ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १२
← मध्यभागः, अध्यायः ११ | ब्रह्माण्डपुराणम् अध्यायः १२ [[लेखकः :|]] |
मध्यभागः, अध्यायः १३ → |
सूत उवाच
देवाश्चपितरश्चैव अन्योन्यं नियताः स्मृताः ।
आथर्वणस्त्वेष विधिरित्युवाच बृहस्पतिः ॥ २,१२.१ ॥
पूजयेत पितॄन्पूर्वं देवांश्च तदनन्तरम् ।
देवा अपि पितॄन्पूर्वमर्च्चयन्ति हि यत्नतः ॥ २,१२.२ ॥
दक्षस्य दुहिता नाम्ना विश्वा नामेति विश्रुता ।
विश्वाख्यास्तु सुतास्तस्यां धर्मतो जज्ञिरे दश ॥ २,१२.३ ॥
प्रख्याता स्त्रिषु लोकेषु सर्वलोकनमस्कृताः ।
समस्तास्ते महात्मानश्चेरुरुग्रं महत्तपः ॥ २,१२.४ ॥
हिमवच्छिखरे रम्ये देवर्षिगणसेविते ।
शुद्धेन मनसा प्रीता ऊचुस्तान्पितरस्तदा ॥ २,१२.५ ॥
वरं वृणीध्वं प्रीताः स्म कं कामं करवामहे ।
एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः ॥ २,१२.६ ॥
ब्रह्मोवाच महातेजास्तपसा तैस्तु तोषितः ।
प्रीतोऽस्मि तपसानेन कं कामं करवाणि वः ॥ २,१२.७ ॥
एवमुक्तास्तदा विश्वे ब्रह्मणा विश्वकर्मणा ।
ऊचुस्ते सहिताः सर्वे ब्रह्माणं लोकभावनम् ॥ २,१२.८ ॥
श्राद्धेऽस्माकं भवेदंशो ह्येष नः काङ्क्षितो वरः ।
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदशपूजितः ॥ २,१२.९ ॥
भविष्यत्येवमेवं तु काङ्क्षितो वो वरस्तु यः ।
पितृभिश्च तथेत्युक्तमेवमेतन्न संशयः ॥ २,१२.१० ॥
सहस्माभिस्तु भोक्तव्यं यत्किं चिद्दृश्यते त्विह ।
अस्माकं कल्पिते श्राद्धे युष्मानप्राशनं हि वै ॥ २,१२.११ ॥
भविष्यति मनुष्येषु सत्यमेतद्ब्रुवामहे ।
माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेऽर्च्चयिष्यति ।१ १२.१२॥
अग्रे दत्त्वा तु युष्माकमस्माकं दास्यते ततः ।
विसर्जनमथास्माकं पूर्वं पश्चात्तु दैवतम् ॥ २,१२.१३ ॥
रक्षणं चैव श्राद्धस्य आतिथ्यस्य विधिद्वयम् ।
भूतानां देवतानां च पितॄणां चैव कर्मणि ॥ २,१२.१४ ॥
एवं कृते सम्यगेतत्सर्वमेव भविष्यति ।
एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह ॥ २,१२.१५ ॥
क्षमानुग्रहकृद्देवः संचकार यथोदितम् ।
वेदे पञ्च महायज्ञा नराणां समुदाहृताः ॥ २,१२.१६ ॥
एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः ।
यत्र स्थास्यन्ति दातारस्तत्स्थानं वै निबोधत ॥ २,१२.१७ ॥
निर्भयं विरजस्कं च निःशोकं निर्व्यथक्लमम् ।
ब्राह्मं स्थानमवाप्नोति सर्वलोकपुरस्कृतम् ॥ २,१२.१८ ॥
शूद्रेणापि च कर्त्तव्याः पञ्चैते मन्त्रवर्जिताः ।
अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ॥ २,१२.१९ ॥
ऋणं भुङ्क्ते स पापात्मा यः पचेदात्मकारणात् ।
तस्मान्निर्वर्तयेत्पञ्च महायज्ञान्सदा बुधः ॥ २,१२.२० ॥
उदक्पूर्वे बलिं कुर्यादुदकान्ते तथैव च ।
बलिं सुविहितं कुर्या दुच्चैरुच्चतरं क्षिपेत् ॥ २,१२.२१ ॥
परशृङ्गं गवां मूत्रं बलिं सूत्रं समुत्क्षिपेत् ।
तन्निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति ॥ २,१२.२२ ॥
इष्टेनान्नेन भक्ष्यैश्च भोजयेच्च यथाविधि ।
निवेद्यं केचिदिच्छन्ति जीवन्त्यपि हि यत्नतः ॥ २,१२.२३ ॥
देवदेवा महात्मानो ह्येते पितर इत्युत ।
इच्छन्ति केचिदाचार्यः पश्चात्पिण्डनिवेदनम् ॥ २,१२.२४ ॥
पूजनं चैव विप्रणां पूर्वमेवेह नित्यशः ।
तद्धिधर्मार्थकुशलो नेत्युवाच बृहस्मतिः ॥ २,१२.२५ ॥
पूर्वं निवेदयेत्पिण्डान्पश्चाद्विप्रांश्च भोजयेत् ।
योगात्मानो महात्मानः पितरो योग संभवाः ॥ २,१२.२६ ॥
सोममाप्याययन्त्येते पितरो योगसंस्थिताः ।
तस्माद्दद्याच्छुचिः पिण्डान्योगेभ्यस्तत्परायणः ॥ २,१२.२७ ॥
पितॄणां हि भवेदेतत्साक्षादिव हुतं हविः ।
ब्रह्मणानां सहस्रस्य योगस्थं ग्रासयेद्यदि ॥ २,१२.२८ ॥
यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ।
असतां प्रग्रहो यत्र सतां चैव विमानता ॥ २,१२.२९ ॥
दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः ।
इत्वा मम सधर्माणं बालिशं यस्तु भोजयेत् ॥ २,१२.३० ॥
आदिकर्म समुत्सृज्य दाता तत्र विनश्यति ।
पिण्डमग्नौ सदा दद्यद्भोगार्थी प्रथमं नरः ॥ २,१२.३१ ॥
दद्यात्प्रजार्थी यत्नेन मध्यमं मन्त्रपूर्वकम् ।
उत्तमां कान्तिमन्विच्छन्गोषु नित्यं प्रयच्छति ॥ २,१२.३२ ॥
प्रज्ञां चैव यशः कीर्त्तिमप्सु वै संप्रयच्छति ।
प्रार्थयन्दीर्घामायुश्च वायसेभ्यः प्रयच्छति ॥ २,१२.३३ ॥
सोकुमार्यमथान्विच्छन्कुक्कुटेभ्यः प्रयच्छति ।
एवमेतत्समुद्दिष्टं पिण्डनिर्वपणे फलम् ॥ २,१२.३४ ॥
आकाशे गमयेद्वापि अप्सु वा दक्षिणामुखः ।
पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भेवेत् ॥ २,१२.३५ ॥
एके विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः ।
अनुज्ञातस्तु तैर्विप्रैः कामसुद्ध्रियतामित् ॥ २,१२.३६ ॥
पुष्पाणां च फलानां च भक्ष्याणामन्नतस्तथा ।
अग्रमुद्धृत्य सर्वेषां जुहुयाद्धव्यवाहने ॥ २,१२.३७ ॥
भङ्यमन्नं तथा पेयं मूलानि च फलानि च ।
हुत्वाग्नौ च ततः पिण्डान्निर्वपेद्दक्षिणा मुखः ॥ २,१२.३८ ॥
वैवस्वताय सोमाय हुत्वा पिण्डान्निवेद्य च ।
उदकान्नयनं कृत्वा पश्चाद्विप्रांश्च भोजयेत् ॥ २,१२.३९ ॥
अनुपूर्वं ततो विप्रान्भक्ष्यैरन्नैश्च शक्तितः ।
स्निग्धैरुष्णैः सुगन्धैश्च तर्पयेत्तान्रसैरपि ॥ २,१२.४० ॥
एकाग्रः पर्युपासीनः प्रयतः प्राञ्जलिः स्थितः ।
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ॥ २,१२.४१ ॥
अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं संस्कृतं वचः ।
तपो यज्ञांश्च दानं च प्रयच्छन्ति पितामहाः ॥ २,१२.४२ ॥
अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु ।
आनुपूर्व्येण विहितं तन्मे निगदतः शृणु ॥ २,१२.४३ ॥
प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः ।
ततोऽन्निविकिरं कुर्याद्विधिदृष्टेन कर्मणा ॥ २,१२.४४ ॥
स्वधा वाच्य ततो विप्रान् विधिवद्भूरितक्षिणान् ।
अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् ॥ २,१२.४५ ॥
प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ॥ २,१२.४६ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये
उपोद्धातपादे श्राद्धकल्पे द्वादशोऽध्यायः ॥ १२॥