ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ७१

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ७० ब्रह्माण्डपुराणम्
अध्यायः ७१
[[लेखकः :|]]
मध्यभागः, अध्यायः ७२ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सूत उवाच
सात्त्वताज्जज्ञिरे पुत्राः कौशल्यायां महाबलाः ।
भजमानो भजिर्द्दिव्यो वृष्णिर्देवावृधोऽन्धकः ॥ २,७१.१ ॥

महाभोजश्च विख्यातो ब्रह्मण्यस्सत्यसंगरः ।
तेषां हि सर्गाश्चत्वारः शृणुध्वं विस्तरेण वै ॥ २,७१.२ ॥

भजमानस्य सृंजय्यो बाह्यका चोपवाह्यका ।
सृंज यस्य सुते द्वे तु बाह्यके ते उदावहत् ॥ २,७१.३ ॥

तस्य भार्ये भगिन्यौ ते प्रसूते तु सुतान्बहून् ।
निम्लोचिः किङ्कणश्चैव धृष्टिः पर पुरञ्जयः ॥ २,७१.४ ॥

ते बाह्यकाया सृंजय्या भजमानाद्विजज्ञिरे ।
अयुताजित्सहस्राजिच्छताजिदिति नामतः ॥ २,७१.५ ॥

बाह्यकायां भगिन्यां ते भजमानाद्विजज्ञिरे ।
तेषां देवावृधो राजा चचार परमं तपः ।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह ॥ २,७१.६ ॥

संयोज्या त्मानमेवं स पर्णाशजलमस्पृशत् ॥ २,७१.७ ॥

सा चोपस्पर्शनात्तस्य चकार प्रियमापगा ।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ २,७१.८ ॥

चिन्तयाभिपरीताङ्गी जगामाथ विनिश्चयम् ।
नाभिगच्छामि तां नारीं यस्यामेवंविधः सुतः ॥ २,७१.९ ॥

भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि ।
तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता ॥ २,७१.१० ॥

जज्ञे तस्याः स्वयं हृत्स्थो भावस्तस्य यथेरितः ।
अथ भूत्वा कुमारी तु सा चिन्तापरमेव च ॥ २,७१.११ ॥

वरयामास राजानं तामियेष स पार्थिवः ।
तस्यामाधत्त गर्भे स तेजस्विनमुदारधीः ॥ २,७१.१२ ॥

अथ सा नवमे मासि सुषुवे सरिता वरा ।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधत्तदा ॥ २,७१.१३ ॥

तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः ।
गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः ॥ २,७१.१४ ॥

यथैव शृणुमो दूरात्सपंश्यामस्तथान्तिकात् ।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृथः समः ॥ २,७१.१५ ॥

पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः ।
येमृतत्वमनुप्राप्ता बब्रोर्देवावृधादपि ॥ २,७१.१६ ॥

यज्वा दानपतिर्धीरो ब्रह्मण्यः सत्यवाग्बुधः ।
कीर्त्तिमांश्च महाभोजः सात्त्वतानां महारथः ॥ २,७१.१७ ॥

तस्यान्ववायः सुमहान्भोजा ये भुवि विश्रुताः ।
गान्धारी चैव माद्री च धृष्टैर्भार्ये बभूवतुः ॥ २,७१.१८ ॥

गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ।
साद्री युधाजितं पुत्रं ततो मीढ्वांसमेव च ॥ २,७१.१९ ॥

अनमित्रं शिनं चैव ताबुभौ पुरुषोत्तमौ ।
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ॥ २,७१.२० ॥

प्रसेनश्च महाभागः सत्राजिच्च सुताबुभौ ।
तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥ २,७१.२१ ॥

स कदाचिन्निशापाये रथेन रथिनां वरः ।
तोयं कूलात्समुद्धर्तुमुपस्थातुं ययौरविम् ॥ २,७१.२२ ॥

तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ।
सुस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान्विभुः ॥ २,७१.२३ ॥

अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।
यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषां पते ॥ २,७१.२४ ॥

तेजोमण्डलिनं चैव तथैवाप्यग्रतः स्थितम् ।
को विशेषो विवस्वंस्ते सख्येनोपगतस्य वै ॥ २,७१.२५ ॥

एतच्छ्रुत्वा स भगवान्मणिरत्नं स्यमन्तकम् ।
स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ॥ २,७१.२६ ॥

ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ।
प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान्कथाम् ॥ २,७१.२७ ॥

तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ।
प्रोवाचाग्निसवर्णं त्वां येन लोकः प्रपश्यति ॥ २,७१.२८ ॥

तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि ।
स्यमं तकं नाममणिं दत्तवांस्तस्य भास्करः ॥ २,७१.२९ ॥

स तमामुच्य नगरीं प्रविवेश महीपतिः ।
विस्मापयित्वाथ ततः पुरीमन्तःपुरं ययौ ॥ २,७१.३० ॥

स प्रसेनाय तद्दिव्यं मणिरत्नं स्यमन्तकम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ २,७१.३१ ॥

स्यमन्तको नाम मणिर्यस्मिन्राष्ट्रे स्थितो भवेत् ।
कामवर्षी च पर्जन्यो न च व्याधिभयं तथा ॥ २,७१.३२ ॥

लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् ।
गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ॥ २,७१.३३ ॥

कधाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।
स्यमन्तककृते सिंहाद्वधं प्राप सुदारुणम् ॥ २,७१.३४ ॥

जांबवानृक्षराजस्तु तं सिंहं निजघान वै ।
आदाय च मणिं दिव्यं स्वबिलं प्रविवेश ह ॥ २,७१.३५ ॥

तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः ।
मणिं गृध्नोस्तु मन्वानास्तमेव विशशङ्किरे ॥ २,७१.३६ ॥

मिथ्यापवादं तेभ्यस्तं बलवानरिसूदनः ।
अमृष्यमाणो भगवान्वनं स विचचार ह ॥ २,७१.३७ ॥

स तु प्रोसेनो मृगयामचरद्यत्र चाप्यथ ।
प्रसेनस्य पदं ग्राह्यं पुरं पौराप्तकारिभिः ॥ २,७१.३८ ॥

ऋक्षवन्तं गिरिवरं विन्ध्यं च नगमुत्तमम् ।
अन्वेषयत्परिश्रान्तः स ददर्श महामनाः ॥ २,७१.३९ ॥

साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम् ।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ २,७१.४० ॥

ऋक्षेण निहतो दृष्टः पदैरृक्षस्य सूचितः ।
पदैरन्वेषयामास गुहामृक्षस्य यादवः ॥ २,७१.४१ ॥

महत्यन्तर्बिले वाणीं शश्राव प्रमदेरिताम् ।
धात्र्या कुमारमादाय सुतं जांबवतो द्विजाः ।
क्रीडयन्त्याथ मणिना मारोदीरित्युदीरितम् ॥ २,७१.४२ ॥

धात्र्युवाच
प्रसेनमवधीत्सिंहः सिंहो जांबवता हतः ॥ २,७१.४३ ॥

सुकुमारक मारो दीस्तव ह्यें स्यमन्तकः ।
व्यक्तीकृतश्च शब्दः स तूर्णं चापि ययौ बिलम् ॥ २,७१.४४ ॥

अपश्यच्च बिलाभ्याशे प्रसेन मवदारितम् ।
प्रविश्य चापि भगवान्स ऋक्षबिलमञ्जसा ॥ २,७१.४५ ॥

ददर्श ऋक्षराजानं जांबवन्तमुदारधीः ।
युयुधे वासुदेवस्तु बिले जांबवता सह ॥ २,७१.४६ ॥

बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ।
प्रविष्टे च बिलं कृष्णे वसुदेवापुरस्सराः ॥ २,७१.४७ ॥

पुनर्द्वारवतीं चैत्य हतं कृष्णं न्यवेदयन् ।
वासुदेवस्तु निर्जित्य जांबवन्तं महाबलम् ॥ २,७१.४८ ॥

लेभे जांबवन्तीं कन्यामृक्षराजस्य सम्मनाम् ।
भगवत्तेजसा ग्रस्तो जांबवांन्प्रसभं मणिम् ॥ २,७१.४९ ॥

सुतां जांबवतीमाशु विष्वक्सेनाय दत्तवान् ।
मणिं स्यमन्तकं चैव जग्रहात्मविशुद्धये ॥ २,७१.५० ॥

अनुनीयर्क्षराजं तं निर्ययौ च तदा बिलात् ।
एवं स मणिमाहृत्य विशोध्यात्मानमात्मना ॥ २,७१.५१ ॥

ददौ सत्राजिते रत्नं मणिं सात्त्वतसन्निधौ ।
कन्यां पुनर्जांबवतीमुवाह मधुसूदनः ॥ २,७१.५२ ॥

तस्मान्मिथ्याभिशापात्तु व्यशुध्यन्मधुसूदनः ।
इमां मिथ्याभिशप्तिं यः कृष्णस्येह व्यपोहिताम् ॥ २,७१.५३ ॥

वेद मिथ्याभिशप्तिं स नाभिस्पृशति कर्हिचित् ।
दश त्वासन्सत्रजितो भार्यास्तस्यायुतं सुताः ॥ २,७१.५४ ॥

ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः ।
वीरो वातपतिश्चैव तपस्वी च बहुप्रियः ॥ २,७१.५५ ॥

अथ वीरमती नाम भङ्गकारस्य तु प्रसूः ।
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ॥ २,७१.५६ ॥

सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता ।
तथा तपस्विनी चैव पिता कृष्णय तां ददौ ॥ २,७१.५७ ॥

न च सत्राजितः कृष्णो मणिरत्नं स्यमन्तकम् ।
आदत्त तदुपश्रुत्य भोजेन शतधन्वना ॥ २,७१.५८ ॥

तदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरो धनमन्विच्छन्मणिं चैव स्यमन्तकम् ॥ २,७१.५९ ॥

सत्राजितं ततो इत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ २,७१.६० ॥

अक्रूरस्तु तदा रत्नमादाय स नरर्षभः ।
समयं कारयाञ्चक्रे बोध्यो नान्यस्य चेत्युत ॥ २,७१.६१ ॥

वयमभ्युपयोत्स्यामः कृष्णेन त्वां प्रधर्षितम् ।
मम वै द्वारका सर्वा वेशे तिष्ठत्य संशयम् ॥ २,७१.६२ ॥

हते पितरि दुःखार्त्ता सत्यभामा यशस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥ २,७१.६३ ॥

सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत् ॥ २,७१.६४ ॥

पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
कल्यार्थे चैव भ्रातॄणां न्ययोजयत सात्यकिम् ॥ २,७१.६५ ॥

ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ २,७१.६६ ॥

हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तको मार्गणीयस्तस्य प्रभुरहं प्रभो ॥ २,७१.६७ ॥

तहारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
स्यमन्तकं महाबाहो सामान्यं वो भविष्यति ॥ २,७१.६८ ॥

ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः ।
शतधन्वा तमक्रूरमवैक्षत्सर्वतो दिशम् ॥ २,७१.६९ ॥

अनालब्धावहारौ तु कृत्वा भोजजनार्द्दनौ ।
शक्तोऽपि शाठ्याद्धार्दिक्यो नाक्रूरोऽभ्युपपद्यत ॥ २,७१.७० ॥

अपयोते ततो बुद्धिं भूयश्चक्रे भयान्वितः ।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ २,७१.७१ ॥

विख्याता हृदया नाम शतयोजनगामिनी ।
भोजस्य वडवा दिव्या यया कृष्णमयोधयत् ॥ २,७१.७२ ॥

क्षीणां जवेन त्दृदयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य तां वृद्धिं शतधन्वा समुद्रवत् ॥ २,७१.७३ ॥

ततस्तस्या हयायास्तु श्रमात्खेदाच्च वै द्विजाः ।
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ २,७१.७४ ॥

तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयी ।
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ २,७१.७५ ॥

पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलोपवने तं वै जघान परमास्त्रवित् ॥ २,७१.७६ ॥

स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम् ।
निवृत्तं चाब्र वीत्कृष्णं रत्नं देहीति लाङ्गली ॥ २,७१.७७ ॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्छब्दपूर्वमसकृत्प्रत्युवाच जनार्द्दनम् ॥ २,७१.७८ ॥

भातृत्वान्मर्षयाम्वेष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ २,७१.७९ ॥

प्रविवेश ततो रामो मिथिलामरिमर्द्दनः ।
सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः ॥ २,७१.८० ॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान्क्रतून्सर्वा नाजहार निरर्गलान् ॥ २,७१.८१ ॥

दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो कान्दिनीजो महामनाः ॥ २,७१.८२ ॥

अकूर यज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ २,७१.८३ ॥

अथ दुर्योधनो राजा गत्वाथ मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ २,७१.८४ ॥

प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ २,७१.८५ ॥

अक्रूरश्चान्धकैः सार्द्धमथायात्पुरुषर्षभः ।
युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमता बली ॥ २,७१.८६ ॥

सुयज्ञतनयायां तु नरायां नरसत्तमौ ।
भङ्गकारस्य तनयौ विश्रुतौ सुमहाबलौ ॥ २,७१.८७ ॥

जज्ञातेंऽधकमुख्यस्य शक्रघ्नो बन्धुमांश्च तौ ।
वधे च भङ्गकारस्य कृष्णो न प्रीतिमानभूत् ॥ २,७१.८८ ॥

ज्ञातिभेदभयाद्भीतस्तमुबेक्षितवानथ ।
अपयाते ततोऽक्रूरे नावर्षत्पाकशासनः ॥ २,७१.८९ ॥

अनावृष्ट्या हतं राष्ट्रमभवद्बहुधा यतः ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ २,७१.९० ॥

पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा ।
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ॥ २,७१.९१ ॥

कन्यां वै वासुदेवाय स्वसारं शीलसंमताम् ।
अक्रूरः प्रददौ श्रीमान्प्रीत्यर्थं मुनिपुङ्गवाः ॥ २,७१.९२ ॥

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
सभामध्ये तदा प्राह तमक्रूरं जनार्द्दनः ॥ २,७१.९३ ॥

यत्तद्रत्नं मणिवरं तव हस्तगतं प्रभो ।
तत्प्रयच्छ स्वमानार्ह मयि मानार्यकं कृथाः ॥ २,७१.९४ ॥

षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम ।
सुसंरूढोऽसकृत्प्राप्तस्तदा कालात्ययो महान् ॥ २,७१.९५ ॥

ततः कृष्णस्य वचनात्सर्वसात्त्वतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ २,७१.९६ ॥

ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिन्दमः ।
ददौ हृष्टमनास्तुष्टस्तं मणिं बभ्रवे पुनः ॥ २,७१.९७ ॥

स कृष्णहस्तात्संप्राप्य मणिरत्नं स्यमन्तकम् ।
आबध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ २,७१.९८ ॥

इमां मिथ्याभिशाप्तिं यो विशुद्धिमपि चोत्तमाम् ।
वेद मिथ्याभिशप्तिं स न लभेत कथञ्चन ॥ २,७१.९९ ॥

अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ।
सत्यवान्सत्यसंपन्नः सत्यकस्तस्य चात्मजः ॥ २,७१.१०० ॥

सात्यकिर्युयुधानश्च तस्य भूतिः सुतोऽभवत् ।
भूतेर्युगन्धरः पुत्र इति भौत्यः प्रकीर्त्तितः ॥ २,७१.१०१ ॥

माड्याः सुतस्य जज्ञे तु सुतो वृष्णिर्युधाजितः ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकश्च यः ॥ २,७१.१०२ ॥

श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ॥ २,७१.१०३ ॥

कादाचित्काशिराजस्य विभोस्तु द्विजसत्तमाः ।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥ २,७१.१०४ ॥

स तत्रवासयामास श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ॥ २,७१.१०५ ॥

श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
गान्दिनींनाम गां सा हि ददौ विप्राय नित्यशः ॥ २,७१.१०६ ॥

सा मातुरुदरस्था वै बहून्वर्षशातान्किल ।
निवसंती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥ २,७१.१०७ ॥

जायस्व शीघ्रं भद्रं ते किमर्थं वापि तिष्ठसि ।
प्रोवाच चैनं गर्भस्था सा कन्या गां दिने दिने ॥ २,७१.१०८ ॥

यदि दद्यास्ततो गर्भाद्बहिः स्यां हायनैस्त्रिभिः ।
तथेत्युवाच तां तस्याः पिता काममपूरयत् ॥ २,७१.१०९ ॥

दाता यज्वा च शुरश्च श्रुतवानतिथिप्रियः ।
तस्याः पुत्रः स्मृतोऽक्रूरः श्वाफल्को भूरिदक्षिणः ॥ २,७१.११० ॥

उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः ।
गिरिरक्षस्ततो यक्षः शत्रुघ्नोऽथारिमर्दनः ॥ २,७१.१११ ॥

धर्मवृद्धः सुकर्मा च गन्धमादस्तथापरः ।
आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ॥ २,७१.११२ ॥

अक्रूरादौग्रसेन्यां तु सुतौ द्वौ कुलनन्दिनौ ।
देववानुपदेवश्च जज्ञाते देवसंनिभौ ॥ २,७१.११३ ॥

चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ ॥ २,७१.११४ ॥

अरिष्टनेमिरश्वास्यः सुवार्मा वर्मभृत्तथा ।
अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ २,७१.११५ ॥

सत्यकात्काशिदुहिता लेभे या चतुरः सुतान् ।
कुकुरं भजमानं च शुचिं कंबल बर्हिषम् ॥ २,७१.११६ ॥

कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् ।
कपोतरोमा तस्याथ विलोमाभवदात्मजः ॥ २,७१.११७ ॥

तस्यासीत्तुंबुरुसखा विद्वान्पुत्रोंऽधकः किल ।
ख्यायते यस्य नामान्यच्चन्दनोदकदुन्दुभिः ॥ २,७१.११८ ॥

तस्याभिजित्ततः पुत्र उत्पन्नस्तु पुनर्वसुः ।
अश्वमेधं तु पुत्रार्थमाजहार नरोत्तमः ॥ २,७१.११९ ॥

तस्य मध्येऽतिरात्रस्य सदोमध्यात्ससुच्छ्रितः ।
ततस्तु विद्वान्धर्मज्ञो दाता यज्वा पुनर्वसुः ॥ २,७१.१२० ॥

तस्याथ पुत्रमिथुनं बभूवाभिजितः किल ।
आहुकश्चाहुकी चैव ख्यातौ मतिमतां वरौ ॥ २,७१.१२१ ॥

इमांश्चोदा हरन्त्यत्र श्लोकान्प्रति तमाहुकम् ।
सोपासांगानुकर्षाणां सध्वजानां वरूथिनाम् ॥ २,७१.१२२ ॥

रथानां मेघघोषाणां महस्राणि दशैव तु ।
नासत्यवादी चासीत्तु नायज्ञो नासहस्रदः ॥ २,७१.१२३ ॥

नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत् ।
आर्द्रकस्य धृतिः पुत्र इत्येवमनुशुश्रुम् ॥ २,७१.१२४ ॥

स तेन परिवारेण किशोरप्रतिमान्हयान् ।
अशीतिमश्वनियुतान्याहुकोऽप्रतिमो व्रजन् ॥ २,७१.१२५ ॥

पूर्वस्यां दिशि नागानां भोजस्य त्वतिभावयन् ।
रूप्यकाञ्चनकक्षाणां स्रहस्राण्येकविंशतिः ॥ २,७१.१२६ ॥

तावन्त्येव सहस्राणि उत्तरस्यां तथादिशि ।
भूमिपालस्य भोजस्य उत्तिष्टेत्किङ्कणी किल ॥ २,७१.१२७ ॥

आहुकश्चाप्यवन्तीषु स्वसारं त्वाहुकीं ददौ ।
आहुकात्काश्यदुहितुर्द्वै पुत्रौ संबभूवतुः ॥ २,७१.१२८ ॥

देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ २,७१.१२९ ॥

देववानुपदेवश्च सुदेवो देवरक्षितः ।
तेषां स्वसारः सप्तासन्वसुदेवाय ता ददौ ॥ २,७१.१३० ॥

धृतदेवोपदेवा च तथान्या देवरक्षिता ।
श्रीदेवा शान्तिदेवा च सहदेवा तथापरा ॥ २,७१.१३१ ॥

सप्तमी देवकी तासां सानुजा चारुदर्शना ।
नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः ॥ २,७१.१३२ ॥

न्यग्रो दश्च सुनामा च कङ्कशङ्कुसुभूमयः ।
सुतनू राष्ट्रपालश्च युद्धतुष्टश्च तुष्टिमान् ॥ २,७१.१३३ ॥

तेषां स्वसारः पञ्चैव कंसा कंसवती तथा ।
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ २,७१.१३४ ॥

उग्रसेनो महापत्यो व्याख्यातः कुकुरोद्भवः ।
कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥ २,७१.१३५ ॥

आत्मनोविपुलं वंशं प्रजावांश्च भवेन्नरः ।
भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः ॥ २,७१.१३६ ॥

राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् ।
तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः ॥ २,७१.१३७ ॥

वातश्चैव निवातश्च शोणितः श्वेतवाहनः ।
शमी च गदवर्मा च निदान्तः खलु शत्रुजित् ॥ २,७१.१३८ ॥

शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
स्वयंभोजः स्वयंभोजाद्धृदिकः संबभूव ह ॥ २,७१.१३९ ॥

हृदिकस्य सुतास्त्वासन्दश भीमपराक्रमाः ।
कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ २,७१.१४० ॥

देवबाहुस्सुबाहुश्च भिषक्श्वेतरथश्च यः ।
सुदान्तश्चाधिदान्तश्च कनकः कनकोद्भवः ॥ २,७१.१४१ ॥

देवबाहोस्सुतो विद्वाञ्जज्ञे कंबलबर्हिषः ।
असमौजाः सुतस्तस्य सुसमौजाश्च विश्रुतः ॥ २,७१.१४२ ॥

अजातपुत्राय ततः प्रददावसमौजसे ।
सुचन्द्रं वसुरूपं च कृष्ण इत्यन्धकाः स्मृताः ॥ २,७१.१४३ ॥

अन्धकानामिमं वंशं कीर्त्तयेद्यस्तु नित्यशः ।
आत्मनो विपुलं वंशं लभते नात्र संशयः ॥ २,७१.१४४ ॥

अश्मक्यां जनयामास शूरं वै देव मीढुषम् ।
मारिष्यां जज्ञिरे शूराद्भोजायां पुरुषा दश ॥ २,७१.१४५ ॥

वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।
जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि ॥ २,७१.१४६ ॥

आनकानां च संह्नादः सुमहानभवद्दिवि ।
पपात पुष्पवर्षं च शरस्य भवने महत् ॥ २,७१.१४७ ॥

मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ २,७१.१४८ ॥

देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः ।
अनाधृष्टिवृकश्चैव नन्दनश्चैव सृंजयः ॥ २,७१.१४९ ॥

श्यामः शमीको गण्डूषः स्वसारस्तु वरागनाः ।
पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुत श्रवाः ॥ २,७१.१५० ॥

राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
पृथां दुहितरं शूरः कुन्तिभोजाय वै ददौ ॥ २,७१.१५१ ॥

तस्मात्सा तु स्मृता कुन्ती कुन्तिभोजात्मजा पृथा ।
कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ॥ २,७१.१५२ ॥

पुथा जज्ञे ततः पुत्रांस्त्रीनग्निसमतेजसः ।
लोके प्रतिरथान्वीराञ्छक्रतुल्यपराक्रमान् ॥ २,७१.१५३ ॥

धर्माद्युधिष्टिरं पुत्रं मारुताच्च वृकोदरम् ।
इन्द्राद्धनञ्जयं चैव पृथा पुत्रानजीचनत् ॥ २,७१.१५४ ॥

माद्रवत्या तु जनितावश्विनाविति विश्रुतम् ।
नकुलः सहदेवश्च रुपसत्त्वगुणान्वितौ ॥ २,७१.१५५ ॥

जज्ञे तु श्रुतदेवायां तनयो वृद्धशर्मणः ।
करूषाधिपतेर्ंवीरो दन्तवक्रो महाबलः ॥ २,७१.१५६ ॥

कैकयाच्छ्रुतिकीर्त्यं तु जज्ञे संतर्दनो बली ।
चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ॥ २,७१.१५७ ॥

विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ ।
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥ २,७१.१५८ ॥

दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः ।
यः पुरा सदशग्रीवः संबभूवारिमर्दनः ॥ २,७१.१५९ ॥

वैश्रवाणानुजस्तस्य कुंभकर्णोऽनुजस्तथा पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥ २,७१.१६० ॥

पौरवी रोहिणी चैव मदिरा चापरा तथा ।
तथैव भद्रवैशाखी सुनाम्नी पञ्चमी तथा ॥ २,७१.१६१ ॥

सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता ।
धृतदेवोपदेवा च देवकी सप्तमी तथा ॥ २,७१.१६२ ॥

सुगन्धा वनराजी च द्वेचान्ये परिचारिके ।
रोहिणी पौरवी चैव बाह्लीकस्यानुजाभवत् ॥ २,७१.१६३ ॥

ज्येष्ठा पत्नी महाभागदयिताऽनकदुन्दुभेः ।
ज्येष्ठे लेभे सुतं रामं सारणं हि शठं तथा ॥ २,७१.१६४ ॥

दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ ।
चित्रां नाम कुमारीं च रोहिण्यष्टौ व्यजायत ॥ २,७१.१६५ ॥

पुत्रौ रामस्य जज्ञाते विज्ञातौ निशठोल्मुकौ ।
पार्श्वी च पार्श्वमर्दी च शिशुः सत्यधृतिस्तथा ॥ २,७१.१६६ ॥

मन्दबाह्योऽथ रामणाङ्गिरिको गिरिरेव च ।
शुल्कगुल्मोऽतिगुल्मश्च दरिद्रान्तक एव च ॥ २,७१.१६७ ॥

कुमार्यश्चापि पञ्जान्या नामतस्ता निबोधत ।
अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥ २,७१.१६८ ॥

तथा शतबला चैव सारणस्य सुतास्त्विमाः ।
भद्राश्वो भद्रगुप्तिश्च भद्रविष्टस्तथैव च ॥ २,७१.१६९ ॥

भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च ।
सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वः शठात्मजाः ॥ २,७१.१७० ॥

दुर्मदस्याभिभूतश्च रोहिण्याः कुलजाः स्मृताः ।
नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा बलः ॥ २,७१.१७१ ॥

चित्रोपचित्रौ कृतकस्तुष्टिः पुष्टिरथापरः ।
मदिरायाः सुता एते वसुदेवाद्धिजज्ञिरे ॥ २,७१.१७२ ॥

उपबिंबोऽथ बिंबश्च सत्त्वदन्तमहौजसौ ।
चत्वार एते विख्याता भद्रापुत्रा महाबलाः ॥ २,७१.१७३ ॥

वैशाल्यामदधाच्छौरिः पुत्रं कौशिकमुत्तमम् ।
देवक्यां जज्ञिरे सौरेः सुषेणः कीर्त्तिमानपि ॥ २,७१.१७४ ॥

उदर्षिर्भद्रसेनश्च ऋजुदायश्च पञ्चमः ।
षष्ठो हि भद्रदेवश्च कंसः सर्वाञ्जघान तान् ॥ २,७१.१७५ ॥

अथ तस्या मवस्थाया आयुष्मान्संबभूव ह ।
लोकनाथः पुनर्विष्णुः पूर्वं कृष्णः प्रजापतिः ॥ २,७१.१७६ ॥

अनुजाताभवकृष्णात्सुभद्रा भद्रभाषिणी ।
कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी ॥ २,७१.१७७ ॥

सुभद्रायां रथी पार्थादभिमन्युरजायत ।
वसुदेवस्य भार्यासु महाभागासु सप्तसु ॥ २,७१.१७८ ॥

ये पुत्रा जज्ञिरे शुरा नामतस्तान्निबोधत ।
पूर्वाद्याः सहदेवायां शूराद्वै जज्ञिरे सुताः ॥ २,७१.१७९ ॥

शान्तिदेवा जनस्तम्बं शौरेर्जज्ञे कुलोद्वहम् ।
आगावहो महात्मा च वृकदेव्या मजायत ॥ २,७१.१८० ॥

श्रीदेवायां स्वयं जज्ञे मन्दको नाम नामतः ।
उपासंगं वसुं चापि तनयौ देवरक्षिता ॥ २,७१.१८१ ॥

एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ।
विजयं रोचनं चैव वर्द्धमानं च देवलम् ॥ २,७१.१८२ ॥

एतान्महात्मनः पुत्रान्सुषाव शिशिरावती ।
सप्तमी देवकी पुत्रं सुनामानमसूयत ॥ २,७१.१८३ ॥

गवेषणं महाभागं संग्रामे चित्रयोधिनम् ।
श्राद्धदेव्यां पुरोद्याने वने तु विचरन्द्विजाः ॥ २,७१.१८४ ॥

वैश्यायामदधाच्छौरिः पुत्रं कौशिकमव्ययम् ।
सुगन्धी वनराजी च शौरेरास्तां परिग्रहौ ॥ २,७१.१८५ ॥

पुण्डश्च कपिलश्चैव सुगन्ध्याश्चात्मजौ तु तौ ।
तयो राजाभवत्पुण्ड्रः कपिलस्तु वनं ययौ ॥ २,७१.१८६ ॥

अन्यस्यामभवद्वीरो वसुदेवात्मजो बली ।
जरा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ॥ २,७१.१८७ ॥

विख्यातो देवभाग्यस्य महाभागः सुतोऽभवत् ।
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ॥ २,७१.१८८ ॥

अश्मक्यां लभते पुत्रमनाधृष्टिर्यशास्विनम् ।
निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलम् ॥ २,७१.१८९ ॥

व्यजायत श्राद्धदेवो नैषादिर्यः पारिश्रुतः ।
एकलव्यो महाभागो निषादैः परिवर्द्धितः ॥ २,७१.१९० ॥

गण्डूषायानपत्याय कृष्णस्तुष्टोऽददात्सुतौ ।
चारुदेष्णं च सांबं च कृतास्त्रौ शस्तलक्षणौ ॥ २,७१.१९१ ॥

रन्तिश्च रन्तिपालश्च द्वौ पुत्रौ नन्दनस्य च ।
वृकाय वै त्वपुत्राय वसुदेवः प्रतापवान् ॥ २,७१.१९२ ॥

सौमिं ददौ सुत वीरं शौरिः कौशिकमेव च ।
सृंजयस्य धनुश्चैव विरजाश्च सुताविमौ ॥ २,७१.१९३ ॥

अनपत्योऽभवच्छ्यामः शमीकस्तु वनं ययौ ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् ॥ २,७१.१९४ ॥

य इदं जन्म कृष्णस्य पठते नियतव्रतः ।
श्रावयेद्ब्राह्मणंवापि स महात्सुखमवाप्नुयात् ॥ २,७१.१९५ ॥

देवदेवो महातेजाः पूर्वं कृष्णः प्रजापतिः ।
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ॥ २,७१.१९६ ॥

देवक्यां वसुदेवेन तपसा पुष्करेक्षणः ।
चतुर्बाहुस्तु संजज्ञे दिव्यरूपश्रियान्वितः ॥ २,७१.१९७ ॥

प्रकाश्यो भगवान्योगी कृष्णो मानुषतां गतः ।
अव्यक्तो व्यक्तलिङ्गश्च स एव भगवान्प्रभुः ॥ २,७१.१९८ ॥

नारायणो यतश्चक्रे व्ययं चैवाव्ययं हि यत् ।
देवो नारायणो भूत्वा हरिरासीत्सनातनः ॥ २,७१.१९९ ॥

योऽबुञ्जाच्चादिपुरुषं पुरा चक्रे प्रजापतिम् ।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥ २,७१.२०० ॥

देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् ।
प्रासादयन्यं च विभुं ह्यदित्याः पुत्रकारणे ॥ २,७१.२०१ ॥

वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।
ययातिवंशजस्याथ वसुदेवस्य धीमतः ॥ २,७१.२०२ ॥

कुलं पुण्यं यतो जन्म भेजे नारायमः प्रभुः ।
सागराः समकंपत चेलुश्च धरणीधराः ॥ २,७१.२०३ ॥

जज्वलुस्त्वग्निहोत्राणि जायमाने जनार्द्दने ।
शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः ॥ २,७१.२०४ ॥

ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्द्दने ।
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ॥ २,७१.२०५ ॥

मुहूर्त्तो विजयो नाम यत्र जातो जनार्द्दनः ।
अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः ॥ २,७१.२०६ ॥

जज्ञे तथैव भगवान्मायया मोहयन्प्रजाः ।
आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः ॥ २,७१.२०७ ॥

गीर्भिर्मङ्गलयुक्ताभिस्तुवन्तो मधुसूदनम् ।
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ॥ २,७१.२०८ ॥

वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम् ।
श्रीवत्सलक्षणं दृष्ट्वा हृदि दिव्यैः स्वलक्षणैः ॥ २,७१.२०९ ॥

उवाच वसुदेवस्तं रूपं संहर वै प्रभो ।
भीतोऽहं कंसतस्तात तस्मादेवं ब्रवीम्यहम् ॥ २,७१.२१० ॥

मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ।
वसुदेववचःश्रुत्वा रूपं संहृतवान्प्रभुः ॥ २,७१.२११ ॥

अनुज्ञातः पिता त्वेनं नन्दगोपगृहं नयत् ।
उग्रसेनगृहेऽतिष्ठद्यशोदायै तदा ददौ ॥ २,७१.२१२ ॥

तुल्यकालं तु गर्भिण्यौ यशोदा देवकी तथा ।
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥ २,७१.२१३ ॥

यामेव रजनीं कृष्णो जज्ञे वृष्णिकुले प्रभुः ।
तामेव रजनीं कन्या यशोदायां व्यजायत ॥ २,७१.२१४ ॥

तं जात रक्षमाणस्तु वसुदेवो महायशाः ।
प्रादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम् ॥ २,७१.२१५ ॥

दत्त्वेमं नन्दगोपस्य रक्षेममिति चाब्रवीत् ।
सुतस्ते सर्वकल्याणो यादवानां भविष्यति ॥ २,७१.२१६ ॥

अयं स गर्भा देवक्या मम क्लेशान्हरिष्यति ।
उग्रसेनात्मजायाथ कन्यामानकदुन्दुभिः ॥ २,७१.२१७ ॥

निवेदयामास तदा कन्येति शुभलक्षणा ।
स्वसुस्तु तनयं कंसो जातं नैवावधारयत् ॥ २,७१.२१८ ॥

अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ।
तवैषा हि यथा कन्या तथा मम न संशयः ।
न हन्मीमां महाबाहो व्रजत्वेषा यथारुचि ॥ २,७१.२१९ ॥

कन्या सा ववृधे तत्र वृष्मिसद्मनि पूजिता ।
पुत्रवत्पालयामास देवी देवीं मुदा तदा ॥ २,७१.२२० ॥

तमेवं विधिनोत्पन्नमाहुः कृष्णं प्रजापतिम् ।
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह ॥ २,७१.२२१ ॥

एतां चैकाग्रमनसः पूजयिष्यन्ति यादवाः ।
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥ २,७१.२२२ ॥

ऋषय ऊचुः
किमर्थं वसुदेवस्य भोजः कंसो नराधिपः ।
जघान पुत्रान्बालान्वै तन्नो व्याख्यातुमर्हसि ॥ २,७१.२२३ ॥

सूत उवाच
शृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः ।
जाताञ्जातास्तु तान्सर्वान्निष्पिपेष वृथामतिः ॥ २,७१.२२४ ॥

भयाद्यथा महाबाहो जातः कृष्णो विवासितः ।
यथा च गोषु गोविन्दः संवृद्धः पुरुषोत्तमः ॥ २,७१.२२५ ॥

उद्वाहे किल देवक्या वसुदेवस्य धीमतः ।
सारथ्यं कृतवान्कंसो युवराजस्तदाभवत् ॥ २,७१.२२६ ॥

ततोंऽतरिक्षे वागासीद्दिव्याभूद्यस्य कस्यचित् ।
कंसस्य नाममात्रेण पुष्कला लोकसाक्षिणी ॥ २,७१.२२७ ॥

यामेतं वहसे कंस रथेन प्रियकारणात् ।
तस्या यश्चाष्टमो गर्भः स ते मृत्युर्भबिष्यति ॥ २,७१.२२८ ॥

तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः ।
निष्कृष्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा ॥ २,७१.२२९ ॥

तमुवाच महाबाहुर्वसुदेवः प्रतापवान् ।
उग्रसेनात्मजं कसं सौत्दृदात्प्रणयेन वा ॥ २,७१.२३० ॥

न स्त्रियं क्षत्रियो जातु हन्तुमर्हसि कश्चन ।
उपायः परिदृष्टोऽत्र मया यादवनन्दन ॥ २,७१.२३१ ॥

योऽस्याः संजायते गर्भो ह्यष्टमः पृथिवीपते ।
तमहं ते प्रयच्छामि तत्र कुर्या यथाक्रमम् ॥ २,७१.२३२ ॥

न त्विदानीं यथेष्टं त्वं वर्त्तेथा भूरिदक्षिण ।
सर्वानप्यथ वा गर्भान्पृथङ्नेष्यामि ते वशम् ॥ २,७१.२३३ ॥

एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति ।
एवमुक्तोऽनुनीतः स जग्राह वचनं तदा ॥ २,७१.२३४ ॥

वसुदेवश्च तां भार्यामवाप्य मुदितोऽभवत् ।
कंसस्तस्यावधीत्पुत्रान्पापकर्मा वृथामतिः ॥ २,७१.२३५ ॥

ऋषय ऊचुः
क एष वसुदेवस्तु देवकी च यशस्विनी ।
नन्दगोपस्तु कस्त्वेष यशोदा य महायशाः ॥ २,७१.२३६ ॥

यो विष्णुं जनयामास यं च तातेत्यभाषत ।
या गर्भं जनयामास या वैनं याभ्यवर्द्धयत् ॥ २,७१.२३७ ॥

सूत उवाच
पुरुषः कश्यपस्त्वासी ददितिस्तत्प्रिया तथा ।
कश्यपो ब्रह्मणोंऽशश्च पृथिव्या आदितिस्तथा ॥ २,७१.२३८ ॥

नन्दो द्रोणः समाख्यातो यशोदा च धराभवत् ।
अथ कामान्महाबाहुर्देवक्याः संप्रवर्द्धयन् ॥ २,७१.२३९ ॥

अचरत्स महीं देवः प्रविष्टो मानुषीं तनुम् ।
मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ २,७१.२४० ॥

नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम् ।
कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ॥ २,७१.२४१ ॥

वैदर्भी रुक्मिणी कन्या सत्या नग्नजितस्तदा ।
सत्राजितः सत्यभामा जांबवत्यपि रोहिणी ॥ २,७१.२४२ ॥

शैब्या धन्यानि देवीनां सहस्राणि च षोडश ।
चतुर्दश तु ये प्रोक्ता गणास्त्वप्सरसां दिवि ॥ २,७१.२४३ ॥

विचार्य देवैः शक्रेण विशिष्टास्त्विह प्रेषिताः ।
पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु ॥ २,७१.२४४ ॥

एताः पत्न्यो महाभागा विष्वक्सेनस्य विश्रुताः ।
प्रद्युम्नश्चारुदेष्णश्च सुदेवः शरभस्तथा ॥ २,७१.२४५ ॥

चारुश्च चारुभद्रश्च भद्रचारुस्तथापरः ।
चारुविद्यश्च रुक्मिण्यां कन्या चारुमती तथा ॥ २,७१.२४६ ॥

सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रवित्तथा ।
जरोऽधकस्ताम्रचक्रौ सौभरिश्च जरेधरः ॥ २,७१.२४७ ॥

चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।
भानुः सौभरिका चैव ताम्रपर्णी जरन्धरः ॥ २,७१.२४८ ॥

सत्यभामासुता एते जांबवत्याः प्रजाः श्रुणु ।
भद्रश्च भद्रगुप्तश्च भद्रचित्रस्तथैव च ॥ २,७१.२४९ ॥

बध्रबाहुश्च विख्यातः कन्या भद्रवती तथा ।
संबोधनी च विख्याता ज्ञेया जांबवतीसुताः ॥ २,७१.२५० ॥

संग्रामजिच्च शतजित्तथैव च सहस्र जित् ।
एते पुत्राः सुदेव्यां च विष्वक्सेनस्य कीर्त्तिताः ॥ २,७१.२५१ ॥

वृको वृकाश्वो वृकजिद्वृजिनी च वराङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्या प्रजास्त्विह ॥ २,७१.२५२ ॥

एवमादीनि पुत्राणां सहस्राणि निबोधत ।
प्रयुतं तु समाख्यातं वासुदेवस्य ये सुताः ॥ २,७१.२५३ ॥

अयु तानि यथाष्टौ च शूरा रणविशारदाः ।
जनार्दनस्य वंशो वः कीर्तितोऽयं यथातथम् ॥ २,७१.२५४ ॥

बृहती पुरुभार्यासीत्सुमध्या सुगतिस्तथा ।
कन्या सा बृहदुक्थस्य शैनेयस्य महात्मनः ॥ २,७१.२५५ ॥

तस्याः पुत्रास्तु विख्यातास्त्रयः समितिशोभनाः ।
आनन्दः कनकः श्वेतः कन्या श्वेता तथैव च ॥ २,७१.२५६ ॥

अगावहस्य चित्रश्च शूरश्चित्ररथश्च यः ।
चित्रसेनः स्मृतश्चास्य कन्या चित्रवती तथा ॥ २,७१.२५७ ॥

तुम्बश्च तुम्बंवर्चाश्च जातौ तुम्बस्य तावुभौ ।
उपासंगसुतौ द्वौ तु वज्रारः क्षिप्र एव च ॥ २,७१.२५८ ॥

भूरीन्द्रसेनो भूरिश्च गवेषणसुतापुभौ ।
युधिष्टिरस्य कन्यायां सुधनुस्तस्य चात्मजः ॥ २,७१.२५९ ॥

काश्यां तु पञ्च तनयांल्लेभे सांबात्तरस्विनः ।
सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्त्तिताः ॥ २,७१.२६० ॥

तिस्रः कोट्यस्तु पौत्राणां यादवानां महात्मनाम् ।
सर्वमेव कुलं यच्च वर्त्तन्ते चैव ये कुले ॥ २,७१.२६१ ॥

विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिभिस्तस्य बध्यन्ते सुरमानुषाः ॥ २,७१.२६२ ॥

देवासुराहवहता असुरा ये महाबलाः ।
इहोत्पन्ना मनुष्येषु बाधन्ते ते तु मानवान् ॥ २,७१.२६३ ॥

तेषामुत्सादनार्थाय उत्पन्ना यादवे कुले ।
समुत्पन्नं कुलशतं यादवानां महात्मनाम् ॥ २,७१.२६४ ॥

इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः ।
कीर्त्तिता कीर्त्तनीया स कीर्त्तिसिद्धिमभीप्सता ॥ २,७१.२६५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपदे वृष्णिवंशानुकीर्त्तनं नामैकसप्ततितमोऽध्यायः ॥ ७१॥