ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← मध्यभागः, अध्यायः १२ ब्रह्माण्डपुराणम्
अध्यायः १३
[[लेखकः :|]]
मध्यभागः, अध्यायः १४ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


बृहस्पतिरुवाच
सकृदभ्यर्चिताः प्रीता भवन्ति पितरोऽव्ययाः ।
योगात्मानो महात्मानो विपाप्मानो महौजसः ॥ २,१३.१ ॥

प्रेत्य च स्वर्गलोकाय कामैश्च बहुलं भुवि ।
येषु वाप्यनुगृह्णन्ति मोक्षप्राप्तिः क्रमेण तु ॥ २,१३.२ ॥

तानि वक्ष्याम्यहं सौम्य सरांसि सरितस्तथा ।
तीर्थानि चैव पुण्यानि देशांश्छैलांस्तथाश्रमान् ॥ २,१३.३ ॥

पुण्यो हि त्रिषु लोकेषु सदैवामरकण्टकः ।
पर्वतप्रवरः पुण्यः सिद्धयारणसेवितः ॥ २,१३.४ ॥

यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च ।
तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा ॥ २,१३.५ ॥

यत्र मृत्योर्गतिर्न्नास्ति तथैवासुररक्षसाम् ।
न भयं नैव चालक्ष्मीर्यावद्भूमिर्द्धरिष्यति ॥ २,१३.६ ॥

तपसा तेजसा तस्य भ्रजते स नगोत्तमः ।
शृङ्गे माल्यवतो नित्यं वह्निः संवर्त्तको यथा ॥ २,१३.७ ॥

मृदवस्तु सुगन्धाश्च हेमाभाः प्रियदर्शनाः ।
शान्ताःकुशा इति ख्याताः परिदक्षिणनर्मदाम् ॥ २,१३.८ ॥

दृष्टवान्स्वर्गसोपानं भगवानङ्गिराः पुरा ।
अग्निहोत्रे महातेजाः प्रस्तारार्थं कुशोत्तमान् ॥ २,१३.९ ॥

तेषु दर्भेषु यः पिण्डान्मरकण्टटकपर्वते ।
दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम् ॥ २,१३.१० ॥

तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्धनम् ।
अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा ॥ २,१३.११ ॥

तत्र ज्वालासरः पुण्यं दृश्यते चापि पर्वसु ।
सशल्यानां च सत्त्वानां विशल्यकरणी नदी ॥ २,१३.१२ ॥

प्राग्दक्षिणायतावर्त्ता वापी सा सुनगोत्तमे ।
कलिङ्गदेशपश्चार्द्धे शृङ्गे माल्यवतो विभोः ॥ २,१३.१३ ॥

सिद्धिक्षेत्रमृषिश्रेष्ठा यदुक्तं परमं भुवि ।
संमतं देवदैत्यानां श्लोकं चाप्युशना जगौ ॥ २,१३.१४ ॥

धन्यास्ते पुरुषा लोके ये प्राप्यामरकण्टकम् ।
पितॄन्संतर्पयिष्यन्तिश्राद्धे पितृपरायणाः ॥ २,१३.१५ ॥

अल्पेन तपसा सिद्धिं गमिष्यन्ति न संशयः ।
सकृदेवार्चितास्तत्र स्वर्गमामरकण्टके ॥ २,१३.१६ ॥

महेन्द्रःपर्वतः पुण्यो रम्यः शक्रनिषेवितः ।
तत्रारुह्य भवेत्पूतः श्राद्धं चैव महाफलम् ॥ २,१३.१७ ॥

वैलाटशिखरे युक्त्वा दिव्यं चक्षुः प्रवर्तते ।
अधृष्यश्चैव भूतानां देववच्चरते महीम् ॥ २,१३.१८ ॥

सप्तगोदावरे चैव गोकर्णे च तपोवने ।
अश्वमेधफलं स्नात्वा तत्र दत्त्वा भवेत्ततः ॥ २,१३.१९ ॥

धूतपापस्थलं प्राप्य पूतः स्नात्वा भवेन्नरः ।
रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः ॥ २,१३.२० ॥

गोकर्णे निहितं देवैर्नास्तिकानां निदर्शनम् ।
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति ॥ २,१३.२१ ॥

देवर्षिभवने शृङ्गे सिद्धचारणसेविते ।
आरुह्य तं नियमवांस्ततो याति त्रिविष्टपम् ॥ २,१३.२२ ॥

दिव्यैश्चन्दनवृक्षैश्च पादपैरुपशोभितम् ।
आपश्चन्दनसंयुक्ताः स्पन्दंति सततं ततः ॥ २,१३.२३ ॥

नदी प्रवर्तते ताभ्यस्ताम्रपर्णीति नामतः ।
या चन्दनमहाखण्डाद्दक्षिणं याति सागरम् ॥ २,१३.२४ ॥

नद्यास्तस्याश्च ताम्रायास्तूह्यमाना महोदधौ ।
शङ्खा भवन्ति शुक्त्यश्च जायते यासु मौक्तिकम् ॥ २,१३.२५ ॥

उदकानयनं कृत्वा शङ्खमौक्तिकसंयुतम् ।
आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम् ॥ २,१३.२६ ॥

चन्दनेभ्यः प्रसूतानां शङ्खानां मौक्तिकस्य वा ।
पापकर्त्तॄनपि पितॄंस्तारयन्ति यथाश्रुति ॥ २,१३.२७ ॥

चन्द्रतीर्थे कुमार्यां च कावेरीप्रभवे क्षये ।
श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ ॥ २,१३.२८ ॥

एकस्था यत्र दृश्यन्ते वृक्षाह्यौशीरपर्वते ।
पलाशाः खदिरा बिल्वाः प्लक्षाश्वत्थविकङ्कताः ॥ २,१३.२९ ॥

एवं द्विमण्डलाविद्धं विज्ञेयं द्विजसत्तमाः ।
अस्मिंस्त्यक्त्वा जनोंऽगानि क्षिप्रं यात्यमरावतीम् ॥ २,१३.३० ॥

श्रीपर्वतस्य तीर्थे तु वैकृते च तथा गिरौ ।
कर्माणि तु प्रयुक्तानि सिद्ध्यन्ति प्रभवाप्यये ॥ २,१३.३१ ॥

दुष्प्रयुक्ता हि पितृषु सुप्रयोगा भवन्त्युत ।
पितॄणां दुहिता पुण्या नर्मदा सरितां वरा ॥ २,१३.३२ ॥

यत्र श्राद्धानि दत्तानि ह्यक्षयाणि भवन्त्युत ।
माठरस्य वने पुण्ये सिद्धचारणसेविते ॥ २,१३.३३ ॥

अन्तर्द्धानेन गच्छन्ति युक्त्वा तस्मिन्महागिरौ ।
विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनीम् ॥ २,१३.३४ ॥

धारां पापा न पश्यन्ति धारां पश्यन्ति साधवः ।
तत्र तद्दृश्यते पापं केषां चित्पापकर्मणाम् ॥ २,१३.३५ ॥

कैलासे या मतङ्गस्य वापी पापनिषूदनी ।
स्नात्वा तस्यां दिवं यान्ति कामचारा विहङ्गमाः ॥ २,१३.३६ ॥

शौर्पारके तथा तीर्थे पर्वते पालमञ्जरे ।
पाण्डुकूपे समुद्रान्ते पिण्डारकतटे तथा ॥ २,१३.३७ ॥

विमले च विपापे च संकल्पं प्राप्य चाक्षयम् ।
श्रीवृक्षे चित्रकूटे च जंबूमार्गे च नित्यशः ॥ २,१३.३८ ॥

असितस्य गिरौ पुण्ये योगाचार्यस्य धीमतः ।
तत्रापि श्राद्धमानन्त्यमसितायां च नित्यशः ॥ २,१३.३९ ॥

पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलम् ।
महोदधौ प्रभासे च तद्वदेव विनिर्दिशेत् ॥ २,१३.४० ॥

देविकायां वृषो नाम कूपः सिद्धनिषेवितः ।
समुत्पतन्ति तस्यापो गवां शब्देन नित्यशः ॥ २,१३.४१ ॥

योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतः ।
दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥ २,१३.४२ ॥

अक्षयं सर्वकामीयं श्राद्धं प्रीणाति वै पितॄन् ।
जातवेदः शिला तत्र साक्षादग्नेः सनातनात् ॥ २,१३.४३ ॥

श्राद्धानि चाग्निकार्यं च तत्र कुर्यात्सदा क्षयम् ।
यस्त्वग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते ॥ २,१३.४४ ॥

अग्निशान्तः पुनर्जातस्तत्र दत्तं ततोऽक्षयम् ।
दशाश्वमेधिके तीर्थे तीर्थे पञ्चाश्वमेधिके ॥ २,१३.४५ ॥

यथोद्दिष्टफलं तेषां क्रतूनां नात्र संशयः ।
ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम् ॥ २,१३.४६ ॥

श्राद्धं तत्र सदाक्षय्यं दाता स्वर्गे च मोदते ।
श्राद्धं सुंदनिसुंदे च देयं पापनिषू दनम् ॥ २,१३.४७ ॥

श्राद्धं तत्राक्षयं प्रोक्तं जपहोमतपांसि च ।
जतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन् ॥ २,१३.४८ ॥

दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम् ।
पृथिव्यामक्षयं दत्तं विरजा यत्र पादपः ॥ २,१३.४९ ॥

योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतः ।
दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥ २,१३.५० ॥

अर्चितास्तेन वै साक्षाद्भवन्ति पितरः सदा ।
अस्मिंल्लोके वशी च स्यात्प्रेत्य स्वर्गे मही यते ॥ २,१३.५१ ॥

प्रायशो मद्रवा पुण्या शिवो नाम ह्रदस्तथा ।
तत्र व्याससरः पुण्यं दिव्यो ब्रह्मह्रदस्तथा ॥ २,१३.५२ ॥

ऊर्ज्जन्तः पर्वतः पुण्यो यत्र योगेश्वरालयः ।
अत्रैव चाश्रमः पुण्यो वसिष्ठस्य महात्मनः ॥ २,१३.५३ ॥

ऋग्यजुः सामशिरसः कपोताः पुष्पसाह्वयाः ।
आख्यान पञ्चमा वेदाः सृष्टा ह्येते स्वयंभुवा ॥ २,१३.५४ ॥

गत्वैतान्मुच्यते पापद्द्विजो वह्निं समाश्रयन् ।
श्राद्धं चानन्त्यमेतेषु जपहोमतपांसि च ॥ २,१३.५५ ॥

पुण्डरीके महातीर्थे पुण्डरीकसमं फलम् ।
ब्रह्मतीर्थे महाप्राज्ञ सर्वयज्ञसमं फलम् ॥ २,१३.५६ ॥

सिंधुसागरसंभेदे तथा पञ्चनदे क्षयम् ।
विरजायां तथा पुण्यं मद्रवायां च पर्वते ॥ २,१३.५७ ॥

देयं सप्तनदे श्राद्धं मानसे वा विशेषतः ।
महाकूटे ह्यनन्ते च गिरौ त्रिककुदे तथा ॥ २,१३.५८ ॥

संध्यायां च महानद्यां दृश्यते महादद्भुतम् ।
अश्रद्दधानं नाभ्येति सा चाभ्येति धृतव्रतम् ॥ २,१३.५९ ॥

संश्रयित्वैकमेकेन सायाह्नं प्रति नित्यशः ।
तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिनाम् ॥ २,१३.६० ॥

कृतात्मा वाकृतात्मा च यत्र विज्ञायते नरः ।
स्वर्गमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम् ॥ २,१३.६१ ॥

चीराण्युत्सृज्य यस्मिंस्तु दिवं सप्तर्षयो गाताः ।
अद्यापि तानि दृश्यन्ते चीराण्यंभोगतानि तु ॥ २,१३.६२ ॥

स्नात्वा स्वर्गमवाप्नोति तस्मिंस्तीर्थेत्तमे नरः ।
ख्यातमायतनं तत्र नन्दिनः सिद्धसेवितम् ॥ २,१३.६३ ॥

नन्दीश्वरस्य सा मूर्त्तिर्निराचारैर्नदृश्यते ।
दृश्यन्ते काञ्चना युपास्त्वर्चिषो भास्करोदये ॥ २,१३.६४ ॥

कृत्वा प्रदक्षिणं तांस्तु गच्छन्त्यानन्दिता दिवम् ।
सर्वतश्च कुरुक्षेत्रं सुतीर्थं तु विशेषतः ॥ २,१३.६५ ॥

पुण्यं सनत्कुमारस्य योगेशस्य महात्मनः ।
कीर्त्यते च तिलान्दत्त्वा पितृभ्योवै सदाक्षयम् ॥ २,१३.६६ ॥

उक्तमेवाक्षयं श्राद्धं धर्मराजनिषेवितम् ।
श्राद्धं दत्तममावास्यां विधिना च यथाक्रमम् ॥ २,१३.६७ ॥

पुंसः सन्निहितायां तु कुरूक्षेत्रे विशेषतः ।
अर्चयित्वा पितॄंस्तत्र स पुत्रस्त्वनृणो भवेत् ॥ २,१३.६८ ॥

सरस्वत्यां विनशने प्लक्षप्रश्रवणे तथा ।
व्यासतीर्थे दृषद्वत्यां त्रिप्लक्षे च विशेषतः ॥ २,१३.६९ ॥

देयमोङ्कारपवने श्राद्धमक्षयमिच्छता ।
शक्रावतारे गङ्गायां मैनाके च नगोत्तमे ॥ २,१३.७० ॥

यमुनाप्रभवे चैव सर्वपापैः प्रमुच्यते ।
अत्युष्णाश्चातिशीताश्च आपस्तस्मिन्निदर्शनम् ॥ २,१३.७१ ॥

यमस्य भगिनी पुष्या मार्त्तण्डदुहिता शुभा ।
तत्राक्षयं सदा श्राद्धं पितृभिः पूर्वकीर्त्तितम् ॥ २,१३.७२ ॥

ब्रह्मतुण्डह्रदे स्नात्वा सद्दयो भवति ब्राह्मणः ।
तस्मिंस्तु श्राद्धमानन्त्यं जपहोमतपांसि च ॥ २,१३.७३ ॥

स्थाणुभूतोऽचरत्तत्र वसिष्टो वै महातपाः ।
अद्यापि तत्र दृश्यन्ते पादपा मणिबर्हणाः ॥ २,१३.७४ ॥

तुला तु दृश्यते तत्र धर्मान्धर्मनिदर्शिनी ।
यथा वै तोलितं विप्रैस्तीर्थानां फलमुत्तमम् ॥ २,१३.७५ ॥

पितॄणां दुहिता योगा गन्धकालीति विश्रुता ।
चतुर्थो ब्रह्मणस्त्वंशः पराशरकुलोद्भवः ॥ २,१३.७६ ॥

व्यसिष्यति चतुर्द्धा वै वेदं धीमान्महामुनिः ।
महायोगं महात्मानं या व्यासं जनयिष्यति ॥ २,१३.७७ ॥

अच्छोदकं नामसरस्तत्राच्छोदासमुद्भवः ।
मत्स्ययोनौ पुनर्जाता नियोगात्कारणेन तु ॥ २,१३.७८ ॥

तस्यास्त्वाद्याश्रमे पुण्ये पुण्यकृद्भिर्निषेविते ।
दत्तं सकृदपि श्राद्धमक्षयं समुदाहृतम् ॥ २,१३.७९ ॥

नद्यां योगसमाधानं दत्तं युगपदुद्भवेत् ।
कुबेरतुङ्गे पापघ्नं व्यासतीर्थेतथैव च ॥ २,१३.८० ॥

पुण्यायां ब्रह्मणो वेद्यां श्राद्धमानन्त्यमिष्यते ।
सिद्धैस्तु सेविता नित्यं दृश्यते तु कृतात्मभिः ॥ २,१३.८१ ॥

अनिवर्तनं तु नन्दायां वेद्याः प्रागुत्तरदिशि ।
सिद्धिक्षेत्रं सुरैर्जुष्टं यत्प्राप्य न निवर्त्तते ॥ २,१३.८२ ॥

महालये पदं न्यस्तं महादेवेन धीमता ।
भूतानामनुकंपार्थं नास्तिकानां निदर्शनम् ॥ २,१३.८३ ॥

विरजे त्वक्षयं श्राद्धं पूर्वमेव महालये ।
नन्दायां विरजे चैव तथैव च महालये ॥ २,१३.८४ ॥

आत्मानं तारयन्तीह दशपूर्वान्दशापरान् ।
काकह्रदे जातिस्मर्यं सुवर्णममितौजसम् ॥ २,१३.८५ ॥

कौमारं च सरः पुण्यं नागभोगाभिरक्षितम् ।
कुमारतीर्थे स्नात्वा तु त्रिदिवं याति मानवः ॥ २,१३.८६ ॥

देवालये तपस्तस्वा एकपादेन दुश्चरम् ।
निराहारो युगं दिव्यमुमातुङ्गो स्थितो ज्वलन् ॥ २,१३.८७ ॥

उमातुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये ।
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥ २,१३.८८ ॥

अक्षयं तु सदा श्राद्धं शालग्रामे समन्ततः ।
दुष्कृतं दृश्यते तत्र प्रत्यक्षमकृतात्मनाम् ॥ २,१३.८९ ॥

प्रत्यदेशो ह्यशिष्टानां शिष्टानां च विशेषतः ।
तत्र देवह्रदः पुण्यो ब्रह्मणो नागराट्शुचिः ॥ २,१३.९० ॥

पिण्डं गृह्णति हि सतां न गृह्णात्यसतां सदा ।
अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते ॥ २,१३.९१ ॥

प्रत्यक्षं दृश्यते धर्मस्तीर्थयोर्नतयोर्द्वयोः ।
कारवत्यां च शाण्डिल्यां गुहायां वामनस्य च ॥ २,१३.९२ ॥

गत्वा चैतानि पूतःस्याच्छ्रदद्धमक्षयमेव च ।
जपो होमस्तपो ध्यानं यत्किञ्चित्सुकृतं भवेत् ॥ २,१३.९३ ॥

ब्रह्मचर्यं च यौ धत्ते गुरुभक्तिं शतं समाः ।
एवमाद्यास्सरिच्छ्रेष्ठा यत्स्नानादघमोक्षणम् ।
कुमारधारा तत्रैव दृष्टा पापं प्रणश्यति ॥ २,१३.९४ ॥

ध्यानासनं तु तत्रैव व्यासस्याद्यापि दृश्यते ।
शैलः कान्तिपुराभ्याशे प्रागुदीच्यां दिशि स्थितः ॥ २,१३.९५ ॥

पुण्य पुष्करिणी तत्र किरातगणरक्षिता ।
यस्यां स्नात्वा सकृद्विप्रः कामानाप्नोति शाश्वतान् ॥ २,१३.९६ ॥

अदृश्यः सर्वभूतानां देववच्चरते महीम् ॥ २,१३.९७ ॥

काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ।
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥ २,१३.९८ ॥

देवदारुवने वापि धारायास्तु निदर्शनम् ।
निर्धूतानि तु पापानि दृश्यन्ते सुकृतात्मनाम् ॥ २,१३.९९ ॥

भागीरथ्यां प्रयागे तु नित्यमक्षयमुच्यते ।
कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले ॥ २,१३.१०० ॥

वाराणस्यां नगर्यां च देयं श्राद्धं प्रयत्नतः ।
तत्र योगेश्वरो नित्यं तस्यां दत्तमथाक्षयम् ॥ २,१३.१०१ ॥

गत्वा चैतानि पूर्तः स्याच्छ्राद्धमक्षय्यमेव च ।
जबो होमस्तथा ध्यानं यत्किञ्चित्सुकृतं भवेत् ॥ २,१३.१०२ ॥

लौहित्ये वैतरण्यां चस्वर्गवेद्यां तथैव च ।
सा तु देवी समुद्रान्ते दृश्यते चैव नामभिः ॥ २,१३.१०३ ॥

गयायां धर्मवृष्ठे तु सरसि ब्रह्मणस्तथा ।
गयां गृध्रवटे चैव श्राद्धं दत्तं महाफलम् ॥ २,१३.१०४ ॥

हिमं च पतते तत्र समन्तात्पञ्चयो जनम् ।
भरतस्याश्रमे पुण्येऽरण्यं पुण्यतमं स्मृतम् ॥ २,१३.१०५ ॥

मतङ्गस्य वनं तत्र दृश्यते सर्वमानुषैः ।
स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम् ॥ २,१३.१०६ ॥

यद्दण्डकवनं पुण्यं पुण्यकृद्भिर्निषेवितम् ।
यस्मिन्प्राहुर्विशल्येति तीर्थं सद्यो निदर्शनम् ॥ २,१३.१०७ ॥

तुलामानैस्तथा चापि शास्त्रैश्च विविधैस्तथा ।
उन्मच्चन्ति तथा लग्न ये वै पापकृतो जनाः ॥ २,१३.१०८ ॥

तृतीयायां तथा पादे निराधायां तु मण्डले ।
महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम् ॥ २,१३.१०९ ॥

मुण्डपृष्टे पदं न्यस्तं महादेवेन धीमता ।
बहुदेवयुगांस्तप्त्वा तपस्तीव्रं सुदश्चरम् ॥ २,१३.११० ॥

अल्पेनाप्यत्र कालेन नरो धर्मपरायणः ।
पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ॥ २,१३.१११ ॥

सिद्धानां प्रीतिजननं पपानां च भयङ्करम् ।
लेलिहानैर्महाघोरै रक्ष्यते सुमहोरगैः ॥ २,१३.११२ ॥

नाम्ना कनकनन्दीति तीर्थं जगति विश्रुतम् ।
उदीच्यां मुण्डपृष्टस्य ब्रह्मर्षिगणसेवितम् ॥ २,१३.११३ ॥

तत्र स्नात्वा दिवंयान्ति स्वशरीरेण मानवाः ।
दत्तं वापि सदा श्राद्धमक्षय्यं समुदाहृतम् ॥ २,१३.११४ ॥

ऋणैस्त्रिभिस्ततः स्नात्वा निष्क्रीणाति नरस्तनुम् ।
मानसे सरसि स्नात्वा श्राद्धंनिर्वर्त्तयेत्ततः ॥ २,१३.११५ ॥

तीरे तु सरसस्तस्य देवस्या यतनं महत् ।
आरुह्य तु जपंस्तत्र सिद्धो याति दिवं ततः ॥ २,१३.११६ ॥

उत्तरं मानसं गत्वासिद्धिं प्राप्नोत्यनुत्तमाम् ।
स्नात्वा तस्मिन्सरश्रेष्ठे दृश्यते महादद्भुतम् ॥ २,१३.११७ ॥

दिवश्च्युता महाभागा ह्यन्तरिक्षे विराजते ।
गङ्गा त्रिपथगा देवी विष्णुपादाच्च्युता सती ॥ २,१३.११८ ॥

आकाशे दृश्यते तत्र तोरणं सूर्यसन्निभम् ।
जांबूनदमयं पुण्यं स्वगद्वारमिवायतम् ॥ २,१३.११९ ॥

ततः प्रवर्त्तते भूयः सर्वसागरमण्डिका ।
पावनी सर्वभूतानां धर्मज्ञानां विशेषतः ॥ २,१३.१२० ॥

चन्द्रभागा च सिद्धुश्च शुभे मानससंभवे ।
सागरं पश्चिमं यातो दिव्यः सिंधुनदो वरः ॥ २,१३.१२१ ॥

पर्वतो हिमवान्नाम नानाधातुविभूषितः ।
आयतो वै सहस्राणि योजनानां बहुनि तु ॥ २,१३.१२२ ॥

सिद्धचारणसंकीर्णा देवर्षिगणसेविता ।
तत्र पुष्करिणी रम्या सुषुम्णा नाम नामतः ॥ २,१३.१२३ ॥

दशवर्षसहस्राणि तस्यां स्नातस्तु जीवति ।
श्राद्धं भवति चानन्तं तत्र दत्तं महोदयम् ॥ २,१३.१२४ ॥

तारयेच्च सदा श्राद्धे दशपूर्वान्दशापरान् ।
सर्वत्र हिमवान्पुण्यो गङ्गा पुण्या समन्ततः ॥ २,१३.१२५ ॥

समुद्रगाः समुद्राश्च सर्वे पुण्याः समन्ततः ।
एवमादिषु चान्येषु श्राद्धं निर्वर्तयेद्बुधः ॥ २,१३.१२६ ॥

पुतो भवति वै स्नात्वा हुत्वा दत्त्वा तथैव च ।
शेलसानुषु शृङ्गेषु कन्दरेषु गुहासु च ॥ २,१३.१२७ ॥

उपह्वरनितंबेषु तथा प्रस्रवणेषु च ।
पुलिनेष्वापगानां च तथैव प्रभवेषु च ॥ २,१३.१२८ ॥

महोदधौ गवां गोष्टे संगमेषु वनेषु च ।
सुसंमृष्टोपलिप्तेषु त्दृद्येषु सुरभिष्वथ ॥ २,१३.१२९ ॥

गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ।
कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि ॥ २,१३.१३० ॥

प्राग्दक्षिणां दिशं गत्वा सर्वकामचिकीर्षया ।
एवमेतेषु सर्वेषु श्राद्धं कुर्यादतन्द्रितः ॥ २,१३.१३१ ॥

एतेष्वेव तु मेधावी ब्राह्मीं सिद्धिमवाप्नुयात् ।
त्रैवर्णविहितैः स्थाने धर्मे वर्णाश्रमे रतैः ॥ २,१३.१३२ ॥

कौपस्थानं च संत्यागात्प्राप्यते पितृपूजनम् ।
तीर्थान्यनुसरन्वीरः श्रद्दधानः समाहितः ॥ २,१३.१३३ ॥

कृतपापोऽपि शुध्येत किं पुनः शुभकर्मकृत् ।
तिर्यग्योनिं न गच्छेच्च कुदेशे च न जायते ॥ २,१३.१३४ ॥

स्वर्गी भवति विप्रो वै मोक्षोपायं च विन्दति ।
अश्रद्दधानः पापायुर्नास्तिकोऽच्छिन्नसंशयः ॥ २,१३.१३५ ॥

हेतुनिष्ठश्च पञ्चैते न तीर्थे फलभागिनः ।
गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम् ॥ २,१३.१३६ ॥

ध्यानं तीर्थं परं तस्माद्ब्रह्मतीर्थं सनातनम् ।
उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम् ॥ २,१३.१३७ ॥

उपवासनिबद्धैर्हि प्राणैरेव पुनः पुनः ।
प्राणापानौ वशे कृत्वा वशगानीन्दियाणि च ॥ २,१३.१३८ ॥

बुद्धिं मनसि संयम्य सर्वेषां तु निवर्त्तनम् ।
प्रत्याहारं कृतं विद्धि मोक्षोपायमसंशयम् ॥ २,१३.१३९ ॥

इन्द्रियाणां मनो घोरं बुद्ध्यादीनां विवर्त्तनम् ।
अना हारो क्षयं याति विद्यादनशनं तपः ॥ २,१३.१४० ॥

निग्रहे बुद्धिमन्सोरन्यबुद्धिर्न जायते ।
क्षीणेषु सर्वदोषेषु क्षीणेष्वेवेन्द्रियेषु च ॥ २,१३.१४१ ॥

परिनिर्वाति शुद्धात्मा यथा वह्निरनिधनः ।
कारणेभ्यो गुणेभ्यश्च व्यक्ताव्यक्ताच्च कुत्स्नशः ॥ २,१३.१४२ ॥

नियोजयति क्षेत्रज्ञं तेभ्योयोगेन योगवित् ।
तस्य नास्ति गतिः स्थानं व्यक्ताव्यक्ते च सर्वशः ।
न सन्नासन्न सदसन्नैव किञ्चिदवस्थितः ॥ २,१३.१४३ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे पुण्यदेशानुकीर्त्तनं नाम त्रयोदशोऽध्यायः ॥ १३॥