनश्चैव ह्यायुर्वेदं विधास्यसि ।
अवश्यभावीह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना ॥ २,६७.१८ ॥

द्वितीयं द्वापर प्राप्य भविता त्वं न संशयः ।
तस्मात्तस्मै वरं दत्त्वा विष्णुरन्तर्दधे ततः ॥ २,६७.१९ ॥

द्वितीये द्वापरे प्राप्ते सौनहोत्रः स काशिराट् ।
पुत्रकामस्तपस्तेपे नृपो दीर्घतपास्तथा ॥ २,६७.२० ॥

अब्जं देवं तु पुत्रार्थे ह्यारिराधयिषुर्नृपः ।
वरेण च्छन्दयामास ततो धन्वन्तरिर्नृपम् ॥ २,६७.२१ ॥

नृप उवाच
भगवन्यदि तुष्टस्त्वं पुत्रो मे गतिमान्भवेः ।
तथेति समनुज्ञाय तत्रैवान्तरधात्प्रभुः ॥ २,६७.२२ ॥

तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।
काशिराजो महाराजः सर्व रोगप्रणाशनः ॥ २,६७.२३ ॥

आयुर्वेदं भरद्वाजात्प्राप्येह सभिषक्क्रियम् ।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ २,६७.२४ ॥

धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः ।
अथ केतुमतः पुत्रो जज्ञे भीमरथो नृपः ॥ २,६७.२५ ॥

पुत्रो भीमरथस्यापि जातो धीमान्प्रजेश्वरः ।
दिवोदास इति ख्यातो वाराणस्यधिपोऽभवत् ॥ २,६७.२६ ॥

एतस्मिन्नेव काले तु पुरीं वारामसीं पुरा ।
शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ २,६७.२७ ॥

शप्ता हि सा पुरी पूर्वं निकुंभेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः ॥ २,६७.२८ ॥

तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ २,६७.२९ ॥

ऋषय ऊचुः
वाराणसीं किमर्थं तां निकुंभः शप्तवान्पुरा ।
निकुंभश्चापि धर्मात्मा सिद्धक्षेत्रं शशाप यः ॥ २,६७.३० ॥

सूत उवाच
दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः ।
वसते स महातेजाः स्फीतायां वै नराधिपः ॥ २,६७.३१ ॥

एतस्मिन्नेव काले तु कृतदारो महेश्वरः ।
देव्याः स प्रियकामस्तु वसन्वै श्वशुरान्तिके ॥ २,६७.३२ ॥

देवाज्ञया पारिषदा विश्वरुपास्तपोधनाः ।
पूर्वोक्तरूपसंवेषैस्तोषयन्ति महेश्वरीम् ॥ २,६७.३३ ॥

हृष्यते तैर्महादेवो मेना नैव तु तुष्यति ।
जुगुप्सते सा नित्यं वै देवं देवीं तथैव च ॥ २,६७.३४ ॥

मम पार्श्वे त्वनाचारस्तव भर्त्ता महेश्वरः ।
दरिद्रः सर्वथैवेह हा कष्टं लज्जते न वै ॥ २,६७.३५ ॥

मात्रा तथोक्ता वचसा स्त्रीस्वभावान्न चक्षमे ।
स्मितं कृत्वा तु वरदा हरपार्श्वमथागमत् ॥ २,६७.३६ ॥

विषण्णवदना देवी महादेवमभाषत ।
नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम् ॥ २,६७.३७ ॥

तथोक्तस्तु महादेवः सर्वांल्लोकान्निरीक्ष्य ह ।
वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः ॥ २,६७.३८ ॥

वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः ।
दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः ॥ २,६७.३९ ॥

पार्श्वस्थं स समाहूय गणेशं क्षेममब्रवीत् ।
गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु ॥ २,६७.४० ॥

मृदुना चाभ्युपायेन अतिवीर्यः स पार्थिवः ।
ततो गत्वा निकुंभस्तु पुरीं वाराणसीं पुरा ॥ २,६७.४१ ॥

स्वप्ने संदर्शयामास मङ्कनं नामतो द्विजम् ।
श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ ॥ २,६७.४२ ॥

मद्रूपां प्रतिमां कृत्वा नगर्यन्ते निवेशय ।
तथा स्वप्ने यथा दृष्टं सर्वं कारितवान्द्विजः ॥ २,६७.४३ ॥

नगरीद्वार्यनुज्ञाप्य राजानं तु यथाविधि ।
पूजा तुमहती चैव नित्यमेव प्रयुज्यते ॥ २,६७.४४ ॥

गन्धैर्धूपैश्च वाल्यैश्च प्रेक्षणीयेस्तथैव च ।
अन्नप्रदानयुक्तैश्च ह्यत्यद्भुतमिवाभवत् ॥ २,६७.४५ ॥

एवं संपूज्यते तत्र नित्यमेव गणेश्वरः ।
ततो वरसहस्राणि नागराणां प्रयच्छति ॥ २,६७.४६ ॥

पुत्रान्हिरण्यमायूंषि सर्वकामांस्तथैव च ।
राज्ञस्तु महिषी श्रेष्टा सुयशा नाम विश्रुता ॥ २,६७.४७ ॥

पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता ।
पूजां तु विपुलां कृत्वा देवी पुत्रानयाचत ॥ २,६७.४८ ॥

पुनः पुनरथागत्य बहुशः पुत्रकारणात् ।
न प्रयच्छति पुत्रांस्तु निकुंभः कारणेन तु ॥ २,६७.४९ ॥

क्रुध्यते यदि राजा तु तत किञ्चित्प्रवर्त्तते ।
अथ दीर्घेण कालेन क्रोधो राजानमाविशत् ॥ २,६७.५० ॥

भूतं त्विदं मंहद्द्वारि नागराणां प्रयच्छति ।
प्रीत्या वरांश्च शतशो न किञ्चिन्नः प्रयच्छति ॥ २,६७.५१ ॥

मामकैः पूज्यते नित्यं नगर्यां मम चैव तु ।
स याचितश्च बहुशो देव्या मे पुत्रकारणात् ॥ २,६७.५२ ॥

न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः ।
अतो नार्हति पूजा तु मत्सकाशात्कथञ्चन ॥ २,६७.५३ ॥

तस्मात्तु नाशयिष्यामितस्य स्थानं दुरात्मनः ।
एवं तु स विनिश्चित्य दुरात्मा राजकिल्बिषी ॥ २,६७.५४ ॥

स्थानं गणपतेश्तस्य नाशयामास दुर्मतिः ।
भग्नमायतनं दृष्ट्वा राजानमशपत्प्रभुः ॥ २,६७.५५ ॥

यस्माद्विनापराधं मे त्वया स्थानं विनाशितम् ।
अकस्मात्तु पुरी शून्या भवित्रीते नराधिप ॥ २,६७.५६ ॥

ततस्तेन तु शापेन शून्या वाराणसी तदा ।
शप्त्वा पुरीं निकुंभस्तु महादेवमथानयत् ॥ २,६७.५७ ॥

शून्यां पुरीं महा देवो निर्ममे पदमात्मनः ।
तुल्यां देवविभूत्या तु देव्याश्चैव महामनाः ॥ २,६७.५८ ॥

रमते तत्र वै देवी ह्यैश्वर्यात्सा तु विस्मिता ।
देव्या क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ॥ २,६७.५९ ॥

नाहं वेश्म विमोक्ष्यामि ह्यविमुक्तं हि मे गृहम् ।
प्रहस्यैनामथोवाच ह्यविमुक्तं हि मे गृहम् ।
नाहं देवि गमिष्यामि त्वन्यत्रेदं विहाय वै ॥ २,६७.६० ॥

मया सह रमस्वेह क्षेत्रे भामिन्यनुत्तमे ।
तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥ २,६७.६१ ॥

एवं वाराणसी शप्ता ह्यविमुक्तं च कीर्त्तिता ।
यस्मिन्वसेद्भवो देवः सर्वदेवनमस्कृतः ॥ २,६७.६२ ॥

युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ।
अन्तर्द्धानं कलौ याति तत्पुरं तु महात्मनः ॥ २,६७.६३ ॥

अन्तर्हिते पुरे तस्मिन्पुरी सा वसते पुनः ।
एवं वाराणसी शप्ता निवेशं पुनरागता ॥ २,६७.६४ ॥

भद्रसेनस्य पुत्राणां शतमुत्तमधन्विनाम् ।
हत्वा निवेशयामास दिवोदासो नराधिपः ॥ २,६७.६५ ॥

भद्रसेनस्य राज्यं तु हतं तेन बलीयसा ।
भद्रसेनस्य पुत्रस्तु दुर्मदो नाम नामतः ॥ २,६७.६६ ॥

दिवोदासेन बालेति घृणया स विसर्जितः ।
दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्द्दनः ॥ २,६७.६७ ॥

तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ।
वैरस्यान्त महाराज तदा तेन विधित्सता ॥ २,६७.६८ ॥

प्रतर्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतौ ।
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥ २,६७.६९ ॥

अलर्कं प्रति राजर्षिं श्रोकों गीतः पुरातनैः ।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ २,६७.७० ॥

युवा रूपेण संपन्नो ह्यलर्कः काशिसत्तमः ।
लोपामुद्राप्रसादेन परमायुरवाप्तवान् ॥ २,६७.७१ ॥

शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ।
रम्यामावासयामास पुरीं वाराणसीं नृपः ॥ २,६७.७२ ॥

सन्नतेरपि दायादः सुनीथो नाम धार्मिकः ।
सुनीथस्य तु दायादः क्षैमाख्यो नाम धार्मिकः ॥ २,६७.७३ ॥

क्षेमस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः ।
सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतः ॥ २,६७.७४ ॥

धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ।
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥ २,६७.७५ ॥

सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः ।
सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥ २,६७.७६ ॥

धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ।
वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः ॥ २,६७.७७ ॥

गार्ग्यस्य गर्गभूमिस्तु वंशो वत्सस्य धीमतः ।
ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्मिकाः ॥ २,६७.७८ ॥

विक्रान्ता बलवन्तश्च सिहतुल्यपराक्रमाः ।
इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत ॥ २,६७.७९ ॥

रजेः पुत्रशतान्यासन्पञ्च वीर्यवतो भुवि ।
राजेयमिति विख्यातं क्षत्र सिंद्रभयावहम् ॥ २,६७.८० ॥

तदा देवासुरे युद्धे समुत्पन्ने सुदारुणे ।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ २,६७.८१ ॥

आवयोर्भगवन्युद्धे विजेता को भविष्यति ।
ब्रूहि नः सर्वलोकेश श्रोतुमिच्छामहे वयम् ॥ २,६७.८२ ॥

ब्रह्मोवाच ।
येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः ।
योत्स्यते ते विजष्यन्ते त्रींल्लोकान्नात्र संशयः ॥ २,६७.८३ ॥

रजिर्यतस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः ।
यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः ॥ २,६७.८४ ॥

ते देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम् ।
अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम् ॥ २,६७.८५ ॥

ते हृष्टमनसः सर्वे राजानं देवदानवाः ।
ऊचुरस्मज्जयाय त्वं गृहाम वरकार्मुकम् ॥ २,६७.८६ ॥

रजिरुवाच
अहं जेष्यामि भो दैत्या देवाञ्च्छ क्रपुरोगमान् ।
इन्द्रो भवामि धर्मात्मा ततो योत्स्ये रणाजिरे ॥ २,६७.८७ ॥

दानवा ऊचुः
अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे ।
अस्मिन्तु समये राजंस्तिष्ठेथा देवनोदिते ॥ २,६७.८८ ॥

स तथेति ब्रुवन्नेव देवैरप्यभिनोदितः ।
भविष्यसींद्रो जित्वेति देवैरपि निमन्त्रितः ॥ २,६७.८९ ॥

जघान दानवान्सर्वान्येऽवध्या वज्रपाणयः ।
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ २,६७.९० ॥

निहत्य दानवान्सर्वा नाजहार रजिः प्रभुः ।
तं तथाह रजिं तत्र देवैः सह शतक्रतुः ॥ २,६७.९१ ॥

रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रहवीद्वचः ।
इन्द्रोऽसि राजन्देवानां सर्वेषां नात्र संशयः ॥ २,६७.९२ ॥

यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि शत्रुहन् ।
स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥ २,६७.९३ ॥

तथेत्येवाह वै राजा प्रीयमाणः शतक्रतुम् ।
तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ ॥ २,६७.९४ ॥

दायाद्यमिन्द्रादा जह्नुराचार्यतनया रजेः ।
तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः ॥ २,६७.९५ ॥

समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ।
ततः काले बहुतिथे समतीते महाबलः ॥ २,६७.९६ ॥

हतराज्योऽब्रवीच्छक्रो हतभागो बृहस्पतिम् ।
बदरी फलमात्रं वै पुरोडाशं विधत्स्व मे ॥ २,६७.९७ ॥

ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितस्ततः ।
ब्रह्मन्कृशोऽहं विमना त्दृतराज्यो हृतासनः ॥ २,६७.९८ ॥

हतौजा दुर्बलो युद्धे रजिपुत्रेः प्रसीद मे ।
बृहस्पतिरुवाच
यद्येवं चोदितःशक्र त्वयास्यां पूर्वमेव हि ॥ २,६७.९९ ॥

नाभविष्यत्त्वत्प्रियार्थमकर्त्तव्यं ममानघ ।
प्रयतिष्यामि देवेन्द्र त्वद्धितार्थं महाद्युते ॥ २,६७.१०० ॥

यज्ञभागं च राज्यं च अचिरात्प्रतिपत्स्यसे ।
तथा शक्र गमिष्यामि मा भूत्ते विक्लवं मनः ॥ २,६७.१०१ ॥

ततः कर्म चकारास्य तेजःसंवर्द्धनं महत् ।
तेषां च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः ॥ २,६७.१०२ ॥

ते यदा तु सुसंमूडा रागान्मत्तो विधर्मिणः ।
ब्रह्मद्विषश्च संबृत्ता हतवीर्यपराक्रमाः ॥ २,६७.१०३ ॥

ततो लेभेऽसुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् ।
हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् ॥ २,६७.१०४ ॥

य इदं च्यवनं स्थानात्प्रतिष्ठां च शतक्रतोः ।
शृणुयाच्छ्रावयेद्वापि न स दौरात्म्यमाप्नुयात् ॥ २,६७.१०५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे धन्वन्तरिसंभवादिवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ ६७॥