ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६६

विकिस्रोतः तः
Jump to navigation Jump to search
← मध्यभागः, अध्यायः ६५ ब्रह्माण्डपुराणम्
अध्यायः ६६
[[लेखकः :|]]
मध्यभागः, अध्यायः ६७ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सूत उवाच
सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः ।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ २,६६.१ ॥

ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः ।
आहर्त्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ २,६६.२ ॥

सत्यवाग्धर्मबुद्धिश्च कान्तः संवृत्तमैथुनः ।
अतीव त्रिषु लोकेषु रूपेणाप्रतिमोऽभवत् ॥ २,६६.३ ॥

तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ २,६६.४ ॥

तया सहावसद्राजा दश वर्षाणि चाष्ट च ।
सप्त षट्सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ॥ २,६६.५ ॥

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
अलकायां विशालायां नन्दने च वनोत्तमे ॥ २,६६.६ ॥

गन्धमादनपादेषु मेरुशृङ्गे नगोत्तमे ।
उत्तरांश्च कुरून्प्राप्य कलापग्राममेव च ॥ २,६६.७ ॥

एतेषु वनमुख्येषु सुरैराचरितेषु च ।
उर्वश्या सहितो राजा रेमे परमया मुदा ॥ २,६६.८ ॥

ऋषय ऊचुः
गन्धर्वी चोर्वशी देवी राजानं मानुषं कथम् ।
उत्सृज्य तं च संप्राप्ता तन्नो ब्रूहि च दुष्कृतम् ॥ २,६६.९ ॥

सूत उवाच
ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता ।
आत्मनः शापमोक्षार्थं नियमं सा चकार तु ॥ २,६६.१० ॥

अनग्नदर्शनं चैव अकामात्सह मैथुनम् ।
द्वौ मेषौ शयनाभ्याशे सा तावद्ध्यवतिष्ठते ॥ २,६६.११ ॥

घृतमात्रं तथाऽहारः कालमेकं तु पार्थिव ।
यद्येष समयो राजन्यावत्कालश्च ते दृढः ॥ २,६६.१२ ॥

तावत्कालं तु वत्स्यामि एष नः समयः कृतः ।
तस्यास्तं समयं सर्वं स राजा पर्यपालयत् ॥ २,६६.१३ ॥

एवं सा चावसत्तेन सहेलेना भिगामिनी ।
वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता ॥ २,६६.१४ ॥

उर्वशी मानुषं प्राप्ता गन्धर्वाश्चिन्तयान्विताः ।
गन्धर्वा ऊचुः
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ॥ २,६६.१५ ॥

आगच्छेत्तु पुनर्देवानुर्वशी स्वर्गभूषणम् ।
ततो विश्वापसुर्नाम गन्धर्वः सुमहामतिः ॥ २,६६.१६ ॥

जहारोरणकौ तस्यास्तत्पश्चात्सा दिवं गता ।
तस्यास्तु विरहेणासौ भ्रममाणस्त्वथोर्वशीम् ॥ २,६६.१७ ॥

ददर्श च कुरुक्षेत्रे तया संभाषितोऽप्ययम् ।
गन्धर्वानुपधावेति स तच्चक्रेऽथ ते ददुः ॥ २,६६.१८ ॥

अग्निस्थालीं तया राजा गतः स्वर्गं महारथः ।
एकोऽग्निः पूर्वमासीद्वै ऐलस्तं त्रीनकल्पयत् ॥ २,६६.१९ ॥

एवंप्रभावो राजासीदैलस्तु द्विजसत्तमाः ।
देशे पुण्यतमे चैव महर्षिभिरलङ्कृते ॥ २,६६.२० ॥

राज्यं स कारयामास प्रयागे पृथिवीपतिः ।
उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ॥ २,६६.२१ ॥

तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः ।
गन्धर्वलोके विदिता आयुर्द्धीमानमावसुः ॥ २,६६.२२ ॥

विश्वावसुः श्रुतायुश्च घृतायुश्चोवर्शीसुताः ।
अमावसोस्तु वै जाते भीमो राजाथ विश्वचित् ॥ २,६६.२३ ॥

श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ।
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबल ॥ २,६६.२४ ॥

सुहोत्रस्याभवज्जह्नुः केशिनीगर्भसंभवः ।
प्रतिगत्य ततो गङ्गा वितते य५ अर्मणि ॥ २,६६.२५ ॥

सादयामास तं देशं भाविनोर्ऽथस्य दर्शनात् ।
गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ २,६६.२६ ॥

सौहोत्रिरपि संक्रुद्धो गङ्गां राजा द्विजोत्तमाः ।
तदाराजर्षिणा पीतां गङ्गां दृष्ट्वा सुरर्षयः ॥ २,६६.२७ ॥

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ।
यौवनाश्वस्य पौत्रीं तु कावेरीं जह्नुरावहत् ॥ २,६६.२८ ॥

युवनाश्वस्य शापेन गङ्गार्द्धेन विनिर्ममे ।
कावेरीं सरितां श्रेष्ठ जह्नुभार्यामनिन्दिताम् ॥ २,६६.२९ ॥

जह्नुस्तु दयितं पुत्रं सुनहं नाम धार्मिकम् ।
कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ २,६६.३० ॥

अजकस्य तु दायादो बलाकाश्वो महायशाः ।
बभूव मृग शीलः सुशस्तस्यात्मजः स्मृतः ॥ २,६६.३१ ॥

कुशपुत्रा बभूवुश्च चत्वारो देववर्चसः ।
कुशांबः कुशानाभश्च अमूर्तरयमो वसुः ॥ २,६६.३२ ॥

कुशिकस्तु तपस्तेपे पुत्रार्थी राजसत्तमः ।
पूर्णे वर्षसहस्रे वै शतक्रतुरपश्यत ॥ २,६६.३३ ॥

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ २,६६.३४ ॥

पुत्रत्वं कल्पयामास स्वयमेव पुरन्दरः ।
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥ २,६६.३५ ॥

पौरुकुत्स्यभवद्भार्या गाधेस्तस्यामजायत ।
पूर्वं कन्या महाभागा नाम्ना सत्यवती शुभा ॥ २,६६.३६ ॥

तां गाधिः पुत्रकामाय ऋचीकाय ददौ प्रभुः ।
तस्याः प्रीतस्तु वै भर्त्ता भार्गवो भृगुनन्दनः ॥ २,६६.३७ ॥

पुत्रार्थे साधयामास चरुं गाधेस्तथैव च ।
अथावोचत्प्रियां तत्र ऋचीको भार्गवस्तदा ॥ २,६६.३८ ॥

उपभोज्यश्चरुरयं त्वया मात्रा च ते शुभा ।
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्त्रियर्षभः ॥ २,६६.३९ ॥

अजेयः क्षत्त्रियैर्युद्धे क्षत्रियर्षभसूदनः ।
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ २,६६.४० ॥

शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ।
एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ॥ २,६६.४१ ॥

तपस्यभिरतो नित्यमरण्यं प्रविशेश ह ।
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥ २,६६.४२ ॥

तीर्थयात्राप्रसंगेन सुतां द्रष्टुं नरेश्वरः ।
चरुद्वयं गृहीत्वा तु ऋषेः स्त्यवती तदा ॥ २,६६.४३ ॥

भर्तुर्वचनमव्यग्रा हृष्टा मात्रे न्यवेदयत् ।
माता तु तस्यै दैवैन दुहित्रे स्वचरुं ददौ ॥ २,६६.४४ ॥

तस्याश्चरुमथाज्ञानादात्मनः सा चकार ह ।
अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम् ॥ २,६६.४५ ॥

धारयामास दीप्तेन वपुषा घोरदर्शना ।
तामृचीकस्ततो दृष्ट्वा योगेनाप्यवमृश्य च ॥ २,६६.४६ ॥

तदाब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ।
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ २,६६.४७ ॥

जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुमः ।
माता जनिष्यते चापि तथा भूतं तपोधनम् ॥ २,६६.४८ ॥

विश्वं हि ब्रह्मतपसा मया तत्र समर्पितम् ।
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ २,६६.४९ ॥

प्रसादयामास पतिं सुतो मे नेदृशो भवेत् ।
ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिमब्रवीत् ॥ २,६६.५० ॥

नैव संकल्पितः कामो मया भद्रे तथा त्वया ।
उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् ॥ २,६६.५१ ॥

पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम् ।
इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ॥ २,६६.५२ ॥

शमात्मकमृजुं भर्त्तः पुत्रं मे दातुमर्हसि ।
काममेवंविधः पौत्रो मम स्यात्तव सुव्रत ॥ २,६६.५३ ॥

यद्यन्यथा न सक्यं वै कर्तुंमेवं द्विजोत्तम ।
ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ॥ २,६६.५४ ॥

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि ।
त्वया यथोक्तं वचनं तथा भद्रेभविष्यति ॥ २,६६.५५ ॥

तस्मात्सत्यवती पुत्रं जनयामास भार्गवम् ।
तपस्यभिरतं दान्तं जमदग्निं शमात्मकम् ॥ २,६६.५६ ॥

भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।
जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ॥ २,६६.५७ ॥

विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ।
प्राप्य ब्रह्मर्षिसमतां जगाम ब्रह्मणा वृतः ६६.५८॥
सा हि सत्यवती पुण्या सत्यव्रतपरायणा ।
कौशिकी तु समाख्याता प्रवृत्तेयं महानदी ॥ २,६६.५९ ॥

परिस्रुता महाभागा कौशिकी सरितां वरा ।
इक्ष्वाकुवंशप्रभवो रेणुको नाम पार्थिवः ॥ २,६६.६० ॥

तस्य कन्या महाभागा कमली नाम रेणुका ।
रेणुकायां कमल्यां तु तपोधृतिसमाधिना ॥ २,६६.६१ ॥

आर्चीको जनयामाम जमदग्निः सुदारुणम् ।
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ २,६६.६२ ॥

रामं क्षत्त्रियहन्तारं प्रदीप्तमिव पावकम् ।
और्वस्यैवमृचीकस्य सत्यवत्यां महामनाः ॥ २,६६.६३ ॥

जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ।
मध्यमश्च शुनःशेफः शुनः पुच्छः कनिष्ठकः ॥ २,६६.६४ ॥

विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।
जज्ञे भृगुप्रसादेन कौशिकान्वयवर्द्धनः ॥ २,६६.६५ ॥

विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवन्मुनिः ।
हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियतः स वै ॥ २,६६.६६ ॥

देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः ।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥ २,६६.६७ ॥

विश्वामित्रस्य पुत्राणां शुनःशेफोऽग्रजः स्मृतः ।
मधुच्छन्दादयश्चैव कृतदेवौ ध्रुवाष्टकौ ॥ २,६६.६८ ॥

कच्छपः पूरणश्चैव विश्वामित्रसुतास्तु वै ।
तेषाङ्गोत्राणि बहुधा कौशिकानां महात्मनाम् ॥ २,६६.६९ ॥

पार्थिवा देवराताश्च जाज्ञवल्क्याः समर्पणाः ।
उदुंबराश्च वातड्यास्तलकायनचान्द्रवाः ॥ २,६६.७० ॥

लोहिण्यो रेणवस्छैव तथा कारिषवः स्मृताः ।
बभ्रवः पणिनस्छैव ध्यानजप्यास्तथैव च ॥ २,६६.७१ ॥

श्यामायना हिरण्याक्षाः सांकृता गालवाः स्मृताः ।
देवला यामदूताश्च शालङ्कायनबाष्कलाः ॥ २,६६.७२ ॥

लालाढ्या बादराश्चान्ये विश्वामित्रस्य धीमतः ।
ऋष्यन्तरविवाह्यास्ते बहबः कौशिकाः स्मृताः ॥ ६५.७३॥
कौशिकाः सौश्रुताश्चैव तथान्ये सैन्धवायनाः ।
योगेश्वरस्य पुण्यस्य बह्मर्षेः कौशिकस्य वै ।
विश्वामित्रस्य पुत्राणां शुनःशेफोऽग्रजः स्मृतः ॥ २,६६.७४ ॥

दृषद्वती सुतश्चापि विश्वामित्रात्तथाष्टकः ।
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ॥ २,६६.७५ ॥

ऋषय ऊचुः
किंलक्षणेन धर्मेण तपसेह श्रुतेन वा ॥ २,६६.७६ ॥

ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः ।
येनयेनाभिधानेन ब्राह्मण्यं क्षत्रिया गताः ॥ २,६६.७७ ॥

विशेषं ज्ञातुमिच्छामि तपसो दानतस्तथा ।
एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत् ॥ २,६६.७८ ॥

अन्यायोपगतैर्द्रव्यैराहूय द्विजसत्तमान् ।
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ २,६६.७९ ॥

जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः ।
रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ॥ २,६६.८० ॥

तेन दत्तानि दानानि ह्यफलानि भवन्त्युत ।
तस्य धर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ॥ २,६६.८१ ॥

एवं लब्ध्वा धने मोहाद्ददतो यजतश्च ह ।
संक्लिष्टं कर्मणा दानं न तिष्ठति दुरात्मनः ॥ २,६६.८२ ॥

न्यायागतानां द्रव्याणां तीर्थं संप्रतिपादनम् ।
कामाननभि संधाय यजते च ददाति च ॥ २,६६.८३ ॥

स दानफलमाप्नोति तच्च दानं सुखोदयम् ।
दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ॥ २,६६.८४ ॥

तपसा तु सुतप्तेन लोकान्विष्टभ्य तिष्ठति ।
सत्यं तु तपसः श्रेयस्तस्माज्ज्ञानं गुरु स्मृतम् ॥ २,६६.८५ ॥

श्रूयते हि तपस्सिद्धाः क्षत्त्रोपेता द्विजातयः ।
विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः ॥ २,६६.८६ ॥

काश्यश्च पुरुकुत्सश्च शलो गृत्समदः प्रभुः ।
आर्ष्टिषेणोऽजमीढश्च भार्गव्योमस्तथैव च ॥ २,६६.८७ ॥

कक्षीवांश्चैवौशिजश्च नृपश्च शिशिरस्तथा ।
रथान्तरः शौनकश्च विष्णुवृद्धादयो नृपाः ॥ २,६६.८८ ॥

क्षत्रोपेताः स्मृता ह्येते तपसा ऋषितां गताः ।
एते राजर्षयः सर्वे सिद्धिं तु महतीं गताः ॥ २,६६.८९ ॥

अत ज्ञर्ध्वं प्रवक्ष्यामि आयोर्वंशं महात्मनः ॥ २,६६.९० ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उवोद्धात पादे भार्गवचरिते अमावसुवंशानुकीर्त्तनं नाम षट्षष्टितमोऽध्यायः ॥ ६६॥