सामग्री पर जाएँ

ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३

विकिस्रोतः तः
← मध्यभागः, अध्यायः २ ब्रह्माण्डपुराणम्
अध्यायः ३
[[लेखकः :|]]
मध्यभागः, अध्यायः ४ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

ऋषय ऊचु ।
देवानां दानवानां च दैत्यानां चैव सर्वशः ।
उत्पत्तिं विस्तरेणैव ग्रूहि वैवस्वतेंऽतरे ॥ २,३.१ ॥
सूत उवाच
धर्म्मस्यैव प्रवक्ष्यामि निसर्गन्तं निबोधत ।
अरुन्धतीवसुर्जामालंबा भानुर्मरुत्वती ॥ २,३.२ ॥
संकल्पा च मुहूर्त्ता च साध्या विश्वा तथैव च ।
धर्मस्य पत्न्यो दश ता दक्षः प्राचेतसो ददौ ॥ २,३.३ ॥
साध्यापुत्रास्तु धर्मस्य साध्या द्वादशजज्ञिरे ।
देवेभ्यस्तान्परान्देवान्दैवज्ञाः परिचक्षते ॥ २,३.४ ॥
ब्राह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया ।
सर्वे मन्त्रशरीरस्ते समृता मन्वन्तरेष्विह ॥ २,३.५ ॥
दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् ।
वित्तिश्चैव विवित्तिश्च आकूतिः कूतिरेव च ॥ २,३.६ ॥
विज्ञाता चैव विज्ञातो मनो यज्ञस्तथैव च ।
नामान्येतानि तेषां वै यज्ञानां प्रथितानि च ॥ २,३.७ ॥
ब्रह्मशापेन तेजाताः पुनः स्वायंभुवे जिताः ।
स्वारोचिषे वै तुषिताः सत्यश्चैवोत्तमे पुनः ॥ २,३.८ ॥
तामसे हरयो नाम वैकुण्ठा रेवतान्तरे ।
ते साध्याश्चाक्षुषे नाम्ना छन्दजा जज्ञिरे सुराः ॥ २,३.९ ॥
धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः ।
पूर्वं समनुसूयन्ते चाक्षुषस्यान्तरे मनोः ॥ २,३.१० ॥
स्वारोचिषेंऽतरेऽतीता देवा ये वै महौजसः ।
तुषिता नाम तेऽन्योन्यमूचुर्वै चाक्षुषेंऽतरे ॥ २,३.११ ॥
किञ्चिच्छिष्टे तदा तस्मिन्देवा वै तुषिताब्रुवन् ।
एतामेव महाभागां वयं साध्यां प्रविश्य वै ॥ २,३.१२ ॥
मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति ।
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ॥ २,३.१३ ॥
तस्यां द्वादश संभूता धर्मात्स्वायंभुवात्पुनः ।
नरनारायणो तत्र जज्ञाते पुनरेव हि ॥ २,३.१४ ॥
विपश्चिदिन्द्रो यश्चाभूत्तथा सत्यो हरिश्च तौ ।
स्वारोचिषेंऽतरे पूर्वमास्तां तौ तुषितासुतौ ॥ २,३.१५ ॥
तुषितानां तु साध्यात्वे नामान्येतानि चक्षते ।
मनोऽनुमन्ता प्राणश्च नरोऽपानश्च वीर्यवान् ॥ २,३.१६ ॥
वितिर्नयो हयश्चैव हंसो नारायणस्तथा ।
विभुश्चापि प्रभुश्चापि साध्या द्वादश जज्ञिरे ॥ २,३.१७ ॥
स्वायंभुवैंऽतरे पूर्वं ततः स्वारो चिषे पुनः ।
नामान्यासन्पुनस्तानि तुषितानां निबोधत ॥ २,३.१८ ॥
प्राणापानावुदानश्च समानो व्यान एव च ।
चक्षुः श्रोत्रं रसो घ्राणं स्पर्शो बुद्धिर्मनस्तथा ॥ २,३.१९ ॥
नामान्येतानि वै पूर्वं तुषितानां स्मृतानि च ।
वसोस्तु वसवः पुत्राः साध्यानामनुजाः स्मृताः ॥ २,३.२० ॥
धरो ध्रुवश्च सोमश्च आयुश्चैवानलोऽनिलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ २,३.२१ ॥
धरस्य पुत्रो द्रविणो हुतहव्यो रजस्तथा ।
ध्रुवपुत्रोऽभवत्तात कालो लोकाप्रकालनः ॥ २,३.२२ ॥
सोमस्य भगवान्वर्चा बुधश्च ग्रहबौधनः ।
धरोर्मी कलिलश्चैव पञ्च चन्द्रमसः सुताः ॥ २,३.२३ ॥
आयस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च ।
स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः ॥ २,३.२४ ॥
अग्नेः पुत्रं कुमारं तु स्वाहा जज्ञे श्रिया वृतम् ।
तस्य शाखो विशाखश्च नैगमेयश्च प्रष्टजाः ॥ २,३.२५ ॥
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञान गतिश्चैव द्वौ पुत्रावनिलस्य च ॥ २,३.२६ ॥
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ २,३.२७ ॥
बृहस्पतेश्तु भगिनी भुवना ब्रह्मवादिनी ।
योगसिद्धा जगत्कृत्स्नमशक्ता चरति स्म ह ॥ २,३.२८ ॥
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ।
विश्वकर्मा सुतस्तस्याः प्रजापतिपतिर्विभुः ॥ २,३.२९ ॥
विश्वेदेवास्तु विश्वाया जज्ञिरे दश विश्रुताः ।
क्रतुर्दक्षः श्रवः सत्यः कालः मुनिस्तथा ॥ २,३.३० ॥
पुरूरवो मार्द्रवसो रोचमानश्च ते दश ।
धर्मपुत्राः सुरा एते विश्वायां जज्ञिरे शुभाः ॥ २,३.३१ ॥
मरुत्वत्यां मरुत्वन्तो भानवो भानुजाः स्मृताः ।
मुहूर्ताश्च मुहूर्ताया घोषलंबा ह्यजायत ॥ २,३.३२ ॥
संकल्पायां तु संजज्ञे विद्वान्संकल्प एव तु ।
नव वीथ्यस्तु जामायाः पथत्रयमुपाश्रिताः ॥ २,३.३३ ॥
पृथिवी विषयं सर्वमरुन्धत्यामजायत ।
एष सर्गः समाख्यातो विद्वान्धर्मस्य शाश्वतः ॥ २,३.३४ ॥
मुहूर्ताश्चैव तिथ्याश्च प्रतिभिः सह सुव्रताः ।
नामतः संप्रवक्ष्यामि ब्रुवतो मे निबोधत ॥ २,३.३५ ॥
अहोरात्रविभागश्च नक्षत्राणि समाश्रितः ।
मुहुर्त्ताः सर्वनक्षत्रा अहोरात्रभिदस्तथा ॥ २,३.३६ ॥
अहोरात्रकलानां तु षडशीत्यधिकाः स्मृताः ।
रवेर्गति विशेषेण सर्वर्त्तुषु च नित्यशः ॥ २,३.३७ ॥
ततो वेदविदश्चैतां गतिमिच्छन्ति पर्वसु ।
अविशेषेषु कालेषु ज्ञेयः सवितृमानतः ॥ २,३.३८ ॥
रौद्रः सार्पस्तथा मैत्रः पित्र्यो वासव एव च ।
आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंश्रितः ॥ २,३.३९ ॥
प्राजापत्यस्तथैवेन्द्र इन्द्राग्नी निरृतिस्तथा ।
वारुणश्च यथार्यम्णो भगश्चापि दिनश्रिताः ॥ २,३.४० ॥
एते दिनमुहूर्ताश्च दिवाकरविनिर्मिताः ।
शङ्कुच्छाया विशेषेण वेदितव्याः प्रमाणतः ॥ २,३.४१ ॥
अजैकपादहिर्बुध्न्यः पूषाश्वियमदेवताः ।
आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ॥ २,३.४२ ॥
सौम्यश्चापि तथादित्यो बार्हस्पत्यश्च वैष्मवः ।
सावित्रश्च तथा त्वाष्ट्रो वायव्यश्चेति संग्रहः ॥ २,३.४३ ॥
एते रात्रेर्मुहूर्त्ताः स्युः क्रमोक्ता दश पञ्च च ।
इन्दोर्गत्युदया ज्ञेया नाडिका आदितस्तथा ॥ २,३.४४ ॥
कालावस्थास्त्विमास्त्वेते मुहूर्त्ता देवताः स्मृताः ।
सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च ॥ २,३.४५ ॥
दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् ।
स्थानं जारद्गवं सध्ये तथैरावतमुत्तरम् ॥ २,३.४६ ॥
वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ।
अश्विनी कृत्तिका याम्यं नागवीथीति विश्रुता ॥ २,३.४७ ॥
ब्राह्मं सौम्यं तथार्द्रा च गजवीथीति शब्दिता ।
पुष्याश्लेषे तथादित्यं वीथी चैरावती मता ॥ २,३.४८ ॥
तिस्रस्तु विथयो ह्येता उत्तरो मार्ग उच्यते ।
पूर्वोत्तरे च फल्गुन्यौ मघा चैवार्षभी स्मृता ॥ २,३.४९ ॥
हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता ।
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ॥ २,३.५० ॥
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ।
मूलं पूर्वोत्तराषाढे अजवीथ्याभिशब्दिते ॥ २,३.५१ ॥
श्रवणं च धनिष्ठा च मार्गी शतभिषक्तथा ।
वैश्वानरी भाद्रपदे रेवती चैव कीर्त्तिता ॥ २,३.५२ ॥
एतास्तु वीथयस्तिस्रो दक्षिणे मार्ग उच्यते ।
अष्टाविशति याः कन्या दक्षः सोमाय ता ददौ ॥ २,३.५३ ॥
सर्वा नक्षत्रनाम्न्यस्ता ज्यौतिषे परिकीर्त्तिताः ।
तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ॥ २,३.५४ ॥
यास्तु शेषास्तदा कन्याः प्रतिजग्राह कश्यपः ।
चतुर्दशा महाभागाः सर्वास्ता लोकमातरः ॥ २,३.५५ ॥
अदितिर्दितिर्दनुः काष्ठारिष्टानायुः खशा तथा ।
सुरभिर्विनता ताम्रा मुनिः क्रोधवशा तथा ॥ २,३.५६ ॥
कद्रूर्माता च नागानां प्रजास्तासां निबोधत ।
स्वायंभुवेऽन्तरे तात ये द्वादश सुरोत्तमाः ॥ २,३.५७ ॥
वैकुण्ठा नाम ते साध्या बभूवुश्चाक्षुषेंऽतरे ।
उपस्थितेंऽतरे ह्यस्मिन्पुनर्वैवस्वतस्य ह ॥ २,३.५८ ॥
आराधिता आदित्या ते समेत्योचुः परस्परम् ।
एतामेव महाभागामदितिं संप्रविश्य वै ॥ २,३.५९ ॥
वैवस्वतेंऽतरे ह्यस्मिन्योगादर्द्धेन तेजसा ।
गच्छेम पुत्रतामस्यास्तन्नः श्रेयो भविष्यति ॥ २,३.६० ॥
एवमुक्त्वा तु ते सर्वे वर्त्तमानेंऽतरे तदा ।
जज्ञिरे द्वादशादित्या मारीयात्कश्यपात्पुनः ॥ २,३.६१ ॥
शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि ।
वैवस्वतेंऽतरे ह्यस्मिन्नरनारायणौ तदा ॥ २,३.६२ ॥
तेषामपि हि देवानां निधनोत्पत्तिरुच्यते ।
यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमयावुभौ ॥ २,३.६३ ॥
दृष्टानुश्रविके यस्मात्सक्ताः शब्दादिलक्षणे ।
अष्टात्मकेऽणिमाद्ये च तस्मात्ते जज्ञिरे सुराः ॥ २,३.६४ ॥
इत्येष विषये रागः संभूत्याः कारणं स्मृतम् ।
ब्रह्मशापेन संभूता जयाः स्वायंभुवे जिताः ॥ २,३.६५ ॥
स्वारोचिषे वै तुषिताः सत्यश्चैवोत्तमे पुनः ।
तामसे हरयो देवा जाताश्चा रिष्टवे तु वै ॥ २,३.६६ ॥
वैकुण्ठाश्चाश्रुषे साध्या आदित्याः सप्तमे पुनः ।
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥ २,३.६७ ॥
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ २,३.६८ ॥
इत्येते द्वादशादित्याः कश्यपस्य सुता विभोः ।
सुरभ्यां कश्यपाद्रुद्रा एकादश विजज्ञिरे ॥ २,३.६९ ॥
महादेवप्रसादेन तपसा भाविता सती ।
अङ्गारकं तथा सर्पं निरृतिं सदसत्पतिम् ॥ २,३.७० ॥
अजैकपादहिर्बुध्न्यौ द्वावेकं च ज्वरं तथा ।
भुवनं चेश्वरं मृत्युं कपालीति च विश्रुतम् ॥ २,३.७१ ॥
देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान् ।
तपसोग्रेण महता सुरभिस्तानजीजनत् ॥ २,३.७२ ॥
ततो दुहितरावन्ये सुरभिर्देव्यजायत ।
रोहिणी चैव सुभगां गान्धवी च यशस्विनीम् ॥ २,३.७३ ॥
रोहिण्या जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः ।
सुरूपा हंसकाली च भद्रा कामदुघा तथा ॥ २,३.७४ ॥
सुषुवे गाः कामदुघा सुरूपा तनयद्वयम् ।
हंसकाली तु महिषान्भद्रायास्त्वविजातयः ॥ २,३.७५ ॥
विश्रुतास्तु महाभागा गान्धर्व्या वाजिनः सुताः ।
उच्चैःश्रवादयो जाताः खेचरास्ते मनोजवाः ॥ २,३.७६ ॥
श्वेताः शोणाः पिशङ्गास्च सारङ्गा हरि तार्जुनाः ।
उक्ता देवोपवाह्यास्ते गान्धर्वियोनयो हयाः ॥ २,३.७७ ॥
भूयो जज्ञे सुरभ्यास्तु श्रीमांश्चन्द्रप्रभो वृषः ।
स्रग्वी ककुद्मान्द्युतिमा नमृतालयसंभवः ॥ २,३.७८ ॥
सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः ।
इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः ॥ २,३.७९ ॥
धर्मपु पुत्राः स्मृताः साध्या विश्वे च वसवस्तथा ।
यथेन्धनवशाद्वह्निरेकस्तु बहुधा भवेत् ॥ २,३.८० ॥
भवत्येकस्तथा तद्वन्मूर्त्तीनां स पिता महः ।
एको ब्रह्मान्तकश्चैव पुरुषश्चैति तत्र यः ॥ २,३.८१ ॥
एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयंभुवः ।
ब्राह्मी च पौरुषी चैव कालाख्या चेति ताः स्मृताः ॥ २,३.८२ ॥
या तत्र राजसी तस्य तनुः सा वै प्रजाकरी ।
मता सा या तु कालाख्या प्रजाक्षयकरी तु सा ॥ २,३.८३ ॥
सात्त्विकी पौरुषी या तु सा तनुः पालिका स्मृता ।
राजसी ब्रह्मणो या तु मारीचः कश्यपोऽभवत् ॥ २,३.८४ ॥
तामसी चान्तकृद्या तु तदंशो विष्णुरुच्यते ॥ २,३.८५ ॥
त्रैलोक्ये ताः स्मृतास्तिस्रस्तनवो वै प्रजाकरी ।
मता सा या तु कालाख्या प्रजाक्षयकरी तु सा ॥ २,३.८६ ॥
सृजत्यथानुगृह्णाति तथा संहरति प्रजाः ।
एवमेताः स्मृतास्तिस्रस्तनवो हि स्वयंभुवः ॥ २,३.८७ ॥
प्राजापत्या च रौद्रा च वैष्णवी चेति तास्त्रिधा ।
एतास्तन्वः स्मृता देवा धर्मशास्त्रे पुरातने ॥ २,३.८८ ॥
सांख्ययोगरतैर्धीरैः पृथगेकार्थदर्शिभिः ।
अभिजातिप्रभावज्ञैर्मुनिभिस्तत्त्वदर्शिभिः ॥ २,३.८९ ॥
एकत्वेन पृथक्त्वेन तासु भिन्नाः प्रजास्त्विमाः ।
इदं परमिदं नेति ब्रुवते भिन्नदर्शिनः ॥ २,३.९० ॥
ब्रह्माणां कारणं के चित्केचिदाहुः प्रजापतिम् ।
केचिद्भवं परत्वेन प्राहुर्विष्णुं तथापरे ॥ २,३.९१ ॥
अभिज्ञानेन संभूताः सक्तारिष्टविचेतसः ।
सत्त्वं कालं च देशं च कार्यं चावेक्ष्य कर्म च ॥ २,३.९२ ॥
कारणं तु स्मृता ह्येते नानार्थेष्विह देवताः ।
एकं प्रशंसमानस्तु सर्वानेवप्रशसति ॥ २,३.९३ ॥
एकं निन्दति यस्त्वेषां सर्वानेव स निन्दति ।
न प्रद्वेषस्ततः कार्यो देवतासु विजानता ॥ २,३.९४ ॥
न शक्या ईश्वराज्ञातुमैश्वर्येण व्यवस्थिताः ।
एकत्वात्स त्रिधा भूत्वा संप्रमोहयति प्रजाः ॥ २,३.९५ ॥
एतेषां वै त्रयाणां तु विचिन्वन्त्यन्तरं जनाः ।
जिज्ञासवः परीहन्ते सक्ता दुष्टा विचेतसः ॥ २,३.९६ ॥
इदं परमिदं नेति संरंभाद्भिन्नदर्शिनः ।
यातुधाना विशेषा ये पिशाचाश्चैव नान्तरम् ॥ २,३.९७ ॥
एकः स तु पृथक्त्वेन स्वयं भूत्वा च तिष्ठति ।
गुणमात्रात्मिकाभिस्तु तनुभिर्मोहयन्प्रजाः ॥ २,३.९८ ॥
तेष्वेकं यजते यो वै स तदा यजते त्रयम् ।
तस्माद्देवास्त्रयो ह्येते नैरन्तर्येणधिष्टताः ॥ २,३.९९ ॥
तस्मात्पृथक्त्वमेकत्वं संख्या संख्ये गतागतम् ।
अल्पत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति ॥ २,३.१०० ॥
तस्मात्सृष्ट्वानुगृह्णति ग्रसते चैव सर्वशः ।
गुणात्मकत्ववै कल्पये तस्मादेकः स उच्यते ॥ २,३.१०१ ॥
रुद्रं ब्रह्माणमिन्द्रं च लोकपालानृषीन्मनून् ।
देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः ॥ २,३.१०२ ॥
प्राजापत्या च रौद्री च तनुर्या चैव वैष्णवी ।
मन्वन्तरेषु वै तिस्र आवर्त्तन्ते पुनः पुनः ॥ २,३.१०३ ॥
क्षेत्रज्ञा अपि चान्येऽस्य विभोर्जायन्त्यनुग्रहात् ।
तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च ॥ २,३.१०४ ॥
जायन्ते तत्समाश्चैव तानपीमान्निबोधत ।
राजस्या ब्रह्मणोंऽशेन मारीचः कश्यपोऽभवत् ॥ २,३.१०५ ॥
तामस्यास्तस्य चांशेन कालो रुद्रः स उच्यते ।
सात्त्विक्याश्च तथांशेन यज्ञो विष्णुरजा यत ॥ २,३.१०६ ॥
त्रिषु कालेषु तस्यैता ब्रह्ममस्तनवो द्विजाः ।
मन्वन्तरेष्विह स्रष्टुमावर्त्तन्ते पुनः पुनः ॥ २,३.१०७ ॥
मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः ।
युगादौ सकृदुत्पन्नास्तिष्ठन्तीहाप्रसंयमात् ॥ २,३.१०८ ॥
प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः ।
कालो भूत्वा युगात्मासौ रुद्रः संहरते पुनः ॥ २,३.१०९ ॥
संप्राप्ते चैव कल्पान्ते सप्तरशिमर्दिवाकरः ।
भूत्वा संवर्त्तकादित्यस्त्रींल्लोकांश्च दहत्युत ॥ २,३.११० ॥
विष्णुः प्रजानुग्रहकृत्सदा पालयति प्रजाः ।
तस्यां तस्यामवस्थायां तत उत्पाद्य कारणम् ॥ २,३.१११ ॥
सत्त्वोद्रिक्ता तु या प्रोक्ता ब्रह्मणः पौरुषी तनुः ।
तस्याशेन च विज्ञेयो मनोः स्वायंभुवेन्तरे ॥ २,३.११२ ॥
आकृत्यां मनसा देव उत्पन्नः प्रथमं विभुः ।
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेऽन्तरे ॥ २,३.११३ ॥
तुषितायां समुत्पन्नो ह्यजितस्तुषितैः सह ।
औत्तमे ह्यन्तरे वापि ह्यजितस्तु पुनः प्रभुः ॥ २,३.११४ ॥
सत्यायामभवत्सत्यः सह सत्यैः सुरोत्तमैः ।
तामसस्यातरे चापि स देवः पुनरेव हि ॥ २,३.११५ ॥
हरिण्यां हरिभिः सार्द्धं हरिरेव बभूव ह ।
वैवस्वतेन्तरे चापि हरिर्देवेः पुनस्तु सः ॥ २,३.११६ ॥
वैकुण्ठो नामतो जज्ञे विधूतरजसैः सह ।
मरीचात्कश्यपाद्विष्णुरदित्यां संबभूव ह ॥ २,३.११७ ॥
त्रिभिः क्रमैरिमांल्लोकञ्जित्वा विष्णुस्त्रिविक्रमः ।
प्रत्यपादयदिन्द्राय दैवतैश्चैव स प्रभुः ॥ २,३.११८ ॥
इत्येतास्तनवो जाता व्यतीताः सप्तसप्तसु ।
मन्वन्तरेष्वतीतेषु याभिः संरक्षिताः प्रजाः ॥ २,३.११९ ॥
यस्माद्विश्वमिदं सर्वं जायते लीयते पुनः ।
यस्यांशेनामराः सर्वे जायन्ते त्रिदिवेश्वराः ॥ २,३.१२० ॥
वर्द्धन्ते तेजसा बुद्ध्या श्रुतेन च बलेन च ।
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ॥ २,३.१२१ ॥
तत्तदेवावगच्छध्वं विष्णोस्तेजोंऽशसंभवम् ।
स एव जायतेंऽशेन केचिदिच्छन्ति मानवाः ॥ २,३.१२२ ॥
एके विवदमानास्तु दृष्टान्ताच्च ब्रुवन्ति हि ।
एषां न विद्यते भेदस्त्रयाणां द्युसदामिह ॥ २,३.१२३ ॥
जायन्ते पोहयन्त्यं शैरीश्वरा योगमायया ॥ २,३.१२४ ॥
तस्मात्तेषां प्रचारे तु युक्तायुक्तं न विद्यते ।
भूतानुवादिना माद्या मध्यस्था भूतवादिनाम् ॥ २,३.१२५ ॥
भूतानुवादिनः सक्तस्त्रयश्चैव प्रवादिनाम् ।
परीक्ष्य चानुगृह्णन्ति निगृह्णन्ति खलान्स्वयम् ॥ २,३.१२६ ॥
मत्तः पूर्व्वे च ते तस्मात्प्रभवश्च ततोऽधिकाः ।
तथाधिकरणैरतैर्यथा तत्त्वनिदर्शकाः ॥ २,३.१२७ ॥
देवानां देवभूताश्च ते वै सर्वप्रवर्त्तकाः ।
कर्म्मणां महतां ते हि कर्त्तारो जगदीश्वराः ॥ २,३.१२८ ॥
श्रुतिज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्तिताः ।
बालिशास्ते न जानन्ति दैवतानि प्रभागशः ॥ २,३.१२९ ॥
इमं चोदाहरन्त्यत्र श्लोकं योगेश्वरान्प्रति ।
कुर्याद्योगबलं प्राप्य तैश्च सर्वैर्महांश्चरेत् ॥ २,३.१३० ॥
प्राप्नुयाद्विषयांश्चैव पुनश्चोर्द्ध्व तपश्चरेत् ।
संहरेत पुनः सर्व्वान्सूर्य्यो ज्योतिर्गणानिव ॥ २,३.१३१ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
स्वयंभूत्रैगुण्यस्वरूपवर्णनं नाम तृतीयोऽध्यायः